अथेत्यभ्यमन्थत् स मुखाच्च योनेर्हस्ताभ्यां चाग्निमसृजत
[ अग्न्यन्नयोः सृष्टि: ]
उपनिषत्
अथेत्यभ्यमन्थत् स मुखाच्च योनेर्हस्ताभ्यां चाग्निमसृजत । तस्मादेतदुभयमलोमकमन्तरतोऽलोमका हि योनिरन्तरतस्तद्यदिदमाहुरमुं यजामुं यजेत्येकैकं देवमेतस्यैव सा विसृष्टिरेष उ ह्येव सर्वे देवा अथ यत्किञ्चेदमार्द्रं तद्रेतसोऽसृजत तदु सोम एतावद्वा इदमन्नं चैवान्नादश्च सोम एवान्नमग्निरन्नादः सैषा ब्रह्मणोऽतिसृष्टिर्यच्छ्रेयसो देवानसृजताथ यन्मर्त्यः सन्नमृतानसृजत तस्मादतिसृष्टिरतिसृष्ट्यां हास्यैतस्यां भवति य एवं वेद ॥ ६ ॥
इति चतुर्थं प्राजापत्यब्रह्मणम्
भाष्यम्
अथान्नादमथाप्यन्नं स्रक्ष्यामीति विचिन्तयत् ।
ओष्ठद्वयं ममन्थान्तर्हस्तौ चैव परस्परम् ॥
तन्मुखाच्चैव हस्ताभ्यामन्तरग्निरजायत ।
एवं सर्वस्य हेतुत्वात्सर्वस्यापि पतित्वतः ॥
सर्वे देवा एष एवेत्याहुर्वेदविदो जनाः ।
स्वतन्त्रेषु यतः शब्दा वर्तेयुः सर्व एव च ॥
स रेतसः पुनः सोममसृजद्ब्रह्मविद्धरः ।
सर्वाधिकोऽपि योग्यत्वान्मर्त्यधर्मतया पुरा ॥
अवमो योग्यताहीनानप्यायुर्मात्रतोऽधिकान् ।
यतोऽस्रागतिसृष्टिस्तदेवं यो वेदं पूरुषः ।।
विष्णोः प्रसादतः सृष्टिं देवलोके स जायते ।
आत्मयोग्यानुसारेण सुखज्ञानादियुक्तता ।। इति ब्रह्मतर्के ।
भगवदुपासनामाहात्म्यमेतदिति दर्शयितुं तद्यदिदमाहुरित्याद्यारम्भः ॥ ६ ॥
इति प्राजापत्यब्राह्मणम्
भावबोधटिप्पणी
अथ भाष्यार्थः
अथेतीति पदद्वयमपेक्षितपूरणेन व्याचष्टे - अथेति । अन्नमपीति सम्बन्धः । अभ्यमन्थदित्येतच्छेषं पूरयन् व्याचष्टे - ओष्टद्वयमिति ।। अन्तरेवेति सम्बन्धः । चशब्देन योनेरपि समुच्चयः । एवमेव मुखाच्चैवेत्येवकारच शब्दयोरर्थो ज्ञेयः । स मुखाच्चेत्यादि व्याचष्टे - तन्मुखादिति । एतस्यैव सा विसृष्टिरेष उ ह्येव सर्वे देवा:' इति वाक्यस्य हि यस्माद्यः सर्वोऽपि देवभेद एतस्यैव प्रजापतेः सा विसृष्टिस्तस्मादेष एव हिरण्यगर्भः सर्वे देवाः नान्यद्देवतान्तरमस्तीति परव्याख्यानम् असत् । विशिष्टैक्यस्यानङ्गीकारात् चैतन्यैक्यस्य बाधितत्वादिति भावेन सामानाधिकरण्यव्यपदेशे निमित्तमाह- एवमिति । अनेन श्रौतो हिशब्दो हेत्वर्थ इत्युक्तं भवति । नन्वेवं सति सर्वे देवा इति प्रयोगस्यामुख्यत्वं स्यात् मुख्ये सत्यमुख्यग्रहणायोगादित्यत आह- स्वतन्त्रेष्विति ।। स्वतन्त्रेष्वेवेति सम्बन्धः । अथ यत्किञ्चेत्यादि सोम इत्यन्तं वाक्यं व्याचष्टे - स इति || श्रेयस इति देवानां श्रेयस्त्वोत्त्या अर्थाच्चतुर्मुखस्यावमत्वं सूचितम् । तदुभयं च न परस्परावधिकं किन्तु कयाचन विवक्षयेति वक्तुम् अथ यन्मर्त्यः सन्निति वाक्यं प्रवृत्तमित्यभिप्रेत्य तद्वाक्यद्वयं व्याचष्टे - सर्वेति । पुरा पूर्वं सरस्वत्या मिथुनीभावादिमर्त्यधर्मतयाऽवम इत्यनेन श्रुतौ मर्त्यः सन्नित्येतत् पूर्ववाक्यसूचितावमत्वोपपादकमिति । आयुर्मात्रतोऽधिकानित्यनेनामृतानित्येतत् श्रेयस इत्युक्तश्रेयस्त्वोपपादकमित्युक्तं भवति । अन्यथा यच्छ्रेयसो देवानसृजतेत्यनेनैव अतिसृष्टत्वस्योपपादितत्वाद् अस्य वाक्यस्य वैयर्थ्यं स्यादिति भावः । ननु परस्परावधिकत्वेनैव ब्रह्मणो देवानां चावमत्वश्रेयस्त्वे किं न स्याताम् इत्यत उक्तम् 'सर्वाधिकोऽपि योग्यत्वात्' इति । ‘योग्यताहीनान्’इति च । अतिसृष्ट्यामिति फलवाक्यं व्याचष्टे - एवमिति । यः पुरुषः एवं सृष्टिं वेद स विष्णुप्रसादतः देवलोकेऽजायत इति सम्बन्धः । देवलोके जननमात्रेण देववत् तस्य सुखमित्याह - आत्मेति ॥ यद्वा, तदयोग्यानां फलमाह– आत्मेति ।। ननु ‘ततो मनुष्या अजायन्त' इत्यस्य ततस्तस्यामुमेशादीन् देवान् सर्वान् मनूनपि जनयामासेति व्याख्यानमयुक्तम् । तथा सति ‘तद्यदिदमाहुः’इत्याद्युत्तरग्रन्थस्य देवतासृष्टिप्रतिपादकस्य वैयर्थ्यापत्तेरित्यतस्तस्य प्रयोजनमाह – भगवदिति । एतत्प्रागुक्तं सृष्टिकर्तृ त्वम् तथाचैतस्यैव सा विसृष्टिरिति पूर्वोक्तमेव सृष्टिकर्तृत्वमनूद्य तत्तस्माद्भगवदुपासनादिति तस्य भगवदुपासनानिमित्तकत्वमुच्यते नतु देवसृष्टिः पुनरुच्यत इति न वैयर्थ्यमिति भावः ।। ६ ।।
खण्डार्थः
इदमग्रे एतस्याग्रे परमात्मैवाऽसीत् । ततः पुरुषविधो ब्रह्मासीत् । स ब्रह्मा स्वरूपस्य स्वाहेयत्वं स्मरन् अहमस्मीति अग्रे पूर्वं व्याहरत् ततोऽहंनामाऽभवत् । यस्मादेवं तस्मात्तत्सृष्टोऽपि लोकः एतर्हि एतस्मिन् काले आमन्त्रितः कस्त्वमिति पृष्टोऽहमयमित्येव अग्रे प्रथममुक्त्वाऽथानन्तरम् अन्यत्पिण्डविषयं यदस्य पुरुषस्य मातापितृकृतं भवति तन्नाम प्रब्रूते कथयति स ब्रह्मा यद् यस्मात् सर्वस्मादस्मादधिकारिवर्गात् पूर्वो मुख्यः सन् सर्वान् पाप्मनः औषद् ददाह तस्मात्पुरुषः पुरुषशब्दवाच्यः । य एवमुक्तप्रकारेण पुरुषाभिधं ब्रह्माणं वेद सः तम् ओषति दहति । तं कं योऽस्मादधिकारिणः पूर्वः सन् बुभूषति भवितुमिच्छति तदभिमतं स्वयं प्राप्तुमिच्छतीति यावत् । तमिति सम्बन्धः ।। १ ।। स ब्रह्माऽबिभेद् भीतवान् एकाकित्वाद् यस्मादेवं तस्माद् अद्यतनो यः कोऽपि एकाकी निर्विवेकं बिभेति । सोऽयं ब्रह्मा ईक्षां विमर्श चक्रे ह । किमिति ? यद् यस्मादन्यत् मद्बाधकं नास्ति अतः कस्माद् बिभेमीति । तत एव विमर्शनादेव अस्य भयं वीयाय विस्पष्टं गतवत् । तत्रोपपत्तििाह - कस्मादिति । हि यस्माद् द्वितीयाद्विरोधिनः समानाद्विरोधिनोऽधिकात् स्वानधीनहीनाद्वा भयं भवति तचात्र नास्ति अतः कस्मादभेष्यत् इति ।। २ ।। स वा इत्येतत्पूर्ववद् व्याख्येयम् । स ब्रह्मा एकस्य रमणाभावाद् द्वितीयं पत्याख्यमैच्छत् । स्त्रीपुमांसौ सरस्वतीब्रह्माणौ सम्परिष्वक्तौ सहितौ यथा यावत् तद्देहद्वयं मिलितं यावत्परिमाणकं एतावान् एतद्देहवानास । स इममेव स्थूलमेवाऽत्मानं देहं द्वेधाऽपातयत् । ततः पातनाद् ब्रह्मसरस्वत्यौ पतिश्व पत्नी च पतिपत्नीशब्दवाच्यौ अभवताम् । तस्मादेतयोरेकदेहविभक्तदेहवत्त्वात् । इदम् एतद्देहद्वयनिमित्तकम् अनयोर्जायमानं स्वः सुखम् अर्धबृगलमिव एकपात्रार्धद्वयस्थितघृतवत्। अत्राभियुक्तसम्मतिमाह्– इतीति ।। तस्मादर्धाङ्गित्वादेव अयं पुरुषदेहसन्निहितः आकाशः प्रदेशः स्त्रिया पूर्यत एव । तां सरस्वतीं समभवत् । ततः सम्भोगानन्तरं मनुष्या बोधप्रधानका देवाद्याः अजायन्त || ३ || सा उ ह इयम् इति पदच्छेदः । याऽनादिकालतो ब्रह्मणः स्त्री सैवेयम् । सरस्वती इक्षां विचारं चक्रे ह | किमिति? । मा माम् आत्मनः स्वस्मादेव जनयित्वा कथं नु सम्भवति सम्भोगं करोति । हन्तेत्याश्चर्ये । तिरोसानीति तिरोभूतासानीति । एवं लौकिकस्त्रीस्वभावं दर्शयित्वा गवादिनानासृष्ट्यर्थं सा सरस्वती गौरभवत् । इतरश्चतुर्मुखः वृषभः सन् तां समभवत् । ततो गोवृषसंयोगेन गावोऽजायन्त । इतरा सरस्वती वडवाऽश्वा अभवत् । इतरः अश्ववृषः अश्वश्रेष्ठः । तां समभवदिति सम्बन्धः । इतरा गर्दभी अभवत् । इतरो गर्दभः तामेव गर्दभीमेव समभवत् । ततो वडवा श्ववृषादिसम्भोगेन एकशफम् अश्वगर्दभाद्येक- शफोपेतजातीयमजायत । बस्तः च्छागः शिष्टं पूर्ववत् । एवमेवोक्तप्रकारेण सन् ब्रह्मा आपिपीलिकाभ्यः पिपीलिकापर्यन्तं यदिदं किञ्च मृगकीटादिकं मिथुनं मिथुनसृष्टियोग्यं तत्सर्वमसृजत ॥ ४ ॥ स ब्रह्माऽवेत् व्यजानात् । किमिति? अहमेव सृष्टिः सृष्टिनामकोऽस्मि । कुतः हि यस्मादहम् इदं देवादिपिपीलिकान्तं सर्वम् असृक्षि सृष्टवान् इति । ततः सृष्टिकर्तृत्वेन प्रवृत्तिनिमित्तेन सृष्टिरस्मीति ब्रह्मणो ज्ञानात्सृष्टिः सृष्टिनामकोऽभवदिति वेदपुरुषः स्वयमाह । यो योग्यः एवमुक्तनिमित्तेन सृष्टिनामानं ब्रह्माणं वेद सोऽस्य चतुर्मुखस्य, कर्तरि षष्ठी । एतस्यां रुद्रादिपिपीलिकान्तविषयायां सृष्ट्यां भवति । साक्षाद् ब्रह्मसृष्टानामेतेषां मध्ये स्वयोग्यतानुसारेण तत्पुत्रो भवतीत्यर्थः ॥ ५ ॥
भोक्तृसृष्टिमुक्त्वा पाचकसृष्टिमाह- अथेति ॥ अथ भोक्तृसृष्ट्यनन्तरम् । अन्नमन्नादं च स्रक्ष्यामीति चिन्तयन् मुखस्य ओष्ठद्वयं हस्तद्वयं योनिं च अन्तः परस्परमभ्यमन्यत् । स मुखाद्योनेश्व हस्ताभ्यां चाग्निमसृजत । तस्माद्दाहकाग्युत्पत्तिस्थानत्वात् हस्तद्वयं मुखं चेत्येतदुभयम् अन्तरतः अलोमकम् । योनिः अन्तरतः अलोमका हीति प्रसिद्धम् । पूर्वोक्तदेवतास्रष्टृत्वं किं स्वसामर्थ्यादित्यतो भगवदुपासनाजनितप्रसादादित्याह - तद्यदिदमिति ॥
एकैकं देवमुद्दिश्य अमुं रुद्रं अमुम् इन्द्रं यजेति यत् सा विसृष्टिः विशिष्टसृष्टिः । एतस्यैव चतुर्मुखस्यैव हि यस्माद् उ तस्मादेव सर्वे देवा एष एवेति यदाहुर्वेदविदः इदं तत्तस्मात् भगवदुपासनाजनितप्रसादादिति । अथ पाचकसृष्ट्यनन्तरं यत्किञ्चेदम् आर्द्रं द्रवात्मकम् अन्नं तत् रेतसोऽसृजत | तदार्द्रं सोम एव सोमाभिमन्यमानकमेव । स्रष्टव्यान्तरशङ्कां वारयति - एतावद्वा इति ॥ इदं सृज्यं सर्वम् एतावद् वा एतावदेव । कियदित्यत आह- अन्नमिति । प्रजाश्चेत्यपि ग्राह्यम् । किमन्नं कोऽनाद इत्यत आह- सोम एवेति ॥ यद्वा, अन्नान्नादयोः सृष्टेः प्रागनुक्तत्वात्कथमेतदित्यत आह- सोम एवेति । सैषा प्रागुक्ता ब्रह्मकर्तृकदेवसृष्टिः अतिसृष्टिः । कथं? यद् यस्माद् अवमो ब्रह्मा श्रेयसः अधिकान् देवानसृजत तस्मादतिसृष्टिरिति सम्बन्धः । देवोत्तमस्य ब्रह्मणः कथमवमत्वं देवानां च कथं श्रेयस्त्वम् इत्यभिप्रेत्य शङ्कते— अथेति । ब्रह्मणो देवानां च यदवमत्वं श्रेयस्त्वं च न तत्परस्परावधिकं किन्तु कयाचन विवक्षयेति भावेनोत्तरमाह - यदिति ॥ यद् यस्मान्मर्त्यः सन् मर्त्यधर्मोपेतः सन् अमृतान् अमृता इवामृतान् बहुकालं जीवतः असृजत तस्माच्छ्रेयसो देवानसृजतेति सम्बन्धः । तथाच ब्रह्मा मर्त्यधर्मत एवाबमो नतु स्वरूपयोग्यतया । देवाश्चाऽयुर्मात्रतएवाधिका न तु स्वरूपेणेति भावः । वेत्तुः फलमाह - अतिसृष्ट्यामिति ॥ योऽधिकारी एवमुक्तप्रकारेण अतिसृष्टिं वेद सोऽस्य ब्रह्मणः एतस्याम् अतिसृष्ट्यां देवसम्बन्धिन्यां सृष्ट्यां भवति देवलोके जायत इति यावदिति ॥ इति प्राजापतिब्राह्मणम् ॥