यथैव सर्वोहानां प्रधानं काञ्चनं स्मृतम्
[ मृत्पिण्डादिदृष्टान्तानां अभिप्रायः ]
भाष्यम्
यथैव सर्वोहानां प्रधानं काञ्चनं स्मृतम् ।
यथा मृत्पिण्डसदृशा मृण्मयाः सर्व एव च ॥
यथा काष्र्णायसं सर्वं समं कार्ष्णायसान्तरे ।
एवं सर्वस्य जगतः सदृशः श्रेष्ठ एव च ।।
हरिस्तेन तु तज्ज्ञानाज्जगज्ज्ञातमिवाखिलम् ।
स स्रष्टा चैव संहर्ता नियन्ता रक्षिता हरिः ||
तेन व्याप्तमिदं सर्वमैतदात्म्यमतो विदुः ।
स आत्मा पूर्णगुणत: स सूक्ष्मः सर्वगः सदा ॥
सर्वोत्तमत्वात्सत्यं तज्जीवाभिन्नं तदासुराः ।
विदुर्न त्वं तथा विद्धि श्वेतकेतो कदाचन ॥
भावबोधटिप्पणी
यथा सोम्यैकेन 'लोहमणिना' इति वाक्यं व्याचष्टे - यथैवेति || एवकारः प्रसिद्ध्यर्थकः । ‘यथा सोम्यैकेन मृत्पिण्डेन' 'यथा सोम्यैकेन नखनिकृन्तनेन' इति वाक्यद्वयं व्याचष्टे- यथेति ॥ यथैवेति सम्बन्धः । कार्ष्णायसान्तरे कार्णा - यसान्तरेण । दार्ष्टान्तिकमाह - एवमिति । एवमेवेति सम्बन्धः । श्रेष्ठ एव नत्वभिन्न इति वा । किं तत इत्यतो ' येनाश्रुतं श्रुतं भवति' इत्यादि व्याचष्टे– तेन त्विति ।। तुशब्दोऽवधारणे । नतु जगतो ब्रह्मण्यारोपितत्वेन । सन्मूला इत्यादि व्याचष्टे - स इति ॥ संहर्तेत्यनेन सत् आयतनं प्रलये यासां ताः सदायतना इत्यर्थ उक्तो भवति । नियन्तेत्यनेन सत आयतना नियम्यतयाऽधिष्ठानभूता इत्यर्थ उक्तो भवति । रक्षितेत्यनेन सत् प्रतिष्ठा रक्षकं यासां ताः सत्प्रतिष्ठा इत्यर्थ उक्तो भवति । 'ऐतदात्म्यमिदं सर्वम्' इत्येतद् व्याचष्टे - तेनेति ॥ स आत्मेत्येदनूद्य व्याचष्टे - स इति ॥ 'स एषोऽणिमा' इत्यणिमशब्दार्थमाह - स सूक्ष्म इति ।। सूक्ष्मत्वे तेन व्याप्तमिति विरुद्धमित्यत आह- सर्वग इति ॥ परिमाणद्वयस्यापि सद्भावेन न विरोध इति भावः । यद्वाऽऽत्मशब्दस्यार्थान्तरमाह - सर्वग इति || ' तत्सत्यम्' इत्येतद् व्याचष्टे – सर्वोत्तमत्वादिति । अप्राप्तप्रतिषेधस्यायोगादादौ जीवाभेदस्य वादिप्राप्तिं दर्शयति– जीवाभिन्नमिति । तद् ब्रह्म । अतत्वमसीत्यस्य तत् त्वं नासीत्यर्थमभिप्रेत्य तदभिप्रायमाऽह - न त्वमिति ॥