प्राणादेरीशितारं परमसुखनिधिं सर्वदोषव्यपेतं
श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं
बृहदारण्यकोपनिषद्भाष्यम्
तृतीयोऽध्यायः
भाष्यम्
[भाष्योक्तमङ्गलाचरणम्]
प्राणादेरीशितारं परमसुखनिधिं सर्वदोषव्यपेतं
सर्वान्तस्थं सुपूर्णं प्रकृतिपतिमजं सर्वबाह्यं सुनित्यम् ।
सर्वज्ञं सर्वशक्तिं सुरमुनिमनुजायैः सदा सेव्यमानं
विष्णुं वन्दे सदाऽहं सकलजगदनाद्यन्तमानन्ददं तम् ॥ १ ॥
भावबोधटिप्पणी
अथ श्रीमद् रघूत्तमतीर्थकृता परब्रह्मप्रकाशिका (भावबोध) व्याख्या
लक्ष्मीपतिं सुखमुखैरखिलैर्गुणौघैः
पूर्णं व्यपेतनिखिलाघमचिन्त्यशक्तिम्।
प्राणादिसर्वजगतो जनिपूर्वहेतुं
मोक्षैकहेतुमनिशं प्रणमामि विष्णुम् ॥ १ ॥
निखिलाद्वैत सिद्धान्तप्राप्ताज्ञानविनाशकः ।
श्रीमदाचार्यसूर्योऽयं दद्यात्तत्वप्रकाशनम् ॥ २ ॥
वाग्वज्रेणाच्छिनद् योऽसकृदतिविवदद्वादिसन्दोहभूभृत्-
पक्षान् धीमन्दरेण प्रमथनमकरोन्मध्वसिद्धान्तवार्धेः ।
सम्प्राप्याथी सुधां यो निखिलसुमनसः पाययामास मुक्यै
तं मूर्ध्ना श्रीजयार्यं सपदि बहुदृशं संयमीन्द्रं नमामि ।। ३ ।।
येन वेदान्तभाष्याणि विवृतानि महात्मना ।
तं वन्दे व्यासतीर्थाख्यं वेदान्तार्थप्रसिद्धये ।। ४ ।।
योऽध्यापयित्वा वेदांश्च मध्वसिद्धान्तमादिशत् ।
न्यासं प्रादाद्धरेः प्रीत्यै रघुवर्यगुरुं भजे ॥ ५ ॥
यत्काण्वोपनिषद्भाष्यं पूर्णप्रज्ञविनिर्मितम् ।
तत्कृपालवमाश्रित्य व्याख्यास्ये तद् यथामति ॥ ६ ॥
इहामुत्र फलभोगविरक्तस्य शमदमादिमतो मुमुक्षोरधिकारिणोऽनिष्टनिवृत्तेः परमानन्दावाप्तेश्च साधनत्वेन प्रवृत्तां काण्वीमुपनिषदमन्यैरन्यथाव्याख्यातत्वेना- प्रवृत्तामिव मन्यमानो यथावद् व्याचिख्यासुर्भगवानानन्दतीर्थमुनिः विलीन - प्रकृतितयाऽन्तरायविधुरोऽप्यनवरतमीश्वरप्रवणकरणवृत्तिरपि नारायणप्रणामादिकं प्रारिप्सितस्यानन्तरायपरिसमाप्तेः प्रचयस्य च हेतुतयाऽविगीतशिष्टाचार- परम्परादिनाऽवगतमवश्यं करणीयं शिष्यान् ग्राहयितुं ग्रन्थादौ निबध्नाति– प्राणादेरिति ॥ स्वस्य विष्णुवन्दनं कादाचित्कं न भवतीत्याशयेनोक्तम्- सदेति ॥ ननु सतीष्वन्यासु देवतासु कुतो विष्णोरेव वन्द्यत्वमिति चेत् अन्यत्र बन्द्यत्वप्रयोजकविशिष्टत्वाद्यभावात् । त्रिविधा हि देवता बन्द्या भवति । विशिष्टाधिकृतेष्टा चेति । नहि देवतावन्दनं व्यसनितया क्रियते। किन्तु विघ्नविघातादिप्रयोजनापेक्षितया । विशिष्टैव देवता तस्येष्टे | अधिकृता च स्वविषयकग्रन्थप्रबोधादिकं सम्पादयति । वन्दनं खलु भक्त्याद्युपेतमेव सफलं तच्चेष्टायामेव देवतायामुपपद्यत इति । तत्र विशिष्टत्वाधिकृतत्वप्रतिपादनाय प्राणादेरीशितारमित्यादीनि सर्वाण्यपि विशेषणानि । लक्ष्मीमुक्तव्यवृत्त्यर्थं परमेति सुखविशेषणम् । पारतन्त्र्यादिसर्वदोषव्यपेतम् । देशतः कालतो गुणतश्च पूर्णत्वलाभाय सुपूर्णमित्युक्तम् । पराधीनविशेषलाभादिना केनापि प्रकारेण न जायत इत्यजम् । सर्वबाह्यं सर्वविलक्षणम् । अपूर्णत्वादि- चतुर्विधनाशाभावलाभाय सुनित्यमित्युक्तम् । सर्वज्ञं स्वपरगताखिलविशेषज्ञम् । सर्वशक्तिं प्रकृतिप्राणादिपालननियमनादिविषयशक्तिमन्तम् । सुराः पद्मापद्म- भवादयः । सेव्यत्वे निमित्तोक्तिः सकलेति । सकलस्य जगतः अनाद्यनन्ताः चेष्टोत्पत्तिनाशा यस्मात्स तथोक्तः तम् । सेवाप्रयोजनोक्तिः- आनन्ददमिति ॥
स्वातन्त्र्येण मौक्तानन्ददम् । एवं चैतेषां विशिष्टधर्मप्रतिपादकतया विशिष्टत्व- प्रतिपादकत्वं द्रष्टव्यम् । ‘यः प्राणमन्तरो यमयति' इत्यादिना प्राणादेरीशितृत्वम् । ‘अथैष एव परम आनन्दः' इति परमसुखनिधित्वम् | ‘योऽशनायापिपासे’ इत्यादिना सर्वदोषव्यपेतत्वम् । ‘यः पृथिव्यां तिष्ठन्' इत्यादिना सर्वान्तःस्थत्वम् । ' योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्वम्' इत्यत्र ब्रह्मसर्वपदाभ्यां सुपूर्णत्वम् । अमृतपदेन सुनित्यत्वम् । एतस्मिन् खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च' इति प्रकृतिपतित्वम् । ‘आत्मैवेदमग्र आसीद्' इत्यजत्वम् । 'नेति नेति' इति सर्वबाह्यत्वम्। ‘सर्वानुभूरित्यनुशासनम्' इति सर्वज्ञत्वम् । ‘स यथा आर्द्रेधाग्नेः' इत्यादिना सर्वसृष्टयुक्त्या सर्वशक्तित्वम् । ' तद् यो यो देवानां प्रत्यबुद्धत' इत्यादिना सुरादिसेव्यत्वम् । 'अशनाया हि मृत्युः स तया वाचा तेनाऽत्मनेदं सर्वमसृजत सर्वं वा अत्ति' इत्यादिना सकलजगदनाद्यन्तत्वम् । 'कं ह वाऽस्मै भवति' इत्यादिनाऽऽनन्ददत्वमुक्तमित्येतेषाम् अधिकृतत्व- प्रतिपादकत्वं द्रष्टव्यम् । इष्टत्वप्रतिपादनार्थमप्यानन्ददमित्युक्तम् । यद्वा, नानिर्धारितस्वरूपस्य प्रणामो युक्तः । नचान्तरेण लक्षणं वस्तुनिर्धारणमिति विभवाद् अनेकानि विष्णोर्लक्षणानि अनेनोच्यन्ते । एतेषां विशेषणानां विष्णुमात्रनिष्ठत्वं प्रागेवोक्तमिति ॥