स ऐक्षत यदि ह वा इमभिमंस्ये कनीयोऽन्नं करिष्य इति..

[भगवतः सर्वसंहारकत्ववर्णनम् ]

उपनिषत्

स ऐक्षत यदि ह वा इमभिमंस्ये कनीयोऽन्नं करिष्य इति स तथा वाचा तेनात्मनेदं सर्वमसृजत यदिदं किञ्चर्चो यजूंषि सामानि च्छन्दां सि यज्ञान् प्रजाः पशून् । स यद्यदेवासृजत तत्तदत्तुमध्रियत सर्वं वा अत्तीति तददितेरदितित्वं सर्वस्यैतस्यात्ता भवति सर्वमस्यान्नं भवति य एवमेतददितेरदितित्वं वेद ।। ५ ।।

भाष्यम्

अभिमंस्ये लीनं करिष्ये चेत् ।

मानं ज्ञानं लयश्चैव मर्यादा चैव कथ्यते ।

उत्पादनं च सङ्ख्यानं बलं च कचिदुच्यते ॥ इति शब्दनिर्णये ॥

वेदाभिमानिनः सर्वास्तथा यज्ञाभिमानिनः ।

गायत्र्यामसृजद् ब्रह्मा स्वभार्यायां प्रजास्तथा ॥ इति प्रकाशिकायाम् ॥

यद्यद् ब्रह्माऽसृजत् पूर्वं तत्तदत्ति जनार्दनः ।

अदितिर्नाम तेनासौ भगवान् पुरुषोत्तमः ॥

उपास्ते यः परं देवमेवमत्तीति सर्वदा ।

स्वयोग्यतानुसारेण सर्वात्ताऽसौ भवत्युत ॥

ब्रह्मरुद्रसुपर्णानां सर्वात्तृत्वं विशेषतः ।

प्रायेणात्तृत्वमिन्द्रादेरन्येषां दर्शनादिकम् ॥

बहुलस्येति योग्यत्वभेदादत्तृत्वमिष्यते । इति मान्यसंहितायाम् ॥

आत्मनो यादृशा भोगा भोक्तुं योग्या हि तादृशान् ।

भोक्ता विष्णुरिति ध्यायेत् सर्वात्तृत्वं हरेः स्मरेत् ।।

दैवतानां च सर्वेषां सर्वात्तिध्यानमिष्यते ॥ इति प्रवृत्ते ॥

भावबोधटिप्पणी

अथ भाष्यार्थः

अप्रतीतेरभिमंस्य इत्येतदनूद्य व्याचष्टे - अभिमंस्य इति || अभिपूर्वो मन्यतिः हिंसार्थ इति व्याख्यानमसत् । मन्यतेरेव लयवाचकत्वस्य प्रामाणिकत्वे उपसर्गस्य धात्वर्थबाधकत्वस्यानाश्रयणीयत्वादिति भावेन तत्राभिधानमाह- मानमिति ॥ ऋचः समानाक्षरपादबन्धसमन्वितमन्त्रविशेषाः । यजूंषि अनियताक्षरपादाः । ऋच एव स्तोभाक्षरसंयुक्ताः सामानीत्यादिना ऋगादिशब्दाः प्रसिद्धार्थत्वेनैव परैर्व्याख्यातास्तदसदिति भावेन ' स तया वाचा' इत्यादिकं प्रमाणेन व्याचष्टे- वेदाभिमानिन इति ॥ अदितिशब्दस्य देवमातरि प्रसिद्धेस्तत्परत्वभ्रमं वारयितुं स यद्यदेवेत्यादि व्याचष्टे - यद्यदिति ॥ तत्तदत्तीत्यनेन सर्वं वाऽत्तीत्यनुवादान्यथानुपपत्त्या श्रुताबादच्चेति पूरणीयमिति सूचितम् । 'सर्वं वा अत्तीति तददितेरदितित्वम्' इत्येतत्तात्पर्यतो व्याचष्टेअदितिरिति । तेन ब्रह्मसृष्टसर्वात्तृत्वेन । अदितिशब्दस्य देवमातृपरत्वे सर्वं वात्तीति सर्वात्तृत्वविरोधः स्यादिति भावः । सर्वस्यैतस्यात्ता भवतीत्येतत्परैर्य एतददितेरदितित्वं वेद उपासीत सः सर्वात्मा भूत्वा अदितिवत्सर्वस्यैतस्यात्ता भवतीति व्याख्यातं तदसत् । तत्प्रतिपादकाभावात् । जीवाभेदस्य निरसिष्य- माणत्वाच्चेति भावेन ज्ञानमात्रेण सर्वेषामपि सर्वात्तृत्वं भवतीति प्रतीतिमपि वारयंस्तद्वाक्यं प्रमाणेन व्याचष्टे - उपास्त इति ।। सर्वदोपास्त इति वा । सर्वदा प्रतिकल्पमेवात्तीति वा सम्बन्धः । उत उपास्त्यनन्तरम् । योग्यतामेव दर्शयतिब्रह्मेति ।। अत्तृत्वं फलत्वेनोक्तं सर्वात्तृत्वं ब्रह्मादीनां इन्द्राद्यपेक्षया विशेषतः, सर्वात्तृत्वं चेन्द्रादीनां प्राय: अत्तृत्वमन्येषां बहुलस्य दर्शनादिकमित्यनेकप्रकारम् । नतु सर्वेषामेकप्रकारम् । कुतः ? योग्यताभेदादित्यर्थः । नन्वितरेषां कथं सर्वात्तृत्वध्यायिनां बहुलदर्शनादिकं फलं तस्य ध्यानानुगुणत्वात् इत्यतस्तेषां न सर्वात्तृत्वध्यानं किन्तु तथा स्मरणमतो नोक्तदोष इत्याहआत्मन इति ।। यथा मनुष्याणां सर्वात्तृत्वस्मरणमात्रं तथा किं केषाञ्चिद्देवानामपीत्यत आह- दैवतानामिति ॥

खण्डार्थः

सं मृत्युः कृतरवं कुमारमालोक्य ऐक्षत विचारमकरोत् किमिति यदीमं जातं संवत्सरम् अभिमंस्ये लीनं करिष्ये तदा कनीयोऽल्पम् अन्नं करिष्ये अतो बह्वन्नं भवत्वित्यालोच्य स मृत्युः तया पूर्वोत्पन्नया वाचा गायत्र्या तेनाऽत्मना चतुर्मुखेन यदिदं किञ्चेदं सर्वमसृजत जनयामास । तदेव विवृणोतिऋच इत्यादिना ॥ ऋचो ऋगभिमानिनीरित्यादि द्रष्टव्यम् । स संवत्सरः ब्रह्मा यद्यदेवासृजत तत्तत् अत्तुं स मृत्युनामा जनार्दनः अध्रियत । मन इति शेषः आदच्चेति शेषः । कुतः ? सर्वात्तृत्वं मृत्योः सर्वमत्तीति यत् तद्वै तदेव अदितेरदितिशब्दवाच्यस्य परमात्मनः अदितित्वं अदितिशब्द- प्रवृत्तिनिमित्तं यस्मात् । य एवमुक्तप्रकारेण अदितेरदितित्वं वेद उपास्ते स एतस्य स्वयोग्यस्य सर्वस्य अत्ता भवति । अस्योपासकस्य सर्वं स्वयोग्यम् अन्नं भवतीति पुनर्वचनं तात्पर्यद्योतनायेति ।।