अथ हैनमुद्दालकः आरुणिः पप्रच्छ याज्ञवल्क्येति होवाच
अथ अन्तर्यामिब्राह्मणम्
[ सर्वान्तर्यामी सर्वाश्रयश्व कः ]
उपनिषत्
अथ हैनमुद्दालकः आरुणिः पप्रच्छ याज्ञवल्क्येति होवाच । । मद्रेष्ववसाम पतंजलस्य काप्यस्य गृहेषु यज्ञमधीयानास्तस्यासीद् भार्या गन्धर्वगृहीता । तमपृच्छाम कोऽसीति । सोऽब्रवीत् कबन्ध आथर्वण इति । सोऽब्रवीत् पतंजलं काप्यं याज्ञिकांश्च वेत्थ नु त्वं काप्य तत्सूत्रं येनायं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्तीति । सोऽब्रवीत् पतंजलः काप्यो नाहं तद्भगवन् वेदेति । सोऽब्रवीत् पतंजलं काप्यं याज्ञिकांश्च वेत्थ नु त्वं काप्य तमन्तर्यामिणं य इमं च लोकं परं च लोकं सर्वाणि च भूतानि योऽन्तरो यमयतीति । सोऽब्रवीत् पतंजलः काप्यो नाहं तं भगवन् वेदेति । सोऽब्रवीत् पतंजलं काप्यं याज्ञिकांश्च यो वै तत्काप्य सूत्रं विद्यात् तं चान्तर्यामिणमिति स ब्रह्मवित् स लोकवित् स देववित् स भूतवित् स आत्मवित् स सर्वविदिति तेभ्योऽब्रवीत् तदहं वेद तच्चेत् त्वं याज्ञवल्क्य सूत्रमविद्वांस्तं चान्तर्यामिणं ब्रह्मगवीरुदजसे मूर्धा ते विपतिष्यतीति वेद वा अहं गौतम तत्सूत्रं तं चान्तर्यामिणमिति यो वा इदं कश्चिद् ब्रूयात् वेद वेदेति यथा वेत्थ तथा ब्रूहीति ॥ १ ॥
भाष्यम्
पुनस्तस्यैव सर्वनियन्तृत्वमुच्यते । योऽन्तरो यमयतीति द्वितीययशब्दो विष्णुशब्दपर्यायः ।
अकयप्रविसम्भूमसखहा विष्णुवाचकाः ।
एकाक्षरा अ इत्येष निर्दोषत्वाज्जनार्दनः ॥
आनन्दत्वात्क इत्युक्तः पूर्णत्वाद् य इतीर्यते ॥ इत्यादि शब्दनिर्णये इति स्वप्रतिज्ञातप्रकारेण ।
ब्रह्मवित्पूर्णविज्ञानाल्लोकानां कर्तृवेदनात् ।
लोकविद् देवविच्चासौ देवानां देववेदनात् ॥
वेदार्थवेदनाचैव वेदविद् भूतवित् तथा ।
तन्नियन्तृपरिज्ञानादात्मविच्चाप्तवेदात् ॥
सर्ववित् सर्वसारज्ञो यो वेद पुरुषोत्तमम् ।
देशाधिष्ठातृविज्ञानाद् देशज्ञ इति चोच्यते ॥
यथा तद्वद्धर्ज्ञानात् सर्वज्ञ इति वैदिकम् ॥ इति ब्रह्मतर्के ॥
भावबोधटिप्पणी
अन्तर्यामिब्राह्मणे अन्तर्यामित्वं प्रकृतेस्तत्तज्जीवस्य चोच्यते । श्रुत्युक्तपृथिव्यादि- शरीरत्वस्य प्रकृतावुपपत्तेः । शरीरशब्दस्य स्वरूपेऽपि प्रयोगात् । प्रकृतेश्व पृथिव्यादिसर्वात्मकत्वात् । नच पृथिव्यां तिष्ठन्नित्यादेरनुपपत्तिः । व्याप्तं कार्येषु कारणमित्यादिना कारणस्य कार्यस्थत्वोक्तेः । पृथिवीं यमयतीत्येतत् उपचारेण नेतव्यम् । पृथिव्यादिजीवस्य च पृथिव्यादिशरीरत्वादिकं सुघटमेवेति शङ्कापरिहाराय ब्राह्मणप्रतिपाद्यमाह - पुनरिति ॥ ब्रह्मलोकेषु गार्गीति यः सर्वमुक्ताश्रयत्वेनोक्तः । तस्य विष्णोरेव नतु प्रकृतेस्तत्तज्जीवस्य वेत्यर्थः । ‘एष त आत्मा ं इति विष्णोर्नियन्तृत्वस्योक्तत्वात् पुनः किमर्थमेतदित्यत उक्तम्– सर्वेति ।। ‘य आत्मा सर्वान्तरः' इति आत्मशब्देन सर्वनियन्तृ- त्वस्याप्युक्तत्वात् पुनरित्युक्तम् । आत्मेत्युक्तमेव विविच्योच्यत इति न वैय्यर्थ्यमिति भावः विष्णोरेव सर्वनियन्तृत्वमुच्यत इति कुत इति चेत् । अन्तर्यामिप्रश्नवाक्ये योऽन्तरो यमयतीति विष्णुवाचकयशब्दश्रवणात् । अन्यथा य इमं च लोकं परं च लोकं सर्वाणि च भूतान्यन्तरो यमयतीत्येतावता पूर्णत्वात् योऽन्तरो यमयतीति पुनर्य इति व्यर्थमित्याह- य इति ।। नचैवं स्वेनैवान्तर्यामिणो विष्णुत्वस्योक्तत्वात्प्रश्नानुपपत्तिः । काप्येनापि विष्णुवस्य यशब्देन ज्ञानान्न वेदेत्यनुपपत्तिश्च । तमन्तर्यामिणं विष्णुं विशेषेण वेत्थ किमिति गन्धर्वप्रश्नेन वदेति काप्यवचनात् । यशब्दस्य विष्णुवाचकत्वेऽभिधानमाह— अकयेति ।। विष्णावकयादिशब्दानां प्रवृत्तौ निमित्तमप्याह- अ इत्येष इति ।। यो वै तत्काप्यसूत्रं विद्यात् तं चान्तर्यामिणमिति स ब्रह्मविदिति वाक्य इतिशब्दो व्यर्थ इत्यत आह- इतीति । येनायं च लोकः परश्च लोकः सर्वाणि भूतानि च सन्दृब्धानीति य इमं च लोकं परं च लोकं सर्वाणि भूतानि योऽन्तरो यमयतीति च स्वप्रतिज्ञातप्रकारेणेत्यर्थः । तथाच स्वप्रतिज्ञातप्रकारवाचीतिशब्दाभावे सूत्रान्तर्यामिस्वरूपमात्रज्ञानिनो ब्रह्म- वित्त्वादिकमुच्यमानमयुक्तं स्यादिति तत्सार्थकमिति भावः । ननु स्वप्रतिज्ञात- प्रकारेण सूत्रान्तर्यामिविदोऽपि कथं ब्रह्मवित्त्वादिकमित्यतः स ब्रह्मविदित्यादि- वाक्यं व्याचष्टे- ब्रह्मविदिति । शक्तिज्ञानादिपूर्णविज्ञानादित्यर्थः । सूत्रस्य सर्वाश्रयत्वमन्तर्यामिणः सर्वनियन्तृत्वं च जानंस्तदुपयुक्तशक्तिज्ञानादिपूर्णत्वमपि जानात्येवेति भावः । लोकानां कर्तृवेदनादिति । धारणनियमनकर्तृवेदनादि-त्यर्थः । सूत्रस्य लोकधारणकर्तृत्वज्ञानं अन्तर्यामिणः लोकनियामकत्वज्ञानं विना स न सम्भवतीति भावः । देवानां देववेदनादिति । देवानां यो देवत्व - प्रदस्तदाश्रयः तन्नियामकश्चेति यावत् तद्वेदनादित्यर्थः । सूत्रान्तर्यामिणोः सर्वाश्रयत्वसर्वनियामकत्वज्ञाने देवाश्रयत्वतन्नियामकत्वमपि ज्ञातमेव । तच्च देवज्ञानाभावे न सम्भवतीति भावः ॥ वेदार्थेति ।। सर्वाश्रयत्वसर्व- नियामकत्वयोर्वेदार्थत्वादित्यर्थः । प्रतिपादकवेदज्ञानाभावे तत्प्रतिपाद्यार्थ- ज्ञानाभावादिति भावः ।। तन्नियन्तृपरिज्ञानादिति । नियम्यरूपभूतज्ञानाभावे तन्नियन्तृत्वेन तज्ज्ञानमपि न सम्भवतीति भावः । तदाश्रयपरिज्ञानादित्यपि ग्राह्यम् || आप्तवेदनादिति । तदाप्तस्यैव तदाश्रयत्वं तन्नियामकत्वं चेति आश्रयत्वनियन्तृत्वाभ्यां सूत्रान्तर्यामिणोर्ज्ञाने तदाप्तत्वज्ञानमावश्यकमिति भावः । सर्वसारज्ञः सर्वाश्रयसर्व नियन्त्रोः सर्वसारत्वात् । पुरुषोत्तमं पुरुषशब्दोऽत्राधिकारिपरश्चेतनपरश्च । तथाचाधिकार्युत्तमं सूत्रं चेतनोत्तमं विष्णुं चेत्यर्थः । ननूत्तमाधिकारिणामुक्तप्रकारेण लोकवेदादिसर्वज्ञानसम्भवेऽप्यन्येषां न सम्भवति । तेषामसर्वज्ञत्वादिति चेन्न । तदा लोकानां कर्तृवेदनात् लोकविदित्युच्यत इत्यौपचारिकत्वाङ्गीकारात् । तथा सति तत्र प्रयोजनं वाच्यमिति चेन्न । निरूढोपचारत्वेन तत्र प्रयोजनानपेक्षणादिति भावेनाऽह- देशेति । वैदिकं व्याहरणमिति शेषः ।