अक्षपादकणादौ च साङ्ख्ययोगार्हतास्तथा

[सदागमदुरागमविवेकः]

भाष्यम्

अक्षपादकणादौ च साङ्ख्ययोगार्हतास्तथा ।

शिवशक्तिमहायानलोकायतपुरःसराः ॥

गाणपत्याश्च सौराश्च सर्वे प्रोक्ता दुरागमाः ।

ऋग्यजुःसामाथर्वाश्चेतिहासपुराणकौ

स्वागमा इति सम्प्रोक्ता मीमांसा धर्म एव च ॥ इति पाद्मे ॥

पञ्चरात्रं भारतं च मूलरामायणं तथा ।

इतिहास इति प्रोक्तो ब्राह्माद्यं च पुराणकम् ॥ इति प्रकाशिकायाम् ॥

वेदाश्चैवेतिहासाच पुराणं भागवतं तथा ।

मूलप्रमाणमुद्दिष्टं मीमांसा च तथोत्तरा ॥

एतेषामविरोधे तु मानमन्यदुदीरितम् ।

एतेषां तु विरुद्धं यदप्रमाणं विदो विदुः ॥ इति व्यासस्मृतौ ॥

विष्णोः सर्वोत्तमत्वस्य ज्ञानार्थं शास्त्रमिष्यते ।

अतस्तत्साधकं शास्त्रं दुःशास्त्रं तद्विरोधि यत् ॥ इति ब्रह्माण्डे ॥

विष्णोः सर्वोत्तमत्वं च तद्भक्त्या मोक्ष एव च ।

शास्त्रार्थ इति निर्दिष्टः सर्वशास्त्रार्थनिर्णयात् ॥ इति पाझे ॥

भावबोधटिप्पणी

वेदाद्यागमानां तु स्वागमत्वेन प्रामाण्यात्तन्मूलकन्यायस्यैव प्रमाणत्वादिति भावेनाऽह - अक्षपादेति || अक्षपादादिपदेन तत्प्रणीतं शास्त्रं ग्राह्यम् । धर्मो धर्मशास्त्रम् । धर्मश्चेत्यत एव स्वागमा इत्यर्थः । कौ इतिहासपुराणकावित्यत आहपञ्चरात्रमिति । वेदादीनामेव सदागमत्वेऽन्येषां दुरागमत्वे च प्रमाणान्तरमाहवेदाश्चेति ।। भागवतं भगवद्विषयं पुराणमित्येत एव मूलप्रमाणं मुख्यप्रमाणमित्यर्थः । उत्तरा ब्राह्मी मीमांसा च । तथा मूलप्रमाणमित्यर्थः । तर्हि मन्वादिस्मृतीनामप्रामाण्यं स्यादित्यत आह- एतेषामिति || वेदादीनां सदागमत्वमक्षपादाद्यागमानां दुरागमत्वं च युक्त्या प्रतिपादयत्प्रमाणं पठति- विष्णोरिति ।। वेदादिकं विष्णोः सर्वोत्तमत्वसाधकम् अक्षपादादिशास्त्रं तु तद्विरोधीति पक्षधर्मता च वक्तव्या । अत्रैव प्रमाणान्तरमाह - विष्णोरिति । एवञ्चाप्राकृतशरीरेणैवेश्वरेण वेदोपदेशायुपपत्तौ नाप्रामाणिकभूतावेशन्यायकल्पनं युक्तमिति भावः ।।