प्रश्नो वादे च जल्पादौ कर्तव्यः प्रतिवादिना
[विश्वासयोग्योपदेशकस्य लक्षणम् ]
भाष्यम्
प्रश्नो वादे च जल्पादौ कर्तव्यः प्रतिवादिना ।
तदुक्तिमात्रे प्रामाण्यं यदि नास्याऽगमान्तरम्॥
अपेक्षितं यदा शङ्का दर्शनीयस्तदाऽऽगमः
निःशङ्कत्वेन यो वक्ता प्रश्नानामुत्तरं सदा ॥
आनुकूल्येनाऽगमानां नाशङ्कयं तद्वचः क्वचित् ।
भावबोधटिप्पणी
नन्वाश्वलादिभिर्यदिदं सर्वं मृत्युनाऽप्तं सर्वं मृत्युनाऽभिपन्नं केन यजमानो मृत्योराप्तिमति मुच्यत इत्यादिप्रश्ने कृते याज्ञवल्क्येन होत्रर्त्विजाग्निना वाचा इत्यादिनोत्तरे च दत्ते तत्र प्रमाणमपृष्ट्वा कथं तदङ्गीकारः क्रियते । आश्वलादिभिर्याज्ञवल्क्येन क्रियमाणायाः कथाया जल्परूपत्वात् । जल्पे च प्रमाणप्रश्नस्य कर्तव्यत्वात् इत्यतः आश्वलादिभिः प्रमाणप्रश्नाकरणे निमित्तं वक्तुमाह- प्रश्न इति ॥ विप्रतिपन्नप्रमेये इति शेषः । वादिना च तत्पृष्टप्रमेयं वक्तव्यमित्यपि ग्राह्यम् । तत्र यदि प्रतिवादिनस्तदुक्तौ वादिवचने प्रामाण्यं निश्चितं तदाऽऽगमान्तरं नापेक्षितं तदुक्तेरेवागमरूपत्वात् । ततश्च न तदुक्ते प्रमेये प्रमाणप्रश्नः कर्तव्य इति भावः । यदा शङ्का तदुक्तौ प्रामाण्यविषयिणी तदा तेन प्रमाणप्रश्नः कर्तव्यः । वादिना वाऽगभो दर्शनीय इत्यर्थः । नन्वस्त्वेवं तथापि याज्ञवल्क्यवचनेऽप्रामाण्यशङ्कैव कुतो नेत्यत आह- निःशङ्कत्वेनेति ॥ भ्रान्तोऽपि वैयात्यात् प्रश्नोत्तरं निश्शङ्कत्वेन न वक्तीति तद्व्यावृत्त्यर्थं सदागमानामानुकूल्येनेत्युक्तम् ।