एतस्य वा अक्षरस्य प्रशासने गार्गि

[ इच्छामात्रेण सर्वलोकधारकः नारायणः ]

उपनिषत्

एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचंद्रमसौ विधृतौ तिष्ठत एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः एतस्य वा अक्षरस्य प्रशासने गार्गि निमेषा मुहूर्ता अहोरात्राण्यर्धमासाः मासा ऋतवः संवत्सरा इति विधृताः तिष्ठन्त्येतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्या नद्यः स्यन्दन्ते श्वेतेभ्यो पर्वतेभ्यः प्रतीच्योऽन्या यां यां च दिशमन्वेतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः प्रशंसन्ति यजमानं देवा दर्वीं पितरोऽन्वायत्ताः ॥ ९ ॥

[ भगवतो नारायणस्य ज्ञानं विना न मोक्षः ]

यो वा एतदक्षरं गार्ग्यविदित्वाऽस्मिंल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भवति यो वा एतदक्षरं गार्ग्यविदित्वाऽस्माल्लोकात् प्रैति स कृपणोऽथ य एतदक्षरं गार्गि विदित्वाऽस्माल्लोकात् प्रैति स ब्राह्मणः ॥ १० ॥

तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्ट्रश्रुतं श्रोत्रमतं मंत्रविज्ञातं विज्ञातृ नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति श्रोतृ नान्यदतोऽस्ति मन्तृ नान्यदतोऽस्ति विज्ञात्रेतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चेति ॥ ११ ॥

सा होवाच ब्राह्मणा भगवन्तस्तदेव बहु मन्यध्वं यदस्मान्नमस्कारेण मुच्यध्वं न वै जातु युष्माकमिमं कश्चित् ब्रह्मोद्यं जेतेति ततो ह वाचक्नव्युपरराम ॥ १२ ॥

भाष्यम्

द्यावापृथिव्यौ श्रीभूमी केशौ सूर्यविधू मतौ ॥

दीप्ते : पृथुत्वाज्ज्ञानाच्च तथाऽह्लादविधेरपि ।

तदाधारो हरिर्नित्यं स्वातन्त्र्येण प्रशासकः ।

आधारत्वं श्रियो यच्च तच्च विष्णोः प्रशासनात् ।

तद्वशान्न स्वतन्त्रत्वं स स्वतन्त्रो हरिः सदा ॥ इति महामीमांसायाम् ॥

न तस्य प्राकृता मूर्तिर्मांसमेदोऽस्थिसम्भवा ।

न योगित्वादीश्वरत्वात्सत्यरूपाच्युतो विभुः । इति वाराहे ॥

'आदित्यवर्णं तमसस्तु पारे' इत्यादेश्व । 'न सत्तन्नासदुच्यते' 'अदुःखमसुखं समम्' 'न प्रज्ञं नाप्रज्ञम्' इत्यादि च ।

भावबोधटिप्पणी

एतस्य वाऽक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः' इत्यादि -वाक्यद्वयगतसूर्याचन्द्रमोद्यावापृथिवीशब्दानां प्रसिद्धार्थत्वे तद्धारकत्वस्यान्यदेवता- साधारण्येन विष्णुमात्रनिष्ठत्वं न स्यादित्यतस्तत्पदचतुष्टयस्याभिधेयमाहद्यावापृथिव्याविति ॥ प्राधान्यक्रमेण श्रुतिक्रमोलङ्घनम् । सूर्यविधू केशौ ब्रह्मरुद्र मतावित्यर्थः । द्यावापृथिवीसूर्याचन्द्रमः शब्दान् इयादिषु निर्वक्ति- दीप्तेरिति || आह्लादविधेः सुखकरणात् । एवं पदार्थमुक्त्वा एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठत इति वाक्यद्वयार्थमाह- तदाधार इति ॥ हरिः प्रशासकः सन्स्वातन्त्र्येण नित्यं तदाधार इत्यन्वयः । स्वातन्त्र्येणेत्युक्त्या भगवतः सर्वाधारत्वमन्याधीनं नेत्याह । आकाश एव तदोतं च प्रोतं चेति सर्वाधारत्वमाकाशाख्यश्रियोऽभिहितम् । इदानीं विष्णोरेव सूर्यचन्द्राद्याधारत्वं कथमुच्यत इत्यत आह- आधारत्वमिति । ननु कथं भगवत एव स्वातन्त्र्यमुच्यते सर्वाधारत्वोत्त्या आकाशाख्यश्रियोऽपि स्वातन्त्र्यावगमादित्यतो वाऽह - आधारत्वमिति ॥ श्रिय आधारत्वं विष्णोः प्रशासनादिति कुतः स्वातन्त्र्येणैव किन्न स्यादित्यत आह- तद्वशादिति ।। तद्वशत्वादित्यर्थः । श्रिय इत्यनुवर्तते । हरेः स्वातन्त्र्यं च कादाचित्कं नेत्याह- स इति ।।

ननु अतम इत्यादाविवामुखमित्यादावपि सर्वात्मना मुखादिनिषेधः किन्नेति भावेन भगवतः प्राकृतविग्रहराहित्ये प्रमाणमाह- न तस्येति । तथाच प्राकृतमुखादिराहित्यमेव श्रुत्यर्थ इति भावः । कुत एवं व्याख्येयं सर्वात्मना विग्रहादिराहित्यमेवार्थः किन्न स्यादित्यतो भगवतो रूपादिसद्भावे प्रमाणसद्भावात् तथा व्याख्याने तद्विरोधः स्यादिति भावेनाऽह - आदित्यवर्णमिति ॥ आदिपदेनाणोरणीयान्महतो महीयान् सहस्रशीर्षा पुरुष इत्यादेर्ग्रहणम् । अस्थूलमनण्वित्यादिस्थूलादिविलक्षणपरत्वेनैव व्याख्येयमित्यत्र निदर्शनमाहन सदिति । तद् ब्रह्म सदिति नोच्यते । असदिति नोच्यते इति वाक्यद्वयं यथा मूर्तामूर्तविलक्षणपरत्वेनैव व्याख्येयं नतु सत्त्वासत्त्वाभावपरत्वेन ब्रह्मणः सद्रूपत्वात् । यथोक्तंमूर्तं सदिति सम्प्रोक्तममूर्तमसदुच्यते । मूर्तामूर्तेतरद् ब्रह्म न सत्तन्नासदुच्यते' (तत्त्वो.) इति । तथेदमपीति भावः । नन्वेकप्रकरणगताना- मप्यस्थूलादिपदानां प्राकृतस्थौल्यादिनिषेधपरत्वमतो वाय्वादिपदानां सर्वात्मना तमआदिनिषेधपरत्वमिति व्याख्यानं कथमित्यत आह- अदुःखमिति ॥ यथैकस्मिन्नपि प्रकरणे असुखमित्यनेन लौकिकसुखनिषेधेऽपि दुःखमित्यनेन सर्वात्मना दुःखनिषेध एव । यथा वा न प्रज्ञमित्यत्र लौकिकज्ञाननिषेधेऽपि नाप्रज्ञमित्यत्र सर्वात्मनाऽज्ञाननिषेध एव । तत्रापीति भावः ।।

खण्डार्थः

अथोद्दालकोपरमानन्तरं वाचक्नवी वचनोर्दुहिता गार्गी याज्ञवल्क्यभार्या स्वयं पूर्वं पराजिततया सभ्यानुज्ञां विना विजिगीषुकथायां पुनः प्रश्नो न कर्तव्य इति ब्राह्मणानुज्ञार्थं ब्राह्मणान् प्रत्युवाच । किमिति ? हे ब्राह्मणाः भगवन्तः ज्ञानादिसम्पन्नाः अहम् इमं याज्ञवल्क्यं पुनः द्वौ प्रश्न प्रष्टव्य प्रक्ष्यामि । हन्त यद्यनुमतिर्भवतामस्ति । अयं याज्ञबल्क्यः । तौ प्रष्टव्यार्थों मे मम चेद् यदि वक्ष्यति तदुत्तरं कथयिष्यति । तर्हि जातु कदाचित् । युष्माकं मध्ये कश्चित् कोऽपि अन्यतमः इमं याज्ञवल्क्यम् । ब्रह्मोद्यं ब्रह्मवादिनं सन्तं नवै नैव जेता भवेदिति । अनेन ब्राह्मणानामेवं ज्ञापनरूपोपकारार्थं चायं प्रश्न इत्युक्तं भवति । एवमुक्ता ब्राह्मणा हे गार्गि त्वं पृच्छेत्यनुज्ञां

दत्तवन्तः ॥ १ ॥

सा एवं लब्धानुज्ञा गार्गी याज्ञवल्क्यं प्रत्युवाच ह । किं हे याज्ञवल्क्य अहं वै पूर्वं भीत्योपरताऽपि त्वा त्वां द्वौ प्रश्नौ पुनः प्रक्ष्यामीत्यनुषज्यते । ननु पूर्वकृतप्रश्नानामिवैतयोरपि प्रश्नयोः सुशकोत्तरत्वे पुनः प्रश्नो व्यर्थ इत्यतः तयोः प्रश्नयोः दुरुत्तरत्वं द्योतयितुं दृष्टान्तपूर्वकमाह- यथेति । यथा उग्रपुत्रः क्रूरपुत्रः शूरत्वसम्भावकमिदमुभयोर्विशेषणम् । काश्यां भवः काश्यो वा विदेहानां राजा वैदेहो वा । उज्जयम् उद् उद्गता अवरोपिता ज्या यस्य तदुज्जयम् । धनुः अधिज्यं अध्यारोपिता ज्या यस्य तदधिज्यं कृत्वा द्वौ बाणवन्तौ अयोमयवन्तौ शराविति शेषः । कीदृशौ सपनातिव्याधिनौ सपत्ना: शत्रवः तानतिशयेन बेद्धुं शीलं ययोस्तौ सपत्नातिव्याधिनौ । हस्ते कृत्वा उपोत्तिष्ठेत् शत्रोस्समीपे तिष्ठेत् । एवमेवाहं त्वां शरस्थानीयाभ्यां द्वाभ्यां प्रश्नाभ्याम् । उपोदस्थां त्वत्समीप उत्तिष्ठेयं त्वं ब्रह्मिष्ठत्वे प्रतिज्ञावांश्चेत् तर्हि तौ प्रश्नौ तयोः प्रश्नयो: उत्तरं मे मह्यं ब्रूहि । एवमुक्तो याज्ञवल्क्यः पृच्छ गार्गीत्याह ॥ २ ॥

सा एवमुक्ता गार्गी ह उवाच अपृच्छत् किम् । हे याज्ञवल्क्य । दिवः शब्दवाच्यात् स्वर्गलोकाद् वैकुण्ठलोकाद् वा । ऊर्ध्व उपरि यदास्ति महर्लोकादिकम् । ब्रह्माण्डखर्परबहिरावरणादिकं वा । पृथिव्याः भूलोकात् पृथिवीसम्बन्धिलोकसप्तकाद् वा अर्वाग् अधः यदस्ति । अतलादिकं अण्डोदकादिकं वा । अन्तरा ऊर्ध्वार्वाक्शब्दवाच्ययोः पूर्वोक्तयोर्मध्ये वर्तमानं यत् । ये इमे प्रसिद्धे द्यावापृथिवीस्वर्गादिभूरादिके । तत् जगद् भूतम् अतीतमिति भवच्च वर्तमानमिति । भविष्यचेति यदाचक्षते विद्वांसस्तत्सर्वं कस्मिन्नोतं प्रोतं चेति ॥ ३ ॥

स एवं पृष्टो याज्ञवल्क्यः उक्तानुवादपूर्वकमुत्तरमुवाच । आकाशे आसमन्तात् काशमानत्वेनाऽकाशशब्दाभिधेये श्रीतत्त्वे ॥ ४ ॥

सा एवं लब्धप्रथमप्रश्नोत्तरा गार्गी ह उवाच । याज्ञवल्क्य यस्त्वं मे मम एतं दुर्वचं प्रश्नं व्यवोचः विशेषेणोत्तरितवानसि अतस्ते तुभ्यं नमोऽस्तु । अथापरस्मै द्वितीयप्रश्नाय धारयस्व मनो धत्स्व । इतर आह पृच्छ गार्गीति

॥ ५ ॥

द्वितीयप्रश्नं कर्तुं सर्वाधारा प्रकृतिरित्यनुपचरितत्वेनावधारणार्थं पूर्वपृष्टमेव पुनः पृच्छतीत्याह- सा होवाचेत्यादिना ॥ ६ ॥

याज्ञवल्क्योऽपि पूर्वोक्तमेवोत्तरं आकाश एवेत्यवधारणेनाहेत्याह- स होवाचेत्यादिना ॥ द्वितीयं पृच्छति - कस्मिन्निति ॥ ७ ॥

एतस्मिन् खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चेत्यक्षरस्याकाशाश्रयत्वं वक्तुं कथं सर्वाधाराकाशस्याक्षरमाश्रयः स्यादित्यतस्तस्य महिमानमाह - एतद् वा इत्यादिना नान्यदतोऽस्ति विज्ञात्रित्यन्तेन । तद् आकाशाश्रयत्वेन वक्ष्यमाणम् | अक्षरं न क्षरतीत्यक्षरशब्दवाच्यं ब्रह्म एतद् एतल्लक्षणकं ब्राह्मणा ब्रह्मज्ञानिनः अभिवदन्ति वै किं तल्लक्षणमित्यत आह ।। अस्थूलम् प्राकृतस्थूलसूक्ष्मादिविलक्षणमित्यर्थः । अलोहितं लोहिताद्युपलक्षित- प्राकृतरूपरहितम् । एवमस्नेहमित्येतदपि व्याख्येयम् । अच्छायं च्छायारहितं तेजःस्वरूपत्वाद् अज्ञानरहितं वा । अतमः अनावृतेस्तमोरहितम् । अवायु श्वासोच्छ्वासादिरहितम् | अनाकाशं शरीराद्यारम्भकतयाऽकाशशब्दोपलक्षित- पञ्चमहाभूतरहितं तद्विलक्षणं वा । असङ्गं सर्वत्र स्थितमपि तत्कृतलेपरहितम् । अरसं प्राकृतरसशून्यम् । अगन्धं प्राकृतगन्धशून्यम् । एवमचक्षुष्कमित्यादि व्याख्येयम् । अतेजस्कं प्राकृतवर्चोरहितम् । अप्राणं चक्षुः श्रोत्रवामनो-व्यतिरिक्तप्राकृतज्ञानेन्द्रियकर्मेन्द्रियरहितम् । अमुखं प्राकृतविग्रहरहितम् । अमात्रं परिमितिशून्यम् । न विद्यते अन्तरं यस्य तदनन्तरम् । न विद्यते बाह्यं यस्य तदबाह्यम् । अयमेव सर्वस्मादन्तरः सर्वस्माद्वाह्यश्चेत्यर्थः । तद् ब्रह्मकिञ्चनानादिकं नाश्नाति उपजीवनाद्यर्थं नात्ति । कश्चन कोऽपि समर्थस्तद्ब्रह्म नाश्नाति न संहरतीत्यर्थः । ८ ॥

सर्वाधारप्रकृत्याधारत्वोक्त्या विष्णोरपि यत्सर्वाधारत्वं विवक्षितं तन्न प्रयासेन किन्त्वाज्ञामात्रेणेत्याहएतस्य वा इति । वैशब्दोऽवधारणे । प्रशासने आज्ञायां निमित्तसप्तमीयम् । सूर्याचन्द्रमसौ ब्रह्मरुद्रौ द्यावापृथिव्यौ श्रीभूमी निमेषादिशब्देन तदभिमानिनो देवा उच्यन्ते । या नद्यः अन्याः विलक्षणाः काश्चित्प्राच्यः प्राच्यां स्थिताः अन्याः काश्चित्प्रतीच्यः प्रतीच्यां स्थिताः श्वेतेभ्यः पर्वतेभ्यः यां यां दिशम् अनुस्यन्दन्ते ता एतस्यैवाक्षरस्याऽज्ञया तां तां दिशमनुस्यन्दन्त इत्यर्थः । एतस्य वाऽज्ञया ददतो गोहिरण्यादीन्प्रयच्छतः मनुष्याः प्रशंसन्ति देवा यजमानं प्रशंसन्ति पितरः दर्वीं दर्वीहोमम् उच्छिष्टपिण्डावसरे दव वा अन्वायत्ताः अनुगताः ।। ९ ।।

अक्षरज्ञानाज्ञानाभ्यामेव मोक्षसंसाराविति वक्तुं कर्मणां तावन्मोक्षसाधनत्वं निराकरोति - यो वा इति || एतद् उक्तलक्षणकम् अक्षरम् अविदित्वा जुहोति हविःप्रक्षेपं करोति यजते ददाति बहूनि वर्षसहस्राणि तपः चान्द्रायणादि तप्यते स यद्यप्यस्मिन् प्रमाणप्रमिते स्वर्गादिलोके बहूनि वर्षसहस्राणि तिष्ठति । तथापि अस्य तत् फलं अन्तवदेव विनाशवदेव भवति कृपणः शोच्यः संसारीति यावत् । ब्राह्मणः मुक्तः ।। १० ||

अदृष्टम् अन्यैः साकल्येन दृष्टं न भवति, स्वयं द्रष्टृ । अश्रुतं साकल्येन, स्वयं शृणोतीति श्रोतृ । अमतं साकल्येन, स्वयं मन्तृ । अविज्ञातं साकल्येन बुद्ध्यविषयः । ननु सर्वेषामपि द्रष्टृत्व श्रोतृत्वादेः सत्वात्को विशेषोऽक्षरस्येत्यतो नात्र द्रष्टृत्वादिमात्रं लक्षणं विवक्षितम् । किन्तु स्वातन्त्र्येण द्रष्टृत्वादि तच्च नान्यस्येत्याह- नान्यदिति । अत अक्षरात् अन्यत् स्वातन्त्र्येण द्रष्टृ नास्ति । एवं यदर्थमक्षरमाहात्म्यमभिहितं तदाह - एतस्मिन्विति ॥ ११ ॥

सा लब्धप्रश्नद्वयोत्तरा गार्गी उवाच । किं । हे ब्राह्मणाः भगवन्तो यूयम् अस्माद्याज्ञवल्क्यात् । नमस्कारेण मुच्यध्वमिति यदुच्यते मया तदेव बहु मन्यध्वम् । कुत इत्यत आह- नेति ॥ युष्माकं मध्ये कश्चिद् इमं ब्रह्मोद्यं याज्ञवल्क्यं जातु कदापि जेता नैव यस्मात् तस्मादित्यर्थः । ततः ब्राह्मणान्प्रतिवचनानन्तरम् ॥ १२ ॥

इत्यक्षब्राह्मणम् ॥ ८ ॥