तिर्यङ्मानुषदेवादिविष्णुरूपेष्वशक्तता
[ मोहार्थानि एैक्यवाक्यानि ]
भाष्यम्
तिर्यङ्मानुषदेवादिविष्णुरूपेष्वशक्तता ।
यस्मिन् कस्मिंश्च विषये दुःखित्वं भिन्नताऽपि वा ।
प्रकृतेर्विकारिता वाऽपि च्छेदभेदव्रणादि वा ॥
अज्ञानं नाशिता वाऽपि जन्म जीवैरभिन्नता ।
प्रकृत्यभिन्नता वाऽपि जीवाभेदः परस्परम् ॥
जडाभेदोSथ वा विष्णोर्मिथ्यात्वं जगतोऽपि वा ।
अगुणत्वमदेहत्वमकर्तृत्वं तथा हरेः ॥
सम्यग्भक्तिमृते मुक्तिर्विष्णौ तद् द्वेषतस्तथा ।
मुक्तावभोगो जीवानां मुक्तौ साम्यं तथैव च ॥
अरूपत्वं च जीवानां मुक्तानां बन्धिनामपि ।
नामतीर्थादिभिर्मुक्तिस्तत्त्वज्ञानं विनाऽपि तु ॥
विष्णोः सकाशात्प्रकृतेर्ब्रह्मणोऽनन्तरुद्रयोः ।
गरुडेन्द्रसूर्यविघ्नादेरग्निसोमगुहादिनाम् ॥
प्रद्युम्नस्यानिरुद्धस्य देवविप्रादिनामपि ।
यैः कैश्चापि गुणैर्विष्णोः सकाशाद् वरता तथा ।।
यदा कदापि यत्नैर्वा वरशापादिनाऽपि वा ।
तपसा वाऽप्युपायैर्वा योगज्ञानादिनाऽपि वा ॥
साम्यं वा विष्ण्वधीनत्वादन्यथैषां स्थिति: कृतिः ।
असंसारित्वमेषां वाऽप्येषामीश्वरताऽपि वा ॥
विना विष्णुप्रसादेन मुक्तिरेषां सकाशतः ।
विष्णोः प्रयोजनावाप्तिर्विष्णोर्दोषश्च कश्चन ॥
विष्णोः सर्वेषु रूपेषु सम्पूर्णगुणहीनता ।
भेदो वा विष्णुरूपेषु विशेषो वा गुणेषु च ॥
श्रियः सकाशादाधिक्यं ब्रह्मादेः साम्यमेव वा ।
ब्रह्मवाय्वोरनन्तस्य रुद्रस्य गरुडस्य च ॥
तेभ्यश्चैवेन्द्रसूर्यादर्विप्रभूपादिनां ततः ।
बद्धानां मुक्तिगानां वा दैत्यानां मोक्ष एव च ॥
स मोहार्थमुद्दिष्टं वेदेषु हरिणाऽपि वा ।
ब्रह्मणा वाऽथ रुद्रेण देवैश्च मुनिभिस्तथा ॥
यथा सुराणां सज्ज्ञाने तात्पर्यं सर्वदा श्रुतेः ।
तथा दुर्ज्ञानजनने तात्पर्यमसुरेषु च ॥
एवमेव च देवानां विष्णुब्रह्मादिनामपि ।
विष्णोः सर्वगुणै: पूर्तिरपि मत्स्यादिरूपिणः ॥
अजेयत्वमभेद्यत्वमच्छेद्यत्वं च सर्वशः ।
सर्वावताररूपाणामपि चित्सुखरूपता ॥
श्रीब्रह्मरुद्रशक्रादेः क्रमेणैव निजा गुणाः ।
सर्वदोषव्यपेतत्वं विष्णोः सर्वत्र सर्वदा ||
एतत्सर्वं सर्ववैदैर्विष्ण्वाद्यैर्देवतागणैः ।
ऋषिभिः क्षत्रियाद्यैश्च सम्यक्तात्पर्यतः सदा ॥
उक्तं सर्वेषु शास्त्रेषु तस्माद्वाह्यं बुभूषुभिः ।
इदं सत्यमिदं सत्यमिदं सत्यं न संशयः ॥
कोटिभिः शपथैश्वापि निर्णीतं देवतागणैः ।
अनादिकालतश्चायं शास्त्रार्थो नान्यथा कचित् ॥
पुनश्चानन्तकालीन एष एव न संशयः ।
ज्ञातव्यश्चैष एवार्थः सर्वदैव बुभूषुभिः ॥
एवं तु स्थिरया बुद्ध्या ज्ञात्वा यास्यथ तत्परम् ।
एवं ते हंसरूपेण विष्णुना देवतागणाः ।
ब्रह्माद्या बोधितास्सर्वे तथा ज्ञात्वा परं गताः ।
साक्षाद् विष्णुर्हंसरूप उक्त्वैवं तु दिवौकसाम् ॥
वासुदेवाख्यरूपेण तेन सर्वहृदि स्थितः ।
सङ्कर्षणाख्यरूपेण विवेशानन्तमेव च ॥
तं ध्यायति सदाऽनन्तस्तस्मान्मुक्तिपदेच्छया ।
प्रद्युम्राख्येन रूपेण काममेव विवेश सः ॥
हंसस्तद्ध्यानतो मुक्तिं काम इच्छति सर्वदा ।
अनिरुद्धाख्यरूपेण सोऽनिरुद्धं विवेश ह ।
हंसस्तद्ध्यानतो मुक्तिमनिरुद्धस्तथेच्छति ॥
-इत्यादि ब्रह्माण्डपुराणे तत्त्वनिर्णयगीतायाम् ॥ ४ ॥
भावबोधटिप्पणी
ननु 'अथ योsन्यां देवतामुपास्ते' इति वाक्यस्य जीवब्रह्मैक्यादिवादि- निन्दापरत्वेन व्याख्यानमनुपपन्नम् । जीवेशाभेदो विष्णोरहेयत्वादिगुणकोऽभिन्नः विष्णोः स्वगुणादिभिर्भेदो जगन्मिथ्यात्वमित्यादिप्रमेयस्य वेदपुराणादिष्वेव तत्र तत्र दर्शनादित्यत आह- तिर्यगिति ।। प्रकृतेर्विकारता तद्देहादेः । विष्णौ सम्यग्भक्तिमृते नामस्मरणतीर्थस्नानादिभिः । विप्राः ऋषयः । असंसारित्वं नित्यमुक्तत्वम् । विशेषः हीनोच्च भावः । गुणेषु तद्गुणेषु च । भेदो वा विशेषो वेति वर्तते । साम्यमेव वा । श्रिय इत्यत्रापि सम्बद्ध्यते । ब्रह्मवाय्वोः सकाशादनन्तादेराधिक्यं साम्यं वा, तेभ्य अनन्तादिभ्य इन्द्रसूयदिराधिक्यं साम्यं वा तत इन्द्रसूर्यादेर्बद्धानां मुक्तिगानां विप्रभूपादीनामाधिक्यं साम्यं वा बद्धानां मुक्तिगानां वेत्येतद्वचनविपरिणामेन ब्रह्मादेरित्यादौ सर्वत्र सम्बद्ध्यते । मोक्ष एव न तमः मोहार्थं दैत्यानाम् आपातप्रतीतार्थमपेक्ष्येदमिति बोध्यम् । हरिणा पुराणादौ ब्रह्मणेत्यादावपि तत्प्रणीतशास्त्र इति द्रष्टव्यम् । मोक्षप्रयोजनकवेदादौ किमर्थमेतदुच्यत इत्यत आह- यथेति ।। न केवलं श्रुतेः किन्तु पुराणादिकर्तॄणामपीत्याह - एव- मेवेति ॥ तर्हि वेदादावुक्तं तत्वं किमित्यत आह- विष्णोरिति ॥ ऋषिभि र्याज्ञवल्क्यादिभिः क्षत्रियाद्यैर्जनकादिभिः । तात्पर्यद्योतनायाऽह - इदमिति ॥ तथाऽपि नोत्तरत्रेति न मन्तव्यमित्याह - पुनति ॥ नैतत्प्रमाणोक्तमप्य- श्रद्धेयमिति भावेनाऽह— एवमिति ॥ हंसोक्तमवश्यं ज्ञेयमित्याशयेन तन्माहात्म्यमाह– साक्षाद् विष्णुरिति ॥ न पृथ्वादिवदित्यर्थः ।।
खण्डार्थः
ब्रह्मविद्यया सर्वं भविष्यन्त आत्मयोग्यतया पूर्ति प्राप्नुवन्तो महान्तो ब्रह्मविद्ययैव स्वयोग्यं सर्वं प्राप्यत इति यदाहुः । तत्र केचिन्मनुष्या मन्यन्ते । किमिति ? यस्मात्तद् ब्रह्म सर्वं पूर्णमभवत् । तत्तस्माद् ब्रह्मापि अवेत् किमिति ॥ १ ॥
तत्रोत्तरं वक्तुमाह- ब्रह्मेति । इदमग्रे अस्य जगतोऽग्रे ब्रह्मैवाऽसीत् । 'तद् ब्रह्म अहमहेयं ब्रह्म परिपूर्णम् अस्मि सर्वदाऽस्तीति मेयमित्येतैर्विशेषणैरात्मानं स्वरूपमेवावेत् । तस्मादेव तद् ब्रह्म सर्वदा सर्वं परिपूर्णमभवदिति परिहारः । देवानां मध्ये यो यो देवः तदहेयत्वादिगुणं ब्रह्म यथा प्रत्यबुद्धयत स स एव तथा तज्ज्ञानानुसारेण तदभवत् । तत्सर्वं समग्रं स्वयोग्यानन्दादिपूर्णमभवत् । तथा ऋषीणां मध्ये यो य ऋषिः यथा तत्प्रबुद्ध्यत तथा स एव तदभवत् ।तथा मनुष्याणां मध्ये यो यो मनुष्यो यथा तत्प्रतिबुद्ध्यते । तथा तज्ज्ञानानुसारेण तदभवदिति सम्बन्धः । श्रुतिरुक्तार्थे प्रमाणमाह- तदिति । तद् ब्रह्म पश्यन् वामदेवोऽहं मनुरभवं सूर्यचेति सूक्तप्रतिपाद्यमेतद् ब्रह्मणः प्रागुक्त- सर्वजीवाहेयत्वादिगुणजातं प्रतिपेदे व्यजानात् । न केवलं पूर्वमेव देवादीनां एतज्ज्ञानेनैव फलप्राप्तिः किन्तर्हीत्यत आह- तदिदमपीति ॥ य एतर्ह्यपि इदानीमपि । तदिदं परं ब्रह्म अहमहेयं ब्रह्म परिपूर्णम् अस्मि सर्वदाऽस्तीति मेयमित्युक्तविशेषणैरेवं तदात्मानमेवावेदित्युक्तस्वस्वरूपज्ञत्वरूपविशेषणेन च वेद । स इदं स्वयोग्यं सर्वं समग्रमानन्दादिपूर्णमभवत् । इदानींतनस्य देवकृतविघ्नसम्भवात्कथं विद्याफलप्राप्तिरित्यत आह- तस्येति । तस्य ज्ञानिनो देवाश्च देवा अपि अभूत्यै विद्याफलविघाताय नेशते ह तद्विघातं न कुर्वन्तीति यावत् । किमसामर्थ्यादेव न कुर्वन्ति ? नेत्याह- आत्मेति ।। स ईश्वरः एषां देवानाम् आत्मा कार्येषु नियोक्तृत्वेन तेषु व्याप्तत्वात् । आत्मा हि यस्मात्तस्मादिति पूर्वेण सम्बन्धः । विष्णुज्ञानी हि विष्णुप्रियः । अतो देवानामपि स प्रियः । विष्णुर्हि देवानामात्मा ततः प्रीतियोगादेव न विघातं कुर्वन्तीति भावः । एवं सम्यग्ज्ञानिप्रशंसां कृत्वा मिथ्याज्ञानिनो निन्दयति- अथेति ॥ योऽन्यां जीवेभ्यो विलक्षणां विष्णुरूपां देवतामन्यां जीवरूपामुपास्ते स न वेद । अहमस्मीति अहेयत्वादिगुणविशिष्टोऽन्योऽसौ हरिर्निर्गुणरूपोऽन्य इत्यपि उपास्ते स न वेद । यद्वा, सर्वेभ्यो जीवादिभ्योऽन्यां विलक्षणां देवतामहेयत्वादिस्वगुणेभ्योऽप्यन्यां य उ उपास्ते स न वेद | अहमहेयोऽस्मि अस्तीति मेयोऽन्यो हरहिरण्यगर्भादिरसौ विष्णुरन्यस्तद्गुणरहित इति यावत् । इति मत्वा यो विष्णोरन्यां हरहिरण्यगर्भादिरूपाम् अन्योऽसावन्योऽहमस्मीत्युपास्ते स न वेद सोऽज्ञानी यथा पशुः मनुष्यभोजकज्ञानरहितपशुसदृशः । इदानीमात्मा ह्येषां सम्भवतीत्युक्तमेव ज्ञानिनो देवप्रियत्वमुपपादयितुमाह - एवमिति । सः य एवं वेदेति पूर्वोक्तः सम्यग्ज्ञानी । देवानामेव पशुवदित्यर्थः । पशुबदित्युक्तेः तस्यापि निन्दाप्रतीतिनिवारणार्थं तदेव विशदयति - यथेति । यथा बहवः पशवो गोरूपाः दोहनादिना मनुष्यं भुञ्ज्युः भोजयेयुरेवमेकैको ज्ञानी पुरुषो देवान् भुनक्ति भोजयति । ज्ञानिनो देवभोजकत्वेऽपि स तत्प्रिय इति कुत इत्यत आह— एकस्मिन्निति ।। यस्माल्लोके एकस्मिन् भोजके पशावादीयमाने सति प्रियं भवति किमु बहुषु । तस्मात् सुबहुगोरूपे ज्ञानिनि देवानां परा प्रीतिर्भवतीति किमु वक्तव्यमिति भावः । न केवलमथ योऽन्या - मित्याद्युक्तार्थवेत्तुर्निन्द्यत्वान्न तथा विद्यात् किन्तु तज्ज्ञानस्य देवाप्रियत्वाचेत्याह- तस्मादिति । यस्मात्तत्त्वज्ञानमेव देवानां प्रियं तस्मात् तद् एषां देवानां न प्रियम् । किन्तत् ? मनुष्या विष्णोरन्यां देवतां विद्युः उपासीरन्निति यत् एतद् विष्णोरन्यदेवतोपासनम् ।। ४ ।।