अयमग्निर्वैश्वानरो योऽयमन्तः पुरुषे येनेदमन्नं पच्यते ..

[जाठराग्निगतभगवद्रूपस्य वैश्वानर इति नाम ]

उपनिषत् 

अयमग्निर्वैश्वानरो योऽयमन्तः पुरुषे येनेदमन्नं पच्यते यदिदमद्यते तस्यैष घोषो भवति यमेतत् कर्णावपिधाय शृणोति स यदोत्क्रमिष्यन् भवति नैनं घोषं शृणोति स यदोत्क्रमिष्यन् भवति नैनं घोषं शृणोति ॥ १॥

इत्येकादशं ब्राह्मणम्

भाष्यम्

अग्निनामा तु भगवानौदर्याग्नौ प्रतिष्ठितः ।

विश्वैर्गुणैः समेतत्वादनन्तत्वाच्च स प्रभुः ।

वैश्वानर इति प्रोक्तः सोऽग्निरङ्गप्रणेतृतः ।

तस्य विष्णोः स्तुतिरियं क्रियते वायुना सदा ॥

कर्णौ पिधाय या नित्यं श्रोतुं शक्याऽखिलैस्सदा ॥

इति मन्त्रमालायाम् ॥

भावबोधटिप्पणी

भगवद्विषयां विद्यान्तरमाह - अयमग्निरिति ।। अग्निर्वैश्वानर इति वैश्वानरशब्दस्य प्रसिद्धाग्निशब्दसामानाधिकरण्येन ब्राह्मणग्निपरमिति प्रतीतिनिरासाय प्रमाणेन व्याचष्टेअग्निनामा त्विति । कुत इत्यत आह- अग्नौ प्रतिष्ठित इति ॥ योऽयमन्तः पुरुष इत्यादिवाक्यानुरोधादौदर्येत्यग्निविशेषणम्। वैश्वानरशब्दार्थमाह- विश्वैरिति । विश्वगुणसम्बन्धित्वात् वैश्वः आ सम्यक् नरीयत इत्यानरः वैश्वश्वासावानरश्चेति वैश्वानर इत्यर्थः । आनर इत्यस्यार्थोऽनन्तत्वादिति । 'अग्निनामा तु भगवान्' इत्युक्तम् । तत्राग्निशब्दं निर्वक्ति- सोऽग्निरिति । तस्यैष दोषो भवतीत्यादि व्याचष्टे - तस्येति ||

खण्डार्थः

योऽयं प्रसिद्धः अन्तःपुरुषे पुरुषस्यान्तर्वर्तते अयमग्निर्जाठराग्निस्थोऽग्निनामा भगवान् वैश्वानरः विश्वगुणसम्बन्धित्वाद्वैश्वः आसम्यक् नरीयत इत्यानरः वैश्वश्वासावानरश्चेति वैश्वानरः । तस्य व्यापारमाह- येनेति । यदिदं प्रसिद्धं पुरुषैरद्यते इदमन्नं येन पच्यते अयमग्निरिति सम्बन्धः । एष वायुना क्रियमाणो घोषस्तस्य विष्णोः स्तुतिरूपो भवति । कः यं घोषं कर्णावपिधाय एतदेष पुरुषः शृणोति । स विष्णुर्यदाऽस्मच्छरीरादुत्क्रमिष्यन् भवति तदा म्रियमाणो जीव एनं घोषं न शृणोति तदेव मरणसूचकमित्यर्थः ।।

 इत्येकादशं ब्राह्मणम् ।। ७.११ ॥