विष्णोः पुरीषस्थानीया काठिन्यात्पृथिवी श्रुता
भाष्यम्
[यज्ञाश्वे सकलदेवतासान्निध्यवर्णनम् ]
विष्णोः पुरीषस्थानीया काठिन्यात्पृथिवी श्रुता ।
तत्स्थत्वात्सिकताः सर्वा ऊबध्यस्थाः प्रकीर्तिताः ॥
उर्व्यास्तु पादगत्वेsपि नोवध्यत्वं विरुध्यते ।
यतस्तदभिमानिन्यो देवता अनुकीर्तिताः ॥
तासां व बहुरूपत्वादैश्वर्याच्च परेशितुः ॥ इति च ॥
अवान्तरदिशो विष्णोरस्थिपुच्छान्युदाहृताः ।
पूर्वपश्चार्धभेदेन दिशः पार्श्वे प्रकीर्तिते ।
शिरश्च पादमूलानि पुच्छं षडृतवः स्मृताः ।
संवत्सराभिमानी च ब्रह्मा सर्वशरीरगः ॥
क्लोमानश्च यकृच्चैव मांसौ गिर्यभिमानिनः ।
आन्त्रेषु नद्यः सर्वाश्च सोऽयं विष्णुः सनातनः ॥ इति च ॥
नभोऽभिमानी विघ्नेशो विष्णोर्मांसाश्रितः सदा ।
अन्तरिक्षाभिमानी च तत्सूनुरुदरे स्थितः ॥ इति च ॥ १ ॥
भावबोधटिप्पणी
ऊबध्यं सिकता इत्येतत् उवध्यमुदरस्थमजीर्णमशनं सिकताः विश्लिष्टावयव- साम्यादित्यन्यैर्व्याख्यातम् । तदसत् । अप्रामाणिकत्वात्प्रमाणविरुद्धत्वाच्चेति भावेनो-वध्यशब्दार्थं प्रमाणेनाऽह - विष्णोरिति ॥ इदानीमूवध्यं सिकता इति वाक्यार्थमाह– तत्स्थत्वादिति || ननु 'पृथिवी पाजस्यम्' इति पृथिव्याः पादगत्वोक्तेः कथमुदरगतोवध्यरूपत्वमित्यत आह- उर्व्यास्त्विति || एकस्या जडरूपायाः पृथिव्याः कथं पादोदरोभयगतत्वमित्यत आह- यत इति ।। अनुकीर्तिताः पृथिव्यादिशब्दैः। तथाऽपि पृथिव्यभिमानिधराया एकत्वात्तदवस्थो दोष इत्यत आह— तासां चेति । एकस्या बहुरूपत्वं कथमित्यत आह- ऐश्वर्यादिति || ' आत्मानं बहुधा कृत्वा क्रीडते योगसम्पदा' (बृ. ३.७.३) इत्युक्त योगसम्पदादिरूपहेतुसमुच्चये चशब्दः। ‘अवान्तरदिशः पशवः' इत्येतद् व्याचष्टे - अवान्तरेति । पार्श्वस्थास्थीनि पुच्छं चेत्यर्थः । ननु दिशां चतुष्ट्वात्पार्श्वयोर्द्वित्वात्कथं ‘'दिशः पार्श्वे' इत्युक्तिरिति चेत् अत्र सर्वमुखत्वोपपत्ते- रश्वस्य पार्श्वाभ्यामेव सर्वदिशां सम्बन्धाददोष इति केचित् । तदसत् । मुखपुच्छाद्यवयवेनापि सर्वदिशां सम्बन्धादतिप्रसङ्गादिति भावेन स्वयं प्रमाणेन परिहरति– पूर्वेति ।। पार्श्वयोः प्रत्येकं पूर्वपश्चिमार्धभागसद्भावेन चतुष्ट्वादित्यर्थः । ऋतवोऽङ्गानीत्यत्रापि सङ्ख्यावैषम्यं परिहरति- शिरश्चेति || पादमूलानि खुराः । संवत्सरो द्वादशमासाः त्रयोदशमासा वा आत्मा शरीरमित्यन्यथा- प्रतीतिनिरासाय संवत्सर आत्मेत्येतद् व्याचष्टे - संवत्सराभिमानीति ॥ अप्रतीतेर्यकृत्क्लोमन्शब्दार्थं वदन् ' यकृच्च क्लोमानश्च पर्वताः' इति वाक्यं व्याचष्टे - क्लोमानश्चेति ॥ हृदयगतदक्षिणोत्तरभागस्थमांसविशेषावित्यर्थः ।
गुदस्यैकत्वेन बहुवचनानुपपत्तेः 'सिन्धवो गुदाः' इत्येतद् व्याचष्टे - आन्त्रे- ष्विति ॥ 'नभो मांसानि ' इत्येतत् नभो नभस्था मेघाः अन्तरिक्षस्योदरत्वोक्ते- र्मांसानीति परैर्व्याख्यातम् । तदसत् । नभःशब्दस्य लाक्षणिकत्वापत्तेः । नच मुख्यार्थानुपपत्त्या तदङ्गीकारः । नभोऽन्तरिक्षशब्दयोः पृथग्वाच्यार्थसम्भवेन तदयोगादिति भावेन तद्वाक्यद्वयं व्याचष्टे - नभोऽभिमानीति ॥
खण्डार्थः
मेध्यस्य मेधार्हस्य यागीयस्याश्वस्य तदन्तर्गतभगवतः शिरः शिरसि उषाः स्थिता । वा इति अस्यार्थस्य प्रमाणप्रसिद्धिं सूचयति । सूर्यश्चक्षुः चक्षुर्गतः वातो नासिक्यवायुः प्राणः प्राणगतः वैश्वानरो वैश्वानरनामाऽग्निः व्यात्तं विवृतमुखगतः । संवत्सरस्तदभिमानी ब्रह्मा मेध्यस्याश्वस्य तदन्तर्गस्याऽत्मा सर्वशरीरगः। द्यौः द्युलोकाभिमानी पृष्ठं पृष्ठाश्रितः । अन्तरिक्षमन्तरिक्षाभिमानी विघ्नेशसूनुः उदरम् उदरे स्थितः । पृथिवी तदभिमानिनी पाजस्यं पादाश्रिता । दिशो दिगभिमानिनः पार्श्वे प्रत्येकं पूर्वपश्चिमार्धभेदेन भागद्वयोपेतोभयपार्श्वस्थाः । अवान्तरदिशः आग्नेयादिकोणाधिपाः पर्शनः पार्श्वस्थास्थिपुच्छाश्रिताः । ऋतवो वसन्ताद्यभिमानिनः षट् अङ्गानि शिरः खुरचतुष्टयपुच्छरूपषडङ्गाश्रिताः । मासाश्चार्धमासाश्चेति चशब्दावितरेतरयोगे । मासाभिमानिनः पक्षाभिमानिनश्च पर्वाणि प्रधानसन्धिषु अवान्तरसन्धिषु च स्थिताः । अहोरात्राणि तदभिमानिनः प्रतिष्ठाः प्रतितिष्ठन्त्येतैरिति प्रतिष्ठाः पादाः तदाश्रिताः । एकस्यापि भगवदङ्ग- स्यानेकदेवाश्रयत्वोपपत्तेः 'पृथिवी पाजस्यम्' 'अहोरात्राणि प्रतिष्ठा' इत्याद्युक्तिरुपपन्ना । नक्षत्राण्यश्विन्यादीनि दैवतानि अस्थीनि तदाश्रितानि । नमो नमोऽभिमानी विघ्नेशः मांसानि तदाश्रितः । सिकताः तदभिमानिदेवाः ऊवध्यं विष्णुपुरीषस्थानीयपृथिव्याश्रिताः । स्यन्दनात्सिन्धवो नद्यः गुदाः आन्त्राश्रिताः । पर्वताः गिर्यभिमानिनः यकृ क्लोमानश्च हृदयस्य दक्षिणोत्तर - भागमांसविशेषाश्रिताः । ओषधयश्च वनस्पतयश्चेति चशब्दावितरेतरसमुच्चये । तदभिमानिनः लोमानि तदाश्रिताः । उद्यन् उदयं प्राप्तः सविता पूर्वार्ध :
नाभेरूर्ध्वभागाश्रितः । निम्लोचन् अस्तङ्गतः सविता जघनार्धो नाभेरधोभागाश्रितः । विद्योतते विद्योतनं तदभिमानी यद् विजृम्भते विजृम्भणं तत् तदाश्रित इति योजना । स्तनयति गर्जनं तदभिमानी । यद् विधूते विधूननं गात्रकम्पनं तत् तदाश्रितः । वर्षति वर्षणं तदभिमानी । यन्मेहति मेहनं मूत्रणं तत्तदाश्रितः । वागेव प्रसिद्धवागभिमानिनी अस्य वाक् तदाश्रित ॥ १ ॥