भूमिरन्तरिक्षं द्यौरित्यष्टावक्षराण्यष्टाक्षरं..

[गायत्र्युपासनम्]

उपनिषत्

भूमिरन्तरिक्षं द्यौरित्यष्टावक्षराण्यष्टाक्षरं ह वा एकं गायत्र्यै पदमेतदु हैवास्या एतत् स यावदेषु त्रिषु लोकेषु तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥ १ ॥

ऋचो यजूंषि सामानीत्यष्टावक्षराण्यष्टाक्षरं ह वा एकं गायत्र्यै पदमेतदु हैवास्या एतत् स यावतीयं त्रयी विद्या तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥ २ ॥

प्राणोऽपानो व्यान इत्यष्टावक्षराण्यष्टाक्षरं ह वा एकं गायत्र्यै पदमेतदु हैवास्या एतत् स यावदिदं प्राणि तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥ ३ ॥

भाष्यम्

ऋग्यजुःसामसंस्थो यो भगवान् पुरुषोत्तमः ।

सद्वितीयपदेनोक्तो गायत्र्याः प्रथमेन तु ॥

भूम्यन्तरिक्षस्वर्गस्थस्तृतीयेन समीपगः ।

भावबोधटिप्पणी

सर्वेषां गायत्र्या अपेक्षितत्वात्तन्निष्ठां विद्यामाह - भूमिरन्तरिक्षमिति ब्राह्मणेन ॥अत्र भूमिरन्तरिक्षं द्यौरित्यष्टावक्षराणि अष्टाक्षरं ह वा एकं गाय पदमित्यादिना- ष्टाक्षरत्वसाम्यमुक्त्वा तज्ज्ञानिनो लोकाधिपतित्वादिकं फलमुच्यते तदयुक्तमति- प्रसङ्गादित्यतस्तदभिप्रायमाह - ऋग्यजुरिति ॥ अनेन ऋचो यजूंषि सामानी- त्यादेरभिप्राय उक्तः । भूमिरन्तरिक्षमित्यादेरभिप्रयमाह - प्रथमेन त्विति । तुशब्दः पदेनेत्यस्यानुकर्षणार्थः । गायत्र्या इत्यस्यात्रापि सम्बन्धः । प्राणोऽपान इत्यादेरभिप्रायमाह - तृतीयेनेति । ७.१९ ।। १३ ।।

Load More