स नैव व्यभवत् तच्छ्रेयोरूपमत्यसृजत धर्मं ..
[धर्माभिमानिनः मुख्यप्राणस्य सृष्टिः ]
उपनिषत्
स नैव व्यभवत् तच्छ्रेयोरूपमत्यसृजत धर्मं तदेतत् क्षत्रस्य क्षत्रं यद्धर्मस्तस्माद्धर्मात् परं नास्त्यथो अबलीयन् बलीयां समाशंसते धर्मेण यथा राज्ञैवं यो वै स धर्मः सत्यं वैतत् तस्मात् सत्यं वदन्तमाहुर्धर्मं वदतीति धर्मं वा वदन्तं सत्यं वदतीत्येतद्ध्येवैतदुभयं भवति ॥ ८ ॥
भाष्यम्
स्रष्टा स्वयं समुद्दिष्टः पालका देवता इमाः ॥
धारणं कथमस्य स्याद् गतिश्चास्य कथं परा ।
इति मत्त्वा हरेर्भक्तिर्धर्मरूपं पुनर्विभुः ॥
प्राणिनां धैर्यरूपं च वायो रूपान्तरं पुनः ।
ससर्ज मतिमान् ब्रह्मा विष्णोराज्ञापुर : सर: ||
तस्माद् वायोः परो नास्ति ऋते विष्णुं सनातनम् ।
शेषादीनां क्षत्रियाणां वायुरेवाधिपः स्मृतः ।
धारणाद्धर्म इत्याहुर्वायुर्धारयति प्रजाः ।
अबलोऽपि ततो वायोर्विष्णुभक्त्यादिरूपिणः ॥
प्राप्तुमिच्छति युक्तः सन् विष्णुं सुबलवत्तरम् ।
यथैव युवराजेन महाराजमभीप्सति ॥
प्राप्तुं धर्माभिमानी स वायुः सत्याभिमानवान् ।
तस्मादाहुर्धर्मविदं सत्यं वेत्तेति वेदिनः ॥
सत्यज्ञमथ धर्मज्ञं वायुर्देवो यतस्तयोः ॥ इति नारदीये ॥
भावबोधटिप्पणी
ननु बहुतरपरिवारस्याप्युत्पन्नत्वात्पुनः ‘स नैव व्यभवत्' इत्युक्तिः कथमित्यत- स्तदभिप्रायमाह- स्रष्टेति ॥ अस्य जगतो धारणं कथं केन स्यात् । अस्य सज्जनवर्गस्य गतिर्मोक्षश्च कथं केन स्यादिति मत्वेत्यर्थः । ननु स्वेन वा स्वसृष्टदेवैर्वा धारणं गतिश्च स्यादित्यत उक्तम्– स्रष्टेति ॥ ‘तच्छ्रेयोरूपमत्यसृजत धर्मम्’इत्येतद् व्याचष्टे - हरेरिति ॥ भक्त्याख्यधर्माभिमानि- रूपमिति गतिसाधनरूपोक्तिः । यद्वा, धर्मो निवृत्तधर्मः । तदुपलक्षणपरमित्य- भिप्रायेण भक्तिधर्मरूपमित्युक्तम् । अत एव भक्त्यादिरूपिण इति वक्ष्यति । धैर्यरूपं धैर्याभिमानिरूपमिति धारकरूपोक्तिः । अनेन श्रौतधर्मशब्दो द्वेधा व्याख्यातः । उत्तरत्र रूपद्वयस्याप्युक्तत्वात् । क्षत्ररूपापेक्षया प्रथमः पुनःशब्दः ।
गतिसाधनरूपापेक्षया द्वितीयः । ननु वायोः स्वरूपेण समत्वात् कथं ब्रह्मा तं ससर्जेत्यत आह- विष्णोरिति || ' तस्माद्धर्मात्परं नास्ति' इत्येतद् व्याचष्टे-- तस्मादिति । विष्णुरेवास्तीत्यत उक्तम् - ऋत इति । तस्मादित्युक्तं हेतुं दर्शयितुं तदेतत्क्षत्रस्य क्षत्रं यद्धर्म इति पूर्ववाक्यं व्याचष्टे - शेषादीनामिति ॥ यस्मादिति शेषः । यद्धर्म इति धर्मशब्दो न पूर्वधर्मशब्दवदुभयार्थः । गतिसाधनरूपस्याथो बलीयानित्यादिना वक्ष्यमाणत्वादिति भावेन तस्यार्थमाह- धारणादिति । प्रजाः शेषाद्याः अतो वायुर्धर्मशब्दाभिधेय इति शेषः । ‘अथोऽबलीयान् बलीयांसम् आशंसते धर्मेण' इति वाक्यं व्याचष्टे - अबलोऽपीति । यतो वायोः परो नास्ति तत इत्यर्थः । अनेनाथ इत्युक्तार्थम् । धर्मेणेति धर्मशब्दो न पूर्ववदुभयार्थः धारकरूपस्योक्तत्वादिति भावेनोक्तं विष्णुभक्त्यादि- रूपिण इति । युक्तो योगयुक्तः । ‘यथा राज्ञैवम्' इत्येतद् व्याचष्टे - यथैवेति ।। महाराजं प्राप्तुम् इति सम्बन्धः । ‘यो वै स धर्मः सत्यं वै तत्’इत्येतद् व्याचष्टे - धर्माभिमानीति || ' तस्मात्सत्यं वदन्तमाहुः धर्मं वदतीति धर्मं वा बदन्तं सत्यं वदति’इति इत्येतद् व्याचष्टे - तस्मादिति ।। सत्यवचनं धर्मवचनं वा विप्रलम्भादिमूलं न भवतीति भावेन धर्मविदमित्यादिना व्यवहार- कारणीभूतं ज्ञानं दर्शितम् । एतद्ध्येवैतदुभयं भवति' इति वाक्यं व्याचष्टे— वायुरिति ॥