किन्तु ब्रह्मादिभिर्देवैः पुरा दृष्ट्वा निरंहसः
[भगवता ब्रह्मरुद्रादिदेवतापूजाकरणे निमित्तम्]
भाष्यम्
किन्तु ब्रह्मादिभिर्देवैः पुरा दृष्ट्वा निरंहसः ।
निर्भयान् विष्णुनाम्मैव यथेष्टं पदमागतान् ॥
अलब्ध्वा चाऽत्मनः पूजां सम्यगाराधितो हरिः ।
मया चास्मादपि श्रैष्ठ्यं वाञ्छताऽहङ्कृतात्मना ।
ततः साक्षाज्जगन्नाथः प्रसन्नो भक्तवत्सलः ।
अंशांशेनाऽत्मनैवैतान् पूजयामास केशवः ॥
देवान् पितॄन् द्विजान् हव्यकव्याद्यैः करुणामयः ।
ततः प्रभृति पूज्यन्ते त्रैलोक्ये सचराचरे ॥ इति पाद्मे ॥
भावबोधटिप्पणी
एवं ‘अथो अयं वा आत्मा' इत्यादिवाक्य जीवान्तर्गतरूपेण वा मूलरूपेण वा यज्ञादिकर्तृत्वाद् भगवान् देवाद्याश्रय इति व्याख्यातम् । इदानीं रामकृष्णा- द्यवताररूपेणापि यज्ञादिकर्तृत्वाद् देवाद्याश्रय इत्यपि तद्वाक्यस्यार्थमभिप्रेत्य तत्र प्रमाणमाह- किन्त्विति ।। हरिर्विधिबद्धतया रामकृष्णादिरूपेण देवादीन् पूजयामासेति न किन्त्वित्यर्थः । पुरा कृतयुगे विष्णुनानैव विष्णोरेव * देवत्वेन पूजाकरणेन निरंहसो निर्गतपापान् अत एव नरकादिभयशून्यान् यथेष्टं पदमागतान् दृष्ट्वाऽऽत्मनो देवत्वेन स्वातन्त्र्येण पूजां च अलब्ध्वोत्तरयुगप्रवृत्तिमिच्छद्भिः ब्रह्मादिभिः देवैरसुरजनमोहनाय हर्याज्ञयैव सम्यगाराधित इत्यर्थः । न केवलं ब्रह्मादिभिः किन्तु अस्माद् विष्णोरपि श्रैष्ठ्यं दुष्टजनमोहनाय विष्ण्वाज्ञयैव वाञ्छताऽहङ्काराभिमानिना मया च सम्यगाराधितः । रुद्रवाक्यमिदम् । तंत आराधनात्प्रसन्नः, अंशस्य पुरुषावतारस्य अंशेन रामकृष्णादिरूपेण ॥ १० ॥