मैत्रेयीति होवाच याज्ञवल्क्यः

अथ मैत्रेयीब्राह्मणम्

[ मैत्रेय्याः अध्यात्मनिष्ठा ]

उपनिषत्

मैत्रेयीति होवाच याज्ञवल्क्यः । उद्यास्यन् वा ओऽहमस्मात् स्थानादस्मि हन्त तेऽनया कात्यायन्याऽन्तं करवाणीति ॥ १ ॥

सा होवाच मैत्रेयी । यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात् कथं तेनामृता स्यामिति । नेति होवाच । याज्ञवल्क्यो यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्याद् , अमृतत्वस्य नाशाऽस्ति वित्तेनेति ॥ २ ॥

सा होवाच । मैत्रेयी येनाहं नामृता स्यां किमहं तेन कुर्यां, यदेव भगवान् वेद तदेव मे ब्रूहीति ॥ ३ ॥

स होवाच याज्ञवल्क्यः । प्रिया बतारे नः सती प्रियं भाषस एह्यास्व व्याख्यास्यामि । ते व्याचक्षाणस्य तु मे निदिध्यासस्वेति ॥ ४ ॥

[भगवतः सङ्कल्पादेव पत्यादिकं सर्वं प्रियं भवति ]

'ब्रवीतु भगवान्' रेति ।

स होवाच न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति ।

न वा अरे जायायै कामाय जाया प्रिया भवत्यात्मनस्तु कामाय जाया प्रिया भवति ।

न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति ।

न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति ।

न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्यात्मनस्तु कामाय ब्रह्म प्रियं भवति ।

न वा ओ अरेक्षत्रस्य कामाय क्षत्रं प्रियं भवत्यात्मनस्तु कामाय क्षत्रं प्रियं भवति ।

न वा अरे लोकानां कामाय लोकाः प्रिया भवन्ति, आत्मनस्तु कामाय लोकाः प्रिया भवन्ति ।

न वा अरे देवानां कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामाय देवाः प्रियाः भवन्ति ।

न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भवन्ति ।

न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति ।

आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम् ॥ ५ ॥

भाष्यम्

आत्मा नारायणः । तस्यैव हि कामेन पत्यादिः प्रियो भवति ।

नहि पत्यादीनां जायादीनामहं प्रियः स्यामिति कामनामात्रेण प्रियत्वं भवति । भगवदिच्छयैव हि तद् भवति । अन्यथा जायार्थे पत्यर्थे इत्येव स्यात् । प्राधान्यादिदं सर्वं विदितम् । सर्वकारणत्वाच्च सर्वप्राधान्यं भगवतः । प्राधान्याप्राधान्ययोरपि स एव हि हेतुः ।

भावबोधटिप्पणी

अमूर्तसारत्वेन प्रकृतभगवतोऽमूर्तसारत्वमुपपादयितुं महिमान्तरमाह - मैत्रेयीत्या - दिना ।। पत्युर्भर्तुः कामाय प्रयोजनाय पतिर्भार्यायाः प्रियो न भवति किन्तु आत्मनः स्वस्याः कामायैव भार्यायाः पतिः प्रियो भवतीति परकीयव्याख्याननिरासाय तावदात्मशब्दं व्याचष्टे- आत्मेति ॥ कुत इत्यतस्तद्ग्रहणे वाक्यार्थघटनारूपं हेतुं दर्शयन्नात्मनस्त्विति वाक्यं व्याचष्टे - तस्यैवेति ॥ प्रियो भवति जायादेरिति शेषः । अनेन तुशब्द एवार्थः कामायेति चतुर्थी तृतीयार्थेत्युक्तं भवति । जायादीनाम् अहं प्रियः स्यामिति पत्यादीनां कामनयैव पत्यादिर्जायादेः प्रियो भविष्यतीति किं नारायणस्यैव कामेनेत्युच्यत इत्याशङ्कानिरासकतया एवकारव्यावर्त्यप्रदर्शनपरत्वेन नवा इति वाक्यं व्याचष्टेनहीति ॥ वा इत्येतत्प्रसिद्धिद्योतकहिशब्देन व्याख्यातम् । प्रियं पत्यादिकमिति शेषः । जायादीनामित्येतदत्रापि सम्बद्ध्यते । प्रियत्वमिति क्वचित्पाठः । तत्र पत्यादीना- मित्येतदप्यनुवर्तनीयम् । भगवदिच्छानुसारिणी पत्यादीच्छापि प्रियत्वे हेतुरिति मात्रपदम् । अनेन पत्यादेः कामेन अहं जायादेः प्रियः स्यामितीच्छया पत्यादिर्जायादेः प्रियो न भवति । किन्तु आत्मनः स्वस्य जायादेः कामेन पत्यादिर्मम प्रियो भवत्विति कामनया पत्यादिर्जायादेः प्रियो भवतीति यथाश्रुतप्रतीतिरप्यपास्ता। यतः जायादीनामहं प्रियः स्यामिति पत्यादीनां कामनामात्रेणेव पत्यादिर्मे प्रियो भवत्विति जायादीनां कामनामात्रेणापि पत्यादिजायादेः प्रियं न भवत्यविशेषादिति । नारायणस्यैवेच्छया पत्यादिर्जायादेः प्रियो भवति नतु पत्यादीच्छयेत्येतत् कुत इत्यत आह- भगवदिच्छयैवेति । नारायणस्यैव ज्ञानविज्ञानादिसम्पन्नत्वेन तदिच्छाया अमोघत्वात्पत्यादीनां तदभावेन तदिच्छाया मोघत्वादिति भावः । अपव्याख्यानं दूषयति- अन्यथेति । अन्यथा आत्मनः कामायेत्यस्य जायायाः प्रयोजनायेत्यर्थत्वे जायार्थे पतिः प्रियः इत्येव स्यात् । पत्युः कामायेत्यस्य च पत्युः प्रयोजनायेत्यर्थत्वे च पतिः पत्यर्थे प्रियो न भवतीत्येव स्यात् । लाघवात् स्पष्टप्रतीतिकत्वाच्चेति भावः । आत्मनो दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितं भवतीत्युक्तम् । ब्रह्मज्ञानेन सर्वविज्ञानं ब्रह्मव्यतिरेकेणान्यस्याभावादित्याहुः । तदसत् । तद्वचनस्य ब्रह्मव्यतिरिक्तजगतोऽत्यन्तासत्त्वादित्यर्थत्वे इदं सर्वं विदितं भवतीत्युक्ति-विरोधात् । अपसिद्धान्तत्वाच्च । ब्रह्मण्यारोपितत्वादित्यर्थत्वेऽधिष्ठानयाथात्म्य- ज्ञानेनाध्यस्तज्ञानाभावात् । प्रत्युत तज्ज्ञानेनैतज्ज्ञानस्य निवृत्तेरेव जायमानत्वाच्चेति भावेन स्वयं यथावद् व्याचष्टे - प्राधान्यादिति । ब्रह्मणो जगदपेक्षया प्राधान्यात्तद्दर्शनेनेदं सर्वं विदितं भवतीत्युक्तमित्यर्थः । प्राधान्यमेव भगवतः कुतः सिद्धमित्यत आह- सर्वकारणत्वाच्चेति । चशब्देन सर्वस्य तदधीनत्वं समुच्चिनोति । ब्रह्मादीनामपि रुद्राद्यपेक्षया प्रधानत्वात्कथं सर्वप्राधान्यं भगवत इत्यत आह- प्राधान्येति ।। हिशब्दः प्रमाणप्रसिद्धियोतकः । ब्रह्मरुद्रादि- गतप्राधान्याप्राधान्ययोरपि भगवन्निमित्तत्वेन भगवतः सर्वप्राधान्यमित्यर्थः ।