स त्रेधाऽत्मानं व्यकुरुताऽदित्यं तृतीयं वायुं ..
[मुख्यवायोः प्रेोत्पत्तिः ]
उपनिषत्
स त्रेधाऽत्मानं व्यकुरुताऽदित्यं तृतीयं वायुं तृतीयं स एष प्राणस्त्रेधा विहितस्तस्य प्राची दिक् शिरोऽसौ चासौ चेर्मावथास्य प्रतीची दिक् पुच्छमसौ चासौ च सक्थ्यौ दक्षिणा चोदीची च पार्श्वे द्यौः पृष्ठमन्तरिक्षमुदरमियमुरस्स एषोऽप्सु प्रतिष्ठितो यत्र क्व चैति तदेव प्रतितिष्ठत्येवं विद्वान् ॥ ३ ॥
भाष्यम्
वायुरग्निरिति प्रोक्तो ह्यग्रणीत्वादधाङ्गिनाम् ।
नेतृत्त्वाददनाच्चापि तस्य स्रष्टा जनार्दनः ॥
स वायुर्वायुरूपेण जगत्पाति शरीरगः ।
आदित्यस्थेन रूपेण जगद् याति प्रकाशयन् ॥
अग्निस्थेन तु रूपेण हूयते सर्वयष्टृभिः ।
आदाय यात्यायुरिति स एवादित्य उच्यते ॥
तत्सम्बन्धात्तु तन्नाम सूर्यस्याग्नेस्तथैव च ॥
भावबोधटिप्पणी
अथ भाष्यार्थः
‘स त्रेधाऽत्मानं व्यकुरुत' इत्यस्य स जातः प्रजापतिः त्रेधा त्रिप्रकारमात्मानं स्वयमेव कार्यकारणसङ्घातं व्यकुरुतं व्यभजत् इत्यादि परव्याख्यानमप्रामाणिकं प्रमाणविरुद्धं चेति भावेन खण्डं प्रमाणेन व्याचष्टे - वायुरित्यादिना || स त्रेधेत्युक्तत्वादनिं तृतीयमित्यपि ग्राह्यमिति सूचयन् अग्निशब्दं तावत्प्रकारान्तरेण वायौ निर्वक्ति- वायुरिति ॥ ' स त्रेधाऽत्मानम्' इत्युक्तरूपाणां मूलानुक्त- व्यापारानाह– स वायुरिति ।। हूयते हविरादाय हूयते हविः प्रक्षेपाधिकरणत्वेन हूयते वा । आदित्यशब्दस्य सूर्यपरत्वप्रतीतिं निवारयितुं वायौ निर्वक्ति— आदायेति ॥ आयुरादायेत्यन्वयः । आदित् इत्यस्यार्थः - आदायेति ॥ यकारस्यार्थः– यातीति ।। आयुरिति योग्यतया सम्बद्ध्यते । तर्ह्यादित्याग्निशब्दयोः सूर्यादौ प्रसिद्धिः कथमित्यत आह- तत्सम्बन्धादिति । अत्रोपनिषदि अन्ते ग्राह्यवाक्यगताग्निशब्दस्यादौ निर्वचनेन आदौ प्रयुक्तवाक्यगतादित्य- शब्दस्यान्ते निर्वचनेन मध्यवाक्यप्रतिपाद्यवायोर्व्यापारस्याऽदावुक्त्या त्रयाणां रूपाणां साम्यमेव न क्रमेण निर्देशे प्राधान्यादिकं निमित्तमित्यभिप्रेत्योपनिषदि आदित्यं तृतीयं वायुं तृतीयं अग्निं तृतीयमित्युक्तमिति सूचितम् ॥