अथ हैनमुषस्तश्चाक्रायणः पप्रच्छ याज्ञवल्क्येति होवाच
अथ उषस्तब्राह्मणम्
[ भगवतः लक्षणानि ]
उपनिषत्
अथ हैनमुषस्तश्चाक्रायणः पप्रच्छ याज्ञवल्क्येति होवाच । यत्साक्षादपरोक्षात् ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेति । एष त आत्मा सर्वान्तरः कतमो याज्ञवल्क्य सर्वान्तरो यः प्राणेन प्राणिति स त आत्मा सर्वान्तरो योऽपानेनापानिति स त आत्मा सर्वान्तरो यो व्यानेन व्यानिति स त आत्मा सर्वान्तर य उदानेनोदानिति स त आत्मा सर्वान्तरो यः समानेन समानिति स त आत्मा सर्वान्तर एष त आत्मा सर्वान्तरः ॥ १ ॥
भाष्यम्
यत्साक्षादपरोक्षात्। साक्षादेवापरोक्षमत्ति । अनुभवति स्वरूपमन्यच्च सर्वं पश्यतीति साक्षादपरोक्षात् । आपरोक्ष्येण पश्यतामप्यन्येषां भगवत्प्रसादादेव दर्शनं भवति । न भगवतोऽन्यापेक्षयेति साक्षादिति विशेषणम् । अनन्यापेक्षस्याप्यपूर्णत्वं भवतीत्यतो ब्रह्मेति । अन्येषां नियन्तृत्वं चास्तीत्यत आत्मा ।
भावबोधटिप्पणी
यत्साक्षादपरोक्षादित्यस्य यद्ब्रह्म बृहत्तमं साक्षाद् अव्यवहितमपरोक्षाद् विभक्तिव्यत्ययेनापरोक्षमगौणं न तु नामब्रह्मेत्यादिवत् गौणमिति व्याख्यानमसत् । अपरोक्षादित्यस्यैवार्थान्तरपरत्वेन प्रथमान्तत्वसम्भवे पञ्चम्यन्तत्वमङ्गीकृत्य विभक्तिव्यत्यासस्यानाश्रयणीयत्वात् । अगौणमित्यस्याशाब्दत्वाचेति भावेन तदनूद्य व्याचष्टे - यत्साक्षादिति ।। अपरोक्षमिति क्रियाविशेषणम् । अदित्यस्यार्थोऽत्तीति भक्षणार्थत्वस्य प्रकृतानुपयोगात् तत्तात्पर्यमाह - अनुभव - तीति । विषयानुक्तेस्तदुक्तिपूर्वकमपरोक्षादित्यस्य फलितमर्थमाह- स्वरूप- मिति । नन्वनेनापरोक्षतया जानातीत्यपरोक्षादित्यर्थ उक्तो भवति । तथाच साक्षादिति विशेषणं व्यर्थं स्यादित्यत आह- आपरोक्ष्येणेति । पश्यतां जानताम् । ‘पश्यार्थैश्चानालोचने' इति ज्ञानमात्रेऽपि तत्प्रयोगात् । नच स्वरूपमन्यच्च पश्यतीत्युक्त्यैवान्यत्राप्रसङ्गात् साक्षादिति विशेषणवैय्यर्थ्यं तदवस्थमेवेति वाच्यम् । स्वरूपमन्यञ्चेत्यस्य स्वरूपमात्रकथनपरत्वेन शब्दार्थान्तर्गतत्वाभावात् । अत एवापरोक्ष्येण पश्यतामित्येवानुवादः कृत इति भावः । ननु साक्षादित्यनेन यद्यनन्यापेक्षत्वमुक्तं तर्हि ब्रह्मेति विशेषणं व्यर्थं स्यात् । अनन्यापेक्षस्य पूर्णत्वनियमेन तदुत्स्यैव तल्लाभादित्यत आह- अनन्यापेक्षस्यापीति || कस्मिंश्चिद्विषयेऽनन्यापेक्षस्यापि अपूर्णत्वं भवतीत्यतः पूर्णत्वप्रतिपादनाय ब्रह्मेति विशेषणं न व्यर्थमित्यर्थः । यद्वा अनन्यापेक्षस्य न पूर्णत्वनियमः । अनन्यापेक्षस्यापरिपूर्णत्वं भवति सम्भवतीत्यप्रयोजकत्वात् । तथाच न तदुक्त्या पूर्णत्वं लभ्यत इत्याशङ्कमानं प्रति पूर्णत्वप्रदिपादनार्थं तद्विशेषणमिति भावः । आत्मा जीव इति व्याख्यानमसत् । तस्य सर्वान्तरत्वायोगात्। नतु जीवस्यापरिच्छिन्नत्वमस्ति, येन परिच्छिन्नत्वभ्रमव्युदासाय तत्सार्थकं स्यादिति भावेन ब्रह्मशब्दागतार्थतयाऽत्मशब्दं व्याचष्टे - अन्येषामिति ।। इत्यत इति निमित्तात् । परमात्मनोऽन्यनियामकत्वं निमित्तीकृत्यात्मेत्युक्तमित्यर्थः ।