स नैव व्यभवत् स विशमसृजत ..

[ चतुर्मुखकृता वैश्यशूद्रजातिसृष्टिः ]

उपनिषत्

स नैव व्यभवत् स विशमसृजत यान्येतानि देवजातानि गणश आख्यायन्ते वसवो रुद्रा आदित्या विश्वेदेवा मरुत इति ॥ ६ ॥

स नैव व्यभवत् स शौद्रं वर्णमसृजत पूषणमिषं वै पूषेयं हीदं सर्वं पुष्यति यदिदं किञ्च ॥ ७ ॥

भाष्यम्

विवस्वदिन्द्रवरुणविष्णुभ्योऽन्येऽदितेः सुताः ।

रुद्रादन्ये तथा रुद्रा वायोरन्ये च वायवः ॥

अग्नेरन्ये च वसवो वैश्या इत्येव कीर्तिताः ।

एक एव हरेर्जातः परिवारविवर्जितः ॥

वाय्वादीन् क्षत्रियान् सृष्ट्वा पुनरल्पपरिग्रहः ।

इच्छन् बहुपरीवारं वैश्यान् देवान् ससर्ज ह ||

ततो बहुतरानिच्छन् शूद्रान् देवान् ससर्ज ह।

अश्विनौ पृथिवी चैव काला मृत्यव एव च ॥

शूद्रदेवाः समुद्दिष्टा देववर्णा इति स्मृताः ।

भावबोधटिप्पणी

वसवो रुद्रा आदित्या विश्वेदेवा मरुतः' इति वाक्यं यथाश्रुतार्थप्रतीतिनिरासाय व्याचष्टे - विवस्वदिति ।। द्वादशादित्यानां मध्ये विवस्वदिन्द्रवरुणानां क्षत्रियत्वस्योक्तत्वाद् विष्णोश्च वर्णशून्यत्वादिदमुक्तम् । अदितेस्सुता आदित्याः । एकादशरुद्रेषु रुद्रस्य क्षत्रियत्वस्योक्तत्वादन्य इत्युक्तम् । मुख्यवायुसहितेषु पञ्चाशन्मरुत्सु मुख्यवायोः क्षत्रियत्वस्योक्तत्वाद् वायोरन्य इत्याह । अष्टवसुषु अग्नेर्ब्राह्मणत्वस्य वक्ष्यमाणत्वादग्नेरन्य इत्यभिहितम् । ब्रह्म वा इदमग्र आसीदेकमेव' इति वाक्यस्यार्थमाह - एक एवेति ॥ ब्रह्मेति वक्ष्यमाणमत्रापि सम्बद्ध्यते । एवकारव्यावर्त्यं दर्शयति- परिवारविवर्जित इति । अनेनतदेकं सन्नव्यभवत्इति वाक्यं व्याख्यातम् । ननु 'तच्छ्रेयोरूपमत्यसृजत क्षत्रम्' इत्यादिना परिवारभूतक्षत्रियदेवानामुत्पत्तेरुक्तत्वात्पुनः स नैव व्यभवदित्युक्तिः कथमित्यतस्तदभिप्रायमाह - वाय्वादीनामिति || नैव व्यभवदित्यस्यार्थःअल्पपरिग्रह इति ।। स इत्यस्येच्छन् बहुपरिवारमिति । विशमसृजतेत्यस्यार्थः- वैश्यानिति॥ तर्हि बहुपरिवारस्यापि जातत्वात्स नैव व्यभवत् स शौद्रं वर्णमसृजतेत्युक्तिः कथमित्यत आह- तत इति ॥ शूद्रांश्चेति सम्बन्धः। पूषणमयं वै पूषेयं हीदं सर्वं पुष्यतीति पृथिव्याः शूद्रदेवत्वमुक्तं तदुपलक्षणपरमिति भावेनाऽह्अश्विनाविति || निर्ऋतिरपि ग्राह्यः । इत्युक्तप्रकारेण देववर्णाः देवेषु ब्राह्मणादिवर्णाः स्मृता उक्ता इत्यर्थः ।।