तमेताः सप्ताक्षितय उपतिष्ठन्ते तद्या इमा ..
[दक्षिणाक्षिस्थः प्राणः ]
उपनिषत्
तमेताः सप्ताक्षितय उपतिष्ठन्ते तद्या इमा अक्षंल्लोहिन्यो राजयस्ताभिरेनं रुद्रोऽन्वायत्तोऽथ या अक्षन्नापस्ताभिः पर्जन्यो या कनीनिका तयाऽदित्यो यत्कृष्णं तेनाग्निर्यच्छुक्लं तेनेन्द्रोऽधरयैनं वर्तन्या पृथिव्यन्वायत्ता द्यौरुत्तरया नास्यान्नं क्षीयते य एवं वेद ॥२॥
भाष्यम्
दक्षिणाक्षिस्थितं वायुं सप्तदेवा उपासते ।
अक्षीणज्ञानमनसः सदाशिवपुरःसराः ॥
उपास्यमानं तैर्देवैर्मोक्षार्थं वायुमीश्वरम् ।
स्थूणया विष्णुना सार्धं यो विद्यात्सोऽन्नमश्नुते ॥
अक्षीणमेव मुक्तः सन् सर्वदुःखविवर्जितः ।
भावबोधटिप्पणी
तमेताः सप्ताक्षितयः इत्येतद् व्याचष्टे - दक्षिणाक्षिस्थितमिति ॥ इमा अलोन्य इति वायूपासकरुद्रादीनां चक्षुः प्रदेशनिष्ठत्वोक्त्योपास्यस्यापि वायोः चक्षुःस्थितत्वमर्थंलब्धमिति भावेनैतदुक्तं स्वरूपेणाक्षिस्थित्वं सर्वसाधारणमित्यतो व्याचष्टे - अक्षीणेति ॥ उपासनायां तदक्षयस्यैवोपयोगादिति भावः । नास्यान्नं क्षीयते य एवं वेदेति वाक्यं ऐहिकमात्रफलपरत्वप्रतीतिनिवारणाय व्याचष्टे - उपास्यमानमिति || मोक्षार्थं आनन्दातिशयार्थम् । 'तमेवं विद्वान्' इति श्रुतिविरोधपरिहारायोक्तं स्थूणया विष्णुना सार्धमिति ।। २ ।।