इदमिति पूर्णत्वविशेषणम्

[ अहमेवेदं सर्वोऽस्मि इति श्रुत्यर्थ: ]

भाष्यम्

इदमिति पूर्णत्वविशेषणम् । 'अजानता महिमानं तवेदम्' इतिवत् स्वपूर्णतामापरोक्ष्येणानुभूयेदं पूर्णोऽस्मीति मन्यते ।

क्वचित्तद्भावशेषः स्यात् क्रियाशेषः क्वचिद् भवेत् ।

कचित् पदार्थशेषः स्यादिदमादिस्त्रिधा स्मृतः ।।' इति शब्दनिर्णये ॥

हि राजा देवो वा सर्वजगद्भवति । राज्ञो भोगापेक्षया पूर्तिर्भवतीति देव- दृष्टान्तः । प्रत्यक्षदर्शनार्थं राजदृष्टान्तः ।

स्वयोग्यपूर्तेः स्वातन्त्र्याद् राज्ञो देवगणस्य च ।

सर्वभावस्तथा मोक्षे नतु सर्वस्वरूपतः । ' इति ब्रह्मतर्के ।

भावबोधटिप्पणी

नन्विदंशब्दस्य विशेष्यनिघ्नत्वादयं सर्वोऽस्मीति वा स्यात् । इदं सर्वमस्मीति वा स्यात् । इदं सर्व इति कथमित्यत आह- इदमितीति ॥ नात्रेदमित्येतत्सर्वशब्दार्थपूर्णरूपधर्मिविशेषणम् । येन नपुंसकलिङ्गत्वानुपपत्तिः किन्तु पूर्णगतपूर्णत्वरूपधर्मविशेषणमित्यर्थः । ननु शब्दार्थत्वाभिमतधर्मिगत- धर्मविशेषणत्वेनेदंशब्दप्रयोगः क्व दृष्ट इत्यत आहअजानतेति ॥ यथाऽत्रेदंशब्दो महिमत्वरूपधर्मविशेषणत्वाभिप्रायेण प्रयुक्तः । अन्यथेमं महिमानमिति प्रयोगापत्तेः । तथाऽत्रापीति भावः । नन्वस्त्विदमिति पूर्णत्व- विशेषणं तथापि कथमेतस्य स्वयोग्यतापेक्षयेत्यर्थोक्तिः । तस्यार्थस्य पूर्वमनुक्त-त्वेनेदंशब्देन परामर्शायोगादित्यत आह- स्वपूर्णतामिति ॥ इदंशब्दस्य समभिव्याहृतशब्दार्थधर्मिंगतधर्मविशेषणत्वे प्रमाणमाह- कचिदिति । तस्य धर्मिणो भावस्तद्भावस्तस्य शेषः तद् विशेषणं स्यादित्यर्थः । क्रियाशेषः क्रियाविशेषणं तद्यथा तण्डुलानिदं पचतीति । पदार्थशेषः पदार्थविशेषणं यथेदं नीलमिति । ननु कुत एवं व्याख्येयं यथाश्रुत एवार्थः किन्न स्यादिति चेन्न । तथा सति दृष्टान्ताननुगुण्यं स्यादित्याह -- नहीति ॥ ननु यथा राजाऽहमेवेदं सर्वोऽस्मीति मन्यते । तथा मुक्तोऽपीति राजदृष्टान्तेनैव पूर्तेः किं देवदृष्टान्तेनेत्यत आह- राज्ञ इति ।। मुक्तो विषयभोगानन्वितस्वरूपानन्देन पूर्ण इत्युक्तार्थे न राजदृष्टान्तः । तस्य विषयभोगेनैव पूर्तिमत्त्वात् देवश्च तत्पदयोग्यस्वरूपानन्देन पूर्ण इति देवदृष्टान्तग्रहणमित्यर्थः । तर्हि देवदृष्टान्तेनैव पूर्ते राजदृष्टान्तो व्यर्थ इत्यत आह- प्रत्यक्षेति ।। देवस्याप्रत्यक्षत्वादिति भावः । मनुष्याधिकारिकमपि शास्त्रं भवतीति तेषां पूर्णत्वस्य प्रत्यक्षतो दर्शनार्थं राजदृष्टान्तः । अतो न व्यर्थ इत्यर्थः । श्रुत्यर्थनिश्चायकं प्रमाणमप्याहस्वयोग्येति ।। यथेति शेषः । पूर्तेरिति सम्बन्धे षष्ठी । ईश्वरदत्तस्वातन्त्र्यादित्यर्थः ॥ २० ||

Load More