स यः कामयेत महत्प्राप्नुयामित्युदगयन आपूर्यमाणपक्षस्य ..

[ साधनमार्गे विघ्ननिवारणोपायः होमः ]

उपनिषत्

स यः कामयेत महत्प्राप्नुयामित्युदगयन आपूर्यमाणपक्षस्य पुण्याहे द्वादशाहं उपसद्व्रती भूत्वौदुम्बरे कंसे चमसे वा सर्वौषधं फलानीति सम्भृत्य परिसमूह्य परिलिप्याग्निमुपसमाधाय परिस्तीर्यावृताज्यं संस्कृत्य पुंसा नक्षत्रेण मन्थंसन्नीय जुहोति यावन्तो देवास्त्वयि जातवेदस्तिर्यञ्चो घ्नन्ति पुरुषस्य कामांस्तेभ्योऽहं भागधेयं जुहोमि

ते मा तृप्ताः सर्वैः कामैस्तर्पयन्तु स्वाहाया तिरश्चीनि पद्यतेऽहं विधरणी इति तां त्वा घृतस्य धारया यजेंसराधनीं महं स्वाहा ॥ १ ॥

ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।

प्राणाय स्वाहा वसिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।

वाचे स्वाहा प्रतिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।

चक्षुषे स्वाहा सम्पदे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।

श्रोत्राय स्वाहा आयतनाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।

मनसे स्वाहा प्रजापतये स्वाहेत्यग्नौ हुत्वा मन्थे संस्रव मवनयति ।

रेतसे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ॥ २ ॥

अग्नये स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति सोमाय स्वाहेत्यग्नौ हुत्वा संस्रवमवनयति भूः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति भुवः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति स्वः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति भूर्भुवस्वः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ब्रह्मणे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति क्षत्राय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति भूताय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति भविष्यते स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति विश्वाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति सर्वाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति प्रजापतये स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ॥ ३ ॥

अथैनमभिमृशति भ्रमदसि ज्वलदसि पूर्णमसि प्रस्तब्धमस्येकशफमसि हिंकृतमसि हिङ्क्रियमाणमस्युद्गीथमसि उद्गीयमानमसि श्रावितमसि प्रत्याश्रावितमस्यार्द्रे सन्दीप्तमसि विभुरसि प्रभुरस्यन्नमसि ज्योतिरसि निधनमसि संवर्गोऽसीति ॥ ४ ॥

अथैनमुद्यच्छत्यामं स्यामं हि ते महि स हि राजेशानोऽधिपतिः स मां राजेशानोऽधिपतिं करोत्विति ॥ ५ ॥

अथैनमाचामति तत्सवितुर्वरेण्यं मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः माध्वीर्नः सन्त्वोषधीर्भूः स्वाहा । भर्गो देवस्य धीमहि मधु नक्तमुतोषसो मधुमत् पार्थिवं रजः मधुद्यौरस्तु नः पिता भुवः स्वाहा । धियो यो नः प्रचोदयात् मधुमान्नो वनस्पतिर्मधु मां अस्तु सूर्यः माध्वीर्गावो भवन्तु नः स्वः स्वाहेति सर्वां च सावित्रीमन्वाह सर्वाश्च मधुमतीरहमेवेदं सर्वं भूयासं भूर्भुवः स्वः स्वाहेत्यन्तत आचम्य पाणी प्रक्षाल्य जघनेनाग्निं प्राक्शिराः संविशन्ति प्रातरादित्यमुपतिष्ठते दिशमेकपुंडरीकमसि अहं मनुष्याणामेकपुंडरीकं भूयासमिति यथेतमेत्य जघनेनाग्निमासीनो वंशं जपति ॥ ६ ॥

[होमविधे: आचार्यपरम्परा]

तं हैतमुद्दालक आरुणिर्वाजसनेयाय याज्ञवल्क्यायान्तेवासिन उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्च्छाखाः प्ररोहेयुः पलाशानीति ॥ ७ ॥

एतमु हैव वाजसनेयो याज्ञवल्क्यो मधुकाय पैंग्यायान्तेवासिन उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्च्छाखाः प्ररोहेयुः पलाशानीति ॥ ८ ॥

एतमु हैव मधुकः पैंग्यश्चूलाय भागवित्तयेऽन्तेवासिन उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्च्छाखाः प्ररोहेयुः पलाशानीति ॥ ९ ॥

एतमु हैव चूलो भागवित्तिर्जानकाय आयस्थूणायन्तेवासिन उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्च्छाखाः प्ररोहेयुः पलाशानीति ॥ १० ॥

एतमु हैव जानकिरायस्थूणः सत्यकामाय जाबालायान्तेवासिन उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्च्छाखाः प्ररोहेयुः पलाशानीति ॥ ११ ॥

एतमु हैव सत्यकामो जाबालोऽन्तेवासिभ्य उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरन् शाखाः प्ररोहेयुः पलाशानीति तमेतं नापुत्राय वाऽनन्तेवासिने वा ब्रूयात् ॥ १२ ॥

चतुरौदुम्बरो भवत्यौदुम्बरः स्रुव औदुम्बरश्चमस औदुम्बर इध्म औदुम्बर्या उपमन्थन्यौ दश ग्राम्याणि धान्यानि भवन्ति व्रीहियवास्तिलमाषा अणुप्रियंगवो गोधूमाश्च मसूराश्च खल्वाश्च खलकुलाश्च तान् पिष्टान् दधनि मधुनि घृत उपसिञ्चत्याज्यस्य जुहोति ॥ १३ ॥

इति तृतीयं ब्राह्मणम्

भावबोधटिप्पणी

योऽधिकारी दृष्टादृष्टमहत्त्वमिच्छेत्तस्य कर्तव्यविशेषमाह - स य इत्यादिना ब्राह्मणेन ॥ योऽधिकारी अहं महत् महत्त्वं दृष्टादृष्टमहत्त्वं प्राप्नुयामिति कामयेत् स उदगयने उत्तरायणे आपूर्यमाणपक्षस्य शुक्लपक्षस्य पुण्याहे पुण्यदिवसे पुंसा नक्षत्रेण हस्तस्वात्यादिपुंनक्षत्रेण जुहोति जुहुयादित्यन्वयः । तत्रेतिकर्तव्यता-विशेषमाहद्वादशाहमिति || होमदिवसात्प्राक् द्वादशाहं द्वादशदिवसपर्यन्त- मुपसद्व्रती भूत्वा पयोमात्रादिभक्षणेनोपवासलक्षणव्रतवान् भूत्वौदुम्बरे उदुम्बरवृक्षमये चमसे चमसपात्रे । कंसे कांस्यपात्रे वा सर्वौषधं सर्वासा मोषधीनां वक्ष्यमाण- व्रीह्यादिधान्यानां समुदायं फलानि अनिषिद्धानि क्रमुककदलीप्रभृतीनि फलानीत्येवमादिसम्भरणीयं सम्भृत्य सङ्गृह्य परिसमूह्य भूशुद्धिं कृत्वा परिलिप्य कुण्डमुपलिप्य तत्राग्निमुपसमाधाय स्थापयित्वा परिस्तीर्य स्वशाखोक्तिप्रकारेण दर्भैरास्तीर्य आवृताज्यं होमाज्यं विलापनादिना संस्कृत्य मन्थं सर्वौषधीनां पिष्टं सन्नीय समीपमानीय संस्कृताज्येन जुहोति । होममन्त्रान् पठंस्तावद्देवताप्रार्थनारूपं मन्त्रद्वयं पठति- यावन्त इत्यादिना || जातं सर्वं वेत्तीति जातवेदाः तस्य सम्बुद्धिर्हे जातवेदः । सर्वज्ञायन्तर्गत भगवन् त्वयि स्थिता यावन्तो देवास्तिर्यञ्चो वक्रगतयः सन्तः पुरुषस्य मम कामान् घ्नन्ति । तेभ्यो देवेभ्यः भागधेयमाज्यभागमहं जुहोमि ते गृहीताज्यभागा देवास्तृप्तास्सन्तो मा मां सर्वैः कामैस्तपर्यन्तु स्वाहेति प्रथमाहुतिमन्त्रः । अहं विधरणीविघ्नकर्त्रीति या देवता तिरश्ची वक्रगतिर्निपद्यते ज्ञायते तां संराधन समस्तपुरुषार्थसाधिकां त्वा त्वाम् अहं घृतस्य धारया यजे स्वाहेति द्वितीयहोममन्त्रः । प्रथमाहुतिद्वयमाज्यमात्रेण घृतस्य धारयेति श्रवणात् । तथाचेयं योजना- संराधनीमहं स्वाहेति मन्त्रेणाग्नावाज्यं हुत्वा मन्थे सर्वौषधीनां पिष्टे संस्रवं स्रुबसंस्पृष्टमाज्यमवनयति सिञ्चेत् । एवमाज्यसंस्कृतं पिष्टं ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहा तस्यैव विवरणं प्राणाय स्वाहेति मन्त्रेणानौ जुहुयात् । एवमग्नौ हुत्वा पुनर्मन्थे संस्रवमवनयति । तदाज्यसंस्कृतं पिष्टं वसिष्ठायै स्वाहा । तस्यैव विवरणं वाचे स्वाहेति जुहुयादित्यादि द्रष्टव्यम् । एतेनाग्नौ हुत्वा मन्थे संस्रवमवनयतीत्यन्ते उक्तस्याधिक्यं नेति न तस्योपसंहारपरत्वं कल्पनीयम् । यद्वा ज्येष्ठाय स्वाहेति मन्त्रेणाग्नावाज्यसंस्कृतमन्थं हुत्वा पुनर्होम्ये मन्थे संस्रव- मवनयतीत्यादि यथाश्रुतमेव । नचान्ते उक्तस्याधिक्यम् । होमशेषस्य मन्थस्योत्तरत्रोपयोगकथनेन तत्संस्कारार्थमन्तेऽपि मन्थे संस्रवणं कर्तव्यमिति भावेन तथोक्तत्वात् । एवं हुते दृष्टादृष्टममहत्वं लभ्यते उक्तं च- 'ज्येष्ठश्रेष्ठादिकैर्हुत्वा प्राणायात्र परत्र च । ज्येष्ठः श्रेष्ठः समानेभ्यो भवेन्नात्र विचारणा' इति ॥ १-३ ॥

अथ होमानन्तरमेनं होमावशिष्टपिष्टं अभिमृशति अभिमर्शनं कुर्यात् । तन्मन्त्रमाहभ्रमदसीत्यादिना ।। अत्र मन्थस्थो विष्णुः स्तूयते । हे मन्थस्थ ब्रह्मन् त्वं भ्रमदसि । जगत्सर्जनादिक्रियारूपमसि जगद्भामकमसीति वा । ज्वलदसि प्रकाशरूपमसि । गुणैः पूर्णमसि । प्रस्तब्धं निष्क्रियमसि । अक्लिष्टकारित्वात् । एकसभमसि । एका सभा जगद्रूपा यस्य तत् त्वमेकसभमसि एकशफमिति पाठे एकशफात्मकाश्वाद्यन्तर्गतमसीति व्याख्येयम् । यज्ञारम्भे प्रस्तोत्रा यत् हिङ्कृतं तत् त्वमसि त्वमेव यज्ञारम्भे उच्चरितहिङ्कारप्रतिपाद्यमिति भावः । तेनैव यज्ञमध्ये यत् हिङ्क्रियमाणं तत् त्वंमसि तत्प्रतिपाद्यमसि । उद्गात्रा यज्ञारम्भे उद्गीथमसि उच्चत्वेन गीतमसि । तेनैव यज्ञमध्ये उद्गीयमानमुच्चत्वेन गीयमानमसि । अध्वर्युणा श्रावित- मसि । आग्नीध्रेण त्वं प्रत्याश्रावितमसि त्वमेव तदुभयोच्चारित - मन्त्रप्रतिपाद्यमिति यावत् । आर्द्रे मेघोदरे विद्युदाद्यन्तर्गतरूपेण दीप्तमसि । विभुर्व्यापकोऽसि । प्रभुः समर्थोऽसि | अन्नमसि अद्यत्वादत्तृत्वाच्च ज्योतिर्ज्ञानरूपोऽसि । निधनं सर्वेषां लयस्थानमसि । संवर्गोऽसि समीचीनो वर्गो देवतारूपो यस्य सः संवर्गः सोऽसीति ।। ४ ।।

अथैवमभिमर्शनानन्तरं एनं मन्थं सपात्रमुद्यच्छति हस्ते गृह्णाति । हस्ते गृहीत्वा जप्यमन्त्रमाहआमंसीति ॥ हे मन्थस्थ भगवन् ते तव महि महत्तरं रूपं त्वमेवाऽऽमंसि आसमन्तात्साकल्येन जानासि । वयं च ते तव महि महत्तरं रूपम् । ते तव प्रसादात् आमं हि ईषदेव जानीम इत्यर्थः । स त्वं राजेशान ईशानां ब्रह्मादीनां अनश्चेष्टकः । गुणाधिकः पालकश्चेत्यधिपतिरिति ह प्रसिद्धमित्यर्थः । स राजेशानो भगवान् मामधिपतिं स्वावरस्वामिनं करोत्वित्यर्थः । इतिशब्दः मन्त्रसमाप्तिद्योतकः ।। ५ ।।

अथैवं मन्त्रजपानन्तरम् । एनं हस्ते गृहीतं मन्थं ग्रासचतुष्टयं कृत्वा पृथक् संस्थाप्य प्रथमं ग्रासमाचामति भक्षयति भक्षयेदित्यर्थः । तन्मन्त्रमाह- तत्सवितु-रिति ।। द्वितीयग्रासमन्त्रमाह - भर्गो देवस्येति । तृतीयग्रासमन्त्रमाह- धियो यो न इति ।। चतुर्थग्रासमन्त्रमाह - सर्वां चेति । सर्वां च सावित्रीं गायत्रीं सर्वाश्च मधुमतीरुक्त्वा अनु पश्चादहमेवेदं सर्वं स्वयोग्यतानुसारेण पूर्णं भूयासमिति वदेत् । ततो भूर्भुवः स्वाहेति चतुर्थग्रासं भक्षयेत्। अन्ततो भक्षणान्तत आचम्याऽऽचमनं कृत्वा पाणी हस्तौ प्रक्षाल्य शुद्धाचमनं च विधाय जघनेनाग्रिं अग्रेर्जघनप्रदेशे पश्चिमे देशे प्राक्शिरा रात्रौ संविशति शयीतेत्यर्थः ।अयं गायत्र्यर्थः- यः नोऽस्माकमशेषजीवानां धियो बुद्धीः प्रचोदयात् प्रेरयेत् तस्य सवितुर्देवस्य नारायणस्य तत् गुणैस्ततं तस्मादेव वरेण्यं वरणीयं भजनीयं भर्गो भारतिज्ञानरूपं धीमहि चिन्तयाम इति ।।

अयं मधुमत्यर्थः- वातावयवो मधुनः सुखं यथा भवति तथा ऋतायते वान्ति वान्तु प्रार्थनप्रकरणात् । सिन्धवो नद्यो मधुनः सुखं यथा स्यात्तथा क्षरन्ति स्रवन्ति स्रवन्तु । ओषधीरोषधयो नोऽस्माकं माध्वीरानन्दकरास्सन्तु । नक्तं रात्रिरुषस उत दिवसाश्च मधुसुखमुद्दिश्य सन्तु । पार्थिवं रजो मधुमत् आनन्दकरमस्तु । पिता द्यौर्नो मधुसुखमुद्दिश्याऽस्तु । वनस्पतिर्नो मधुमान् सुखकरोऽस्तु । सूर्यो मधुमानस्तु । गावो नोऽस्माकं माध्वी सुखकराः भवन्त्विति । अत्र सर्वत्र वाय्वाद्यभिमानिदेवतायास्तदन्तर्गत विष्णोर्वा प्रार्थनं क्रियते । 'पूर्णो भूतिवरोऽ- नन्तसुख' इति व्याहृत्यर्थः । रात्रौ शयित्वा प्रातः सन्ध्यावन्दनं कृत्वा सूर्योदयकाले आदित्यमुपतिष्ठते आदित्यान्तर्गतभगवदुपासनं कुर्यात् । तन्मन्त्रमाह - दिशा- मिति ।। हे आदित्यान्तर्गत भगवंस्त्वं दिशां सर्वदिग्वर्तिप्राणिनामेकपुण्डरीकमसि मुख्यः श्रेष्ठोऽसि । अतस्तदुपासकोऽहं मनुष्याणामेकपुण्डरीकं भूयासमित्यर्थः । पूर्वं शयनाद् यथेतं सन्ध्यावन्दनाद्यर्थं गतं तथा एत्य गत्वा जघनेनाग्निमग्नेः पश्चिम- देशे आसीनः उपविष्टः सन् वंशमेतद्विद्योपदेशकाचार्यपरम्परालक्षणं जपति जपेत् ॥ ६ ॥

तमेव वंशमाहते हैतमिति । तमेतं निर्माणक्रमसहितं मन्थं अरुणस्या- पत्यमारुणिरुद्दालकनामा वाजसनेयाय याज्ञवल्क्यायाऽन्तेवासिने शिष्या-योक्त्वोवाच । किं हे याज्ञवल्क्य योऽधिकारी एनं होमावशिष्टमन्थम् । यदि शुष्के स्थाणौ निषिश्चेत् तर्हि तस्मिन् स्थाणौ शाखा जायेरन् पलाशानि पर्णानि च प्ररोहेयुरिति । एवमुत्तरत्रापि व्याख्येयम् || ||

मधुको नामतः पिङ्गस्याऽपत्यं पैङ्गचः ॥ ८ ॥

चूलो नामतः भगवित्तेरपत्यं भागवित्तिः || ||

जनकस्याऽपत्यं जानकिः आयस्थूणो नामतः  || १० ||

सत्यकामो नामतः जबालस्यापत्यं जाबालः ॥। ११ ॥

बहुत्वात्तच्छिष्याणामन्तेवासिभ्य इत्येवोक्तम् एतद्विद्यासम्प्रदानयोग्यानाह- तमेतमिति । तमेतं पूर्वोक्तमाहात्म्यविशिष्टमन्धमपुत्राय पुत्रशून्याय न ब्रूयात् । अनन्तेवासिने शिष्यशून्याय च न ब्रूयात् । तादृशाय कथने परम्पराविच्छेदेन बहुपुरुषार्थालाभात् । यद्वा अनन्तेवासिनेऽन्यविद्यास्वशिष्याय न ब्रूयात् । यथोक्तंअन्यविद्यास्वशिष्यस्य न ब्रूयात् प्रथमं कचित्' इति ।। १२ ।।

औदुम्बरे कंसेचमसेवेत्यादि वाक्ये अपेक्षितमनुक्तं भागमाह- चतुरौदुम्बर इति || औदुम्बरः उदुम्बरविकारश्चतुश्चतुस्सङ्ख्याको भवति । तदेवाह - औदुम्बरः स्रुव इति ॥ उपमन्धन्यावरणी । सर्वौषधं सम्भृत्येत्युक्तं विवृणोति - दशेति ॥ ग्राम्याणि प्रधानानि धान्यानि दश भवन्ति भवेयुः । कानि तानीत्यत आहव्रीहियवा इति ।। व्रीहियवास्तिलमाषाः प्रसिद्धाः अणवः श्यामाकाः प्रियङ्गवो गोधूमाश्च प्रसिद्धाः मसूराः देशान्तरप्रसिद्धाः खल्वानिष्पावाः खलु कुलाः कुलित्थाः तान् व्रीह्यादीन् पिष्टान् पिष्टीकृतान् दधनि मधुनि कृते उपसिञ्चति तेनाक्तं कुर्यादित्यर्थः । एवमुक्तं कृत्वानन्तरमाज्यस्य भागं पूर्वोक्तप्रकारेण जुहोतीति

।। १३ ।।॥ इति तृतीयं ब्राह्मणम् ॥