स यथा करोति पुरुषं तथैवायं भविष्यति
[पुण्यपापकारयिता भगवान् ]
भाष्यम्
स यथा करोति पुरुषं तथैवायं भविष्यति ।
साधुर्भवति साधुं चेत्करोति पुरुषोत्तमः ॥
पापो भवति पापं चेत्स करोति जनार्दनः ।
तत्प्रेरितेन पुण्येन पुण्यो भवति मानवः ॥
तत्प्रेरितेन पापेन तथा पापः पुमान् भवेत् ।
आहुश्च तत्कामाधीनं जीवमेनं सदैव हि ॥
तत्कामादस्य कामः स्याद् यथाकामस्तथा भवेत् ।
कामानुसारिणी निष्ठा कर्मनिष्ठानुसारतः ।
फलं कर्मानुसारेण विष्णोः काममयस्ततः ।।
जीवोऽयं सर्वदैव स्यान्नान्यथा तु कथञ्चन ॥ इत्यादि च ॥
भावबोधटिप्पणी
यथाकारीत्यादिकं जीवपरमिति प्रतीतिनिरासाय तावत्स यथाकारी यथाचारी तथा भवतीति वाक्यं व्याचष्टे - स इति ॥ साधुकरी साधुर्भवति पापकारी पापो भवतीति वाक्यं व्याचष्टे - साधुरिति ॥ पुण्यः पुण्येन कर्मणा भवति पापः पापेनेति वाक्यं व्याचष्टे - आहुश्चेति ॥ काममयः कामप्रधानकः योग्यतया हरेरित्यस्य लाभः तस्य लब्धार्थमाह- तत्कामाधीनमिति ॥ स यथाकामो भवति तत्क्रतुर्भवतीति वाक्यं व्याचष्टे - यथाकाम इति ||तथा भवेत्तथाकामो भवेत् । नन्वेवं परमात्मा यदि जगत्सृष्ट्यादिकामस्तदाऽयमपि तत्कामः स्यात् किमित्यतस्तदभिप्रायमाह - तत्कामादस्य कामः स्यादिति ॥ प्रकारान्तरेणापि स यथाकामो भवति तत्क्रतुर्भवतीति वाक्यं व्याचष्टे - कामानुसारिणी निष्ठेति || भगवत्कामानुसारिणीत्यर्थः । यत्क्रतुर्भवति तत्कर्म कुरुत इत्यस्यार्थमाह– कर्मनिष्ठानुसारत इति । यत्कर्म कुरुते तदभिसम्पद्यत इत्येतद् व्याचष्टे– फलं कर्मानुसारेणेति । स यथाकाम इत्यादिकं प्रकृतासङ्गतं किमर्थमुच्यत इत्यतो जीवस्य विष्णुकाममयत्वोपपादकं तदिति नासङ्गतमित्याह- विष्णोरिति ।। हि यस्मात्तत्कामादस्य कामः स्यात् यस्माच्च तत्कामानुसारिणी निष्ठा निष्ठानुसारतः कर्म कर्मानुसारतः फलं ततोऽयं जीवः विष्णोः काममय इति सम्बन्धः ।