'सत्यः सो अस्य महिमा गृणे शवः'

 [जीवेश्वरभेदः न असत्यः ]

भाष्यम्

'सत्यः सो अस्य महिमा गृणे शवः' ' त एते सत्याः कामाः ' इत्यादिश्रुतिभिर्भगवद्गुणानां सत्यत्वमेव ज्ञायते ।

'सत्यमेनमनु विश्वे मदन्ति रातिं देवस्य गृणतो मघोनः' इति सर्वजीवानां भगवदनुजीवनं च सत्यमित्येवोच्यते । तदा कथं जीवभेदस्यासत्यता ? नच सर्वविध्यर्थं क्रियासिद्धस्य कुत्रचिद् बाधो दृष्टः ।

भावबोधटिप्पणी

किञ्च न केवलं प्रमाणाभावाच्छ्रुत्यादेर्नापारमार्थिकभेदपरत्वं किन्तु जीवेश्वरौ भिन्नौ विरुद्धधर्माधिकरणत्वाद्घटपटवदिति अनुमानबिरुद्धत्वाच्च । नचासिद्धिः श्रुत्यादिषु भगवतः स्वातन्त्र्यादेः जीवस्य तदनुजीवनादेश्च श्रवणात् । नन्वस्त्वेवं जीवेश्वरभेदसाधनं, नैतदस्माकं विरोधि । अस्माभिरपि असत्यस्य जीवेश्वरभेदस्या- प्युपगमात् । नच विरुद्धधर्माधिकरणत्वानुपपत्तिः । तस्याप्यसत्यत्वाभ्युपगमादित्यत आह- सत्य इति ॥ स पूर्वोक्तः अस्य महिमा सत्यः विप्रप्रधानकेषु यज्ञेषु शवः सुखमुद्दिश्य तं गृणे इत्यर्थः । गृणतो मघोनो देवस्य रातिमिष्टं एनं परमात्मानं विश्वे जीवाः अनुमदन्ति अनुजीवन्तीत्येतत्सत्यमित्यर्थः । अस्त्वेवं विरुद्धधर्माधिकरणत्वस्य सत्यत्वं किं तत इत्यत आह- तदेति ॥ किश्च न जीवेश्वरभेदोऽसत्यः अस्तीति विधिप्रत्ययसिद्धत्वात् संसारमोचनाद्यर्थ- क्रियासमर्थत्वाच्च । नच प्रत्ययसिद्धत्वमेव हेतुरस्त्विति वाच्यम् । शुक्तिकामेवायं रजतत्वेन जानातीत्यनुवादरूपप्रतीतिविषयशुक्तिरूप्यादौ व्यभिचारापत्तेः । नचैवमपि व्यभिचारः। सर्वविधिप्रत्ययसिद्धस्य हेतुत्वात् न च सर्वेषामेकस्मिन्नर्थे भ्रान्तिरस्ति नचासिद्धः श्रुत्यादिना सार्वज्ञ्यादिगुणं परमात्मानं प्रत्यक्षेण तद्विरुद्धमात्मानं च पश्यतः तद्भिन्नोऽहमिति प्रतीतेः सर्वानुभवसिद्धत्वाद् यथोक्तम्अज्ञता चाल्पशक्तित्वमित्यादि । नन्वस्तु सर्वविधिप्रत्ययसिद्धत्वमर्थं- क्रियासमर्थत्वं वा मास्त्वसत्यत्वाभाव इत्यत आह- नचेति । सर्वविधि- सिद्धस्यार्थक्रियाकारित्वेन सिद्धस्येत्यर्थः । स्यादेवं यदि सर्वविधिप्रत्ययसिद्धस्यार्थ- क्रियासमर्थस्यापि कुत्रचिद्वाधः स्यात् । नचासौ दृष्टः । तेनासत्यत्वाभावे सर्वविधिप्रत्ययसिद्धत्वादिकमेव प्रयोजकमिति भावः । ननु भयकम्पाद्यर्थ- क्रियाकारिणः रज्जुसर्पादिः स्वप्नार्थस्य च बाधो दृष्ट एवेति चेन्न । रज्जुसर्पादिज्ञानस्यैव भयकम्पनादिजनकत्वात् । तस्य चाबाध्यत्वात् । स्वप्नार्थस्य सृष्ट्युक्त्या तत्सत्यत्वस्योक्तत्वादिति ।

Load More