तदाऽऽहुर्यद् ब्रह्मविद्यया सर्वं भविष्यन्तो ..

[अहं ब्रह्मास्मीत्येतद् भगवतः गुणपूर्णत्वोपपादकम् ]

उपनिषत्

तदाऽऽहुर्यद् ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते किमु तद् ब्रह्मावेद् यस्मात्तत् सर्वमभवदिति ॥ ३ ॥

भाष्यम्

ब्रह्मविद्यया सर्वं भविष्यन्त आत्मयोग्यतापूर्तिमाप्नुवन्तो महान्तो यदाहुः ब्रह्मविद्यया स्वयोग्यं सर्वं प्राप्यत इति ।

भावबोधटिप्पणी

अथ भाष्यार्थः

भगवज्ज्ञानादेव परमसुखज्ञानप्राप्तिर्भवतीत्युक्तम् । तदेतदाक्षेपपरिहाराभ्यां समर्थितमित्याहतदाऽऽहुरिति । इदं वाक्यजातं मायावादिन एवं व्याचक्षते । ‘‘तद् वक्ष्यमाणं नित्यनिरतिशयश्रेयःप्रतिपित्सवः आहुः किं तत् यद् ब्रह्मविद्यया ब्रह्मस्वात्मतादात्म्यविद्यया सर्वं निरवशेषं भविष्यन्तो भविष्यामः इत्येवं मनुष्याः मन्यन्ते सम्भावयन्ति । तत्किं ब्रह्म । किं वा अवेत् । को वा सर्वभावः इति पृच्छतिकिमिति । यस्माद्विज्ञानात्तद् ब्रह्म सर्वमभवत् तद् ब्रह्म किमु किमात्मस्वरूपमतिरिक्तं वा । किं वाऽवेत् स्वरूपं तदतिरिक्तं वा । यस्मात्तत्सर्वमभवदिति सर्वभावापत्तिरपि किं विद्यमानैवाभिव्यज्यते किं नूतनैवोत्पद्यते इत्यर्थः । तत्राऽद्यस्योत्तरमाह - ब्रह्म वा इति । अग्रे शास्त्रजन्यप्रबोधादपि प्राग् इदं शरीरस्थं प्रमात्रादिसाक्षिभूतं त्वंपदलक्ष्यं ब्रह्मैवाऽसीदित्यर्थः । द्वितीयस्योत्तरमाहतदात्मानमिति ।। तदविद्याविशिष्टा-धिकारिस्वरूपभूतं ब्रह्म नासि त्वं संसारी किन्तु सकलसंसारधर्मरहितं चिदानन्दैकरसं ब्रह्मैवाऽसीति दयालुनाssचार्येण बोधितमात्मानमेव अहं ब्रह्म प्रमात्रादिसाक्ष्यशनायाद्यतीतादिलक्षणमस्मि भवामीत्येवमवेदित्यर्थः तृतीयस्योत्तरमाह - तस्मादिति ॥ तस्मादहं ब्रह्मास्मीति विज्ञानादेव । तत् ब्रह्म सर्वमभवत् । ब्रह्मात्मापरोक्षेणाविद्यापगमात् तत्कार्यस्यासर्वत्वस्य निवृत्तौ स्वाभाविकं सर्वत्वं प्राप्तमिति यावदिति । तदेतदसत् । आदिवाक्ये प्रतिपित्सव इत्यध्याहारप्रसङ्गात् । किमाहुरित्यस्योत्तरत्र परिहारानुपलम्भाच्च । नहि यद् ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्त इत्यत्रेदमाहुरिति प्रतीयते। ब्रह्मविद्ययेत्यस्य ब्रह्मणः स्वात्मतादात्म्यसाक्षात्कारेणेति व्याख्यानमसत् । अपदार्थत्वाद् वक्ष्यमाणरीत्याऽप्रामाणिकत्वात् प्रमाणविरुद्धत्वाञ्च । अत एव सर्वं निरवशेषमित्येतदप्ययुक्तम् । निराकरिष्यते चैतत् । भविष्यन्त इत्यस्य भविष्याम इति विपरिणामायोगाच्च । प्रश्नवाक्यस्य सङ्गत्यभावाच्च । किमु तद् ब्रह्मावेत् यस्मात्तत्सर्वमभवदित्यस्यैकवाक्यत्वेनैव स्पष्टमन्वयप्रतीतेः उक्तरीत्या वाक्यभेदायोगाच्च । तृतीयप्रश्नवाक्यस्य सर्वथाऽप्यश्रुतस्यैव कल्पनीयत्वाच्चेति भावेन तद्वाक्यजातं यथावद् व्याकुर्वन् 'आहुर्यद् ब्रह्मविद्यया सर्वं भविष्यन्तः' इत्येतद्वाक्यमन्वयं दर्शयन् व्याचष्टेब्रह्मविद्ययेति ॥ परब्रह्मापरोक्षज्ञानेन। सर्वमित्यस्यार्थः- पूर्तिमिति । निरुपचरितपूर्तेर्बाधादात्म- योग्यतेत्युक्तम् | महान्तो देवाद्या इति विशेष्याध्याहारः । यदाहुः किन्तदिति जिज्ञासानिवर्तकत्वेन 'ब्रह्मविद्यया सर्वम्' इत्येतदेवापेक्षिताध्याहारेण व्याचष्टे- ब्रह्मविद्ययेति ॥

Load More