अथाधिदैवतं ज्वलिष्याम्येवाहमित्यग्निर्दध्रे ..

[ अधिदैवे (बाह्ये) देवानां स्पर्धा, प्राणस्य विजय: ]

उपनिषत्

अथाधिदैवतं ज्वलिष्याम्येवाहमित्यग्निर्दध्रे तप्स्याम्यहमित्यादित्यो भास्याम्यहमिति ।

चन्द्रमा एवमन्या देवता यथादैवतं स यथैषां प्राणानां मध्यमः प्राण एवमेतासां देवतानां वायुर्म्लोचन्ति ह्यन्या देवता न वायुस्सैषा नास्तमिता देवता यद्वायुः ॥ २९ ॥

अथैष श्लोको भवति ॥

यतश्चोदेति सूर्योऽस्तं यत्र च गच्छतीति । प्राणाद्वा एष उदेति प्राणेऽस्तमेति ।

तं देवाश्चक्रिरे धर्मं स एवाद्य स उ श्व इति । यद्वा एतेऽमुं ह्यध्रियन्त तदेवाप्यद्य कुर्वन्ति ।

तस्मादेकमेव व्रतं चरेत् प्राण्याच्चैवापान्याच्च नेन्मा पाप्मा मृत्युराप्नुवदिति ।

यद्युच्चरेत् समापिपयिषेत् तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयति ॥ ३० ॥

इति सप्तान्नब्राह्मणम् ॥ ६ ॥

भाष्यम्

उत्तमः सर्वदेवेषु प्राण एव हरेरनु ।

चतुर्मुखस्य प्राणस्य न विशेषोऽस्ति कश्चन ॥

तस्माद् विष्णोर्व्रतस्यानु नित्यं प्राणव्रतं चरेत् ।

हंसोपास्ति: श्वासरूपे तयोर्व्रतमुदीरितम् ॥

हंसरूपी हि तौ देवौ श्वासोच्छ्वासप्रवर्तकौ ।

तस्मात् प्राण्यादपान्याच्च सद्रूपं संस्मरन् सदा ।।

नान्यस्योपासनं कुर्यात् तद्भृत्यत्वं विना क्वचित् ।

भावबोधटिप्पणी

ननु तस्मादेकमेव व्रतं चरेदित्यत्र प्राणस्य सर्वोत्तमत्वादित्युक्तं तदनुपपन्नम् । विष्णोस्ततोऽप्युत्तमत्वादित्यत आह- उत्तम इति ॥ ननु चतुर्मुखस्यापि सत्वात्कथं प्राण एवेत्युक्तमित्यत आह- चतुर्मुखस्येति ॥ इदानीं तस्मादेकमेव व्रतं चरेदिति वाक्यं व्याचष्टे - तस्मादिति ॥ हरेरनुप्राणस्य सर्वदेवोत्तमत्वात् ।

ननु किं तद्विष्णुप्राणयोर्व्रतं यदाचरणीयमित्यतः प्राण्याच्चैवापान्याच्चेति वाक्यं व्याख्यातुं तावत्तयोर्व्रतमाह- हंसोपास्तिरिति || श्वासरूपे जपे अधिष्ठाने बा या हंसोपास्तिः सा तयोर्विष्णुप्राणयोर्व्रतमुदीरितमिति सम्बन्धः । हंसोपास्तिः कथं तयोर्व्रतमित्यत आह- हंसरूपाविति || ननु श्वासरूपाधिष्ठाने हंसरूपयोर्विष्णुप्राणयोरुपास्तिः कुत इत्यत आह- श्वासेति ॥ इदानीं प्राण्याच्चैवापान्याच्चेति वाक्यं व्याख्याति तस्मादिति । तयोः श्वासोच्छ्वास- प्रवर्तकत्वात् प्राण्यात् श्वासं कुर्यात् अपान्यादुच्छ्वासं कुर्यादित्यर्थः । ननु श्वासोच्छ्वासकर्तृत्वस्य प्राणभृन्मात्रेऽपि सत्वात्सर्वस्यापि हंसोपास्तिकर्तृत्वं किन्नेत्याह- तद्रूपमिति ।। तस्मादेकमेवेत्येवकारव्यावर्त्यमाह - नान्यस्येति || ननु यद्युच्चरेत्समापिपयिषेदित्यन्यदेवव्रतारम्भकस्यापि कर्तव्यत्वोक्तेः कथमेत- दित्यत आहतद्भृत्यत्वं विनेति ।

Load More