यो ह वै शिशुं साधानं सप्रत्याधानं सस्थूणं सदामं वेद ..
अथ शिशुब्राह्मणम्
[श्री - श्रीप्राणनाथोपासनया इन्द्रियजयः ]
उपनिषत्
यो ह वै शिशुं साधानं सप्रत्याधानं सस्थूणं सदामं वेद सप्त ह द्विषतो भ्रातृव्यानवरुणद्ध्ययं वाव शिशुर्योऽयं मध्यमः प्राणस्तस्येदमे वाधानमिदं प्रत्याधानं प्राणः स्थूणा अन्नं दाम ॥१॥
भाष्यम्
आधानमवस्थानं सूक्ष्मशरीरम् । प्रत्याधानं वितानं स्थूलशरीरम् । प्राणो नारायणः स्थूणा ।
'वायुर्गोवत्सरूपेण सर्वप्राणिषु संस्थितः ।
सूक्ष्मदेह गृहं तस्य वितानं स्थूल उच्यते II
अन्नं दामात्मकं तस्य स्थूणा तु भगवान् हरिः ।
ध्यायत्येवं हि यो वायुं श्रोत्रादीन् मनसा सह ॥
बुद्धिं च सप्तशत्रून् स विषयेष्वभिधावतः ।
असुरान् सन्निरुध्यैव वेत्ति नारायणं परम् ॥
भावबोधटिप्पणी
अथ भाष्यार्थः
इन्द्रियजयाभावे विद्या न सिद्ध्यतीति भावेन काञ्चन विद्यामाह - यो ह वा इत्यादिना || यद्वा अथेममेव नाऽप्नोद् योऽयं मध्यमः प्राणः इत्युक्तप्राणस्य महिमान्तरमाह - यो ह वा इति ।। इदमेवाऽधानं इदमेव प्रत्याधानमिति श्रुतावाधानप्रत्याधानशब्दौ व्याख्यातौ । तत्राप्रतीतेराधानप्रत्याधानेदंशब्दार्थानाह– आधानमिति । अवस्थीयते अस्मिन्नित्यवस्थानं गृहम् । वितानं गृहाश्रयभूतस्थलबिस्तारः । सूक्ष्मशरीरं स्थूलशरीरमितीदंशब्दद्वयार्थकथनम् । प्राणशब्दस्य मध्यमप्राणपरत्वे स्वस्य स्वस्थूणात्वायोग इत्यतस्तद् व्याचष्टे - प्राण इति ॥ स्थूणा दामबन्धनस्तम्भ इत्यर्थः । समग्रब्राह्मणं प्रमाणेन व्याचष्टे - वायुरित्यादिना || अयं वाव शिशुरिति वाक्यं व्याचष्टे - वायुरिति ॥ पुरुषरूपस्य वायोः दामस्थूणाद्यनपेक्षणाद् गोवत्सरूपेणेत्युक्तम् । शिशुशब्दार्थ- कथनं वत्सरूपेणेति । तस्येदमेवाधानं इदमेव प्रत्याधानमिति वाक्यं व्याचष्टे - सूक्ष्मदेह इति ॥ जीवस्येति शेषः । स्थूलदेह इत्यनुवर्तते । अन्नं दामेति वाक्यं व्याचष्टे– अन्नमिति ।। अन्नं श्रीः 'अन्नाभिमानिनी साक्षाच्छ्रीरेव प्रमदोत्तमा । साऽन्नमित्युच्यते' (गी.भा. २ - २५) इत्युक्तेः । प्राणः स्थूणेति वाक्यं व्याचष्टे - स्थूणेति || यो ह वा इत्यादि अवरुणद्धीत्यन्तं वाक्यं व्याचष्टे— ध्यायत्येवमिति । भ्रातृव्यानित्यस्यार्थः शत्रूनिति । द्विषत इत्यस्यार्थः विषयेष्वभिधावत इति। स्वानभिमतविषयाभिधावनहेतुत्वादित्यर्थः । असुराञ्श्रोत्राद्यभिमानिनः इन्द्रियजयस्य स्वतः पुरुषार्थत्वाभावादाह- वेत्तीति
॥ १ ॥