नच सिद्धे तात्पर्याभावो वक्तुं युक्तः

[कार्यतावादनिराकरणम्]

भाष्यम्

नच सिद्धे तात्पर्याभावो वक्तुं युक्तः । अस्त्यत्र तव पिता राजेत्यादिषु सिद्ध एव तात्पर्यदर्शनात् ।

भावबोधटिप्पणी

अत्र प्राभाकरा वदन्ति । यदुक्तं तत्वमस्यादिवाक्यानां जीवेशभेदादि- प्रतिपादकत्वमिति तदयुक्तम् । समस्तस्यापि वेदस्य कार्यपरत्वेन सिद्धस्वरूपे जीवेशभेदादौ तात्पर्याभावात् । तथाहि । यज्ज्ञानात्पुरुषः प्रवर्तते तत्र हि तात्पर्यं शब्दस्य कल्प्यम् । तादृशं च कृतिसाध्यत्वे सति कृत्युद्देश्यत्वरूपं तत्र लिङादिप्रत्ययः कार्यस्वरूपमेवाभिधत्ते । प्रकृतिस्तद्विषयं पदान्तराणि च प्रकृत्यर्थं तद्विशेषणं कारकं नामधेयं नियोज्यं चाभिदधति कार्यप्रतीतावेव व्याप्रियन्ते । यद्यपि सन्निपत्योपकारकाङ्गवाक्यानि कार्यान्तर- शून्यानि । तथाऽपि प्रधानकार्यान्वितस्वार्थाभिधायकतया कार्यप्रतीतावेव तात्पर्यवन्ति । मन्त्रा अपि कार्याङ्गभूतार्थस्मारकतया तत्रैव विनियुक्ताः कार्यं एव व्यापारवन्तः | अर्थवादा अपि तत्रैव रुचिमुत्पादयन्तः उपयुज्यन्ते । वेदान्तानामपि कर्तृस्वरूपप्रतिपादकत्वेन देवताप्रतिपादकत्वेन वा कार्यपरतैवेति कृत्स्नस्यापि वेदस्य कार्ये तात्पर्यमिति । तदेतत्प्रतिषेधतिनचेति || सिद्धे कार्यातिरिक्तेऽर्थे जीवेशभेदादावित्यर्थः । कुत इत्यत आह- अस्तीति ॥ इत्यादिषु प्रयोगेषु । आदिशब्देनास्त्यत्र तव माता सुरूपोऽसीत्यादेर्ग्रहणम् । यो बाल्य एव कुतश्चित्कारणान्मातापितृभ्यां वियुक्तो मातापितृमतोऽन्यान- वलोक्य स्वात्मनोऽपि तथाभावमनुमाय का मे माता ? को मे पिता ? कीदृशौ ? कुत्र वर्तेते? इति जिज्ञासते तं प्रति कश्चिद् ब्रवीति । अत्र पाटलिपुत्रे तव पिता राजा भद्रसेनोऽस्ति । ते माता भद्रसेनस्य महिषी लीलावतीति । तत्र कार्योपदेशाभावेऽपि सिद्ध एव तात्पर्यदर्शनादित्यर्थः ।

Load More