नचान्या मुक्तिरस्तीत्यत्र किञ्चिन्मानम्

[ निर्गुणमुक्ति: प्रमाणशून्या]

भाष्यम्

नचान्या मुक्तिरस्तीत्यत्र किञ्चिन्मानम् । 'सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता' ‘एतमानन्दमयमात्मानमुपसङ्क्रम्य इमांल्लोकान् कामान्नी कामरूप्यनुसञ्चरन्' ‘ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्करीषु' 'परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति होवाच' ' स तत्र पर्येति जक्षन् क्रीडन् रममाणः ' ' स य एवंविदेवं पश्यन्नेवं मन्वानस्तस्य सर्वेषु लोकेषु कामचारो भवति' ' स एकधा भवति त्रिधा भवति पञ्चधा सप्तधा पुनश्चैकादश स्मृतः' 'नहास्य कर्म क्षीयतेऽस्माद् ह्येवात्मनो यद् यत् कामयते तत् तत् सृजते ' 'यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति । एवं मुनेर्विजानत आत्मा भवति गौतम || ' ' तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ' ' परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । यज्ज्ञात्वा मुनयस्सर्वे परां सिद्धिमितो गताः ' ' इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ' ' न वर्तते यत्र रजस्तमस्तयो सत्वं च मिश्रं नच कालविक्रमः । न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः । श्यामावदाताः शतपत्रलोचना: पिशङ्गवस्त्राः सुरुचः सुपेशसः ।।' इत्यादिश्रुतिस्मृतीतिहासपुराणेषु तेषां निर्गुणमुक्तिविषयत्वेन प्रसिद्धेष्वेव स्थलेषु मुक्त्यनन्तरं भोगोक्तेश्च ।

भावबोधटिप्पणी

ननुतदोकोग्रज्वलनम्इति सूत्रस्य मुक्तविषयत्वेऽपि सगुणमुक्तविषयत्वमेव न निर्गुणमुक्तविषयत्वं हृदयाग्रज्वलनप्रकाशितमार्गेणोत्क्रान्तस्य अर्चिरादिना तत्प्रथितेरित्यादिना अर्चिरादिमार्गोत्त्या तत्र तेषां भोगप्रतीतेः । नच निर्गुणमुक्तौ भोगोऽस्ति तथाच कथमेतत्सूत्रबलादेतत्प्रकरणस्य निर्गुणमुक्तिपरत्वसिद्धिरिति चेन्न । स्यादेतत् यदि भोगरहिता निर्गुणमुक्तिर्नाम काचित्स्यात् नच साऽस्ति तत्र प्रमाणाभावादित्याह - नचेति । न केवलं प्रमाणाभावादन्या मुक्तिर्नास्ति अपितु श्रुतिस्मृतीतिहासपुराणेषु निर्गुणमुक्तिविषयत्वेन प्रसिद्धेष्वेव स्थलेषु तेषां मुक्तानां मुक्त्यनन्तरभोगोक्तेश्चेत्याह- सोऽश्रुत इति ॥ तेषां निर्णये मुक्तिविषयत्वेनेति पाठे तेषां श्रुतिस्मृतीतिहासपुराणवाक्यानां निर्णय कृत इत्यर्थः । परममुक्तिविषयत्वेनेत्यर्थः । नच 'सोऽश्रुत' इति वाक्यं गौणमुक्तिविषयं ब्रह्मविदाप्नोति परमित्युक्तौ किं तद् ब्रह्म किंच तद्वेदनं कीदृशी च तत्प्राप्तिरिति शङ्कात्रयोत्पत्तौ आद्यशङ्काद्वये 'सत्यं ज्ञानम्' इति 'यो वेद' इति च वाक्यद्वयेन परिहृते तृतीयशङ्कापरिहारार्थं ह्येतदुच्यते । नच गौणमुक्तौ परब्रह्मप्राप्तिरस्तीति भावः । नचानन्दमयशब्दो न परब्रह्मपरः किन्तु कोशपर इति वाच्यम् । तथात्वे उपसङ्क्रम्येति तत्प्राप्तेः फलत्वेन कथनायोगात् । नहि कोशप्राप्तिः फलं नचानन्दमयमात्मानमतिक्रम्येत्यर्थो वाच्यः । तथात्वे उपशब्दविरोधात् । त्वः कश्चिद् ब्रह्मा ऋचां पोषं पोषणं पुपुष्वान्कुर्वन्नास्ते त्वः कश्चिद् ब्रह्मा शक्करीषु ऋक्षु आरूढं गायत्रं साम गायतीति मुक्तस्य ब्रह्मणः ऋक्पोषणकर्तृत्वादि- भोगः प्रतीयते अनेकब्रह्मप्रतीतेरिदं परममुक्तिविषयम् । नहि सगुणमुक्तावनेके ब्रह्माण: सन्ति । स एकधेत्यादिनोक्तं बहुरूपत्वमपि भोग एव । विजानतां मुनीनामात्मा स्वामी हिरण्यगर्भोऽपि परमात्मानं प्राप्य तादृगेव भवतीति परमात्म- साम्यप्राप्तिरूपो भोग उच्यते । परमं साम्यं स्वरूपानन्दाविर्भावरूपं मम साधर्म्यमागता इत्यस्य परममुक्तिपरत्वसिद्धयर्थं पूर्वोत्तरवाक्योदाहरणम् ।