स वा एष महानजं आत्मा योऽयं विज्ञानमयः ..

[ यज्ञाध्ययनादीनां उद्देशः सन्न्यासः ]

उपनिषत्

स वा एष महानजं आत्मा योऽयं विज्ञानमयः प्राणेषु य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयानेष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदाय तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेनैतमेव विदित्वा मुनिर्भवत्येतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्त्येतद्ध स्म वैतत् पूर्वे विद्वांसः प्रजां न कामयन्ते किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोक इति ते हस्म पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति या ह्येव पुत्रैषणा सा वित्तैषणा या विषणा सा लोकैषणोभे ह्येते एषणे एव भवतः स एष नेति नेत्यात्माऽगृह्यो नहि गृह्यतेऽशीर्यो नहि शीर्यतेऽसङ्गो नहि सज्जतेऽसितो न व्यथते न रिष्यत्येतमु हैवैते न तरत इत्यतः पापमकरवमित्यतः कल्याणमकरवमित्युभे उ हैवैष एते तरति नैनं कृताकृते ततः ।। २२ ।।

भाष्यम्

सर्वमस्य वशे यस्माद् हरिः सर्ववशी ततः ।

सर्वस्य ब्रह्मरुद्रादेरन ईशान एव च ॥

गुणाधिकः पालकश्चेत्यतोऽधिपतिरीरितः ॥ इति च ॥

भूत एवाधिपतिर्नास्याधिपत्यमादिमत् ।

नित्यबोधात्मकत्वाद् यो मुनिः प्रोक्तो जनार्दनः ।

तं विद्वांश्च मुनिर्नाम बोधस्तस्याप्यमुख्यतः ॥

यं विदित्वा विमुक्ताश्चायुक्तकामविवर्जिताः ।

उत्पत्तिलयहीनाश्च नित्यानन्दैकभोगिनः ।

आनन्दभिक्षां विष्णूत्थां चरन्त्यज्ञानवर्जिताः ।

स एष मोक्षदो विष्णुर्यत् कल्याणं कृतं मया ।

पापं कृतं मयेत्येतन्न कदाचित् करिष्यति ।

कृते मया पुण्यपापे इति यच्चेतनात्मनाम् ।

तत्सर्वमत एवोक्तं विष्णोः सर्वेश्वरेश्वरात् ।

तीर्णो हि वर्तते नित्यं पुण्यपापे जनार्दनः ।

नैनं कदाचित् तपतः पुण्यपापे जनार्दनम् ॥ इति च ॥

भावबोधटिप्पणी

सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिरित्येतेषां पुनरुक्तिपरिहारायार्थभेदमाहसर्वमिति । ईशानपदान्तर्गतानशब्दार्थमाह- ब्रह्मरुद्रादेरिति ॥ अनश्चेष्टक इत्यर्थः । अधीत्यस्यार्थो गुणाधिक इति पतिरित्यस्य पालक इति । सर्वस्याधिपतिरित्यनेन गतार्थतापरिहाराय भूताधिपतिशब्दं व्याचष्टे – भूत एवेति । तात्पर्यमाहनास्येति ॥ ननु ब्रह्मापरोक्षज्ञानात्पूर्वमेव मननशीलत्वस्य सिद्धत्वात्तं विदित्वा मुनिर्भवतीति कथमुच्यत इत्यत आह- नित्य इति ॥ तत्र हेतुमाह - बोध इति ॥ ते ह स्म पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायेति वाक्यं व्याचष्टे - यं विदित्वेति || अथ भिक्षाच चरन्तीति भिक्षाचरणोत्त्या प्राप्तं दुःखं निवारयति - उत्पत्तीति । तर्हि कथं तेषां भिक्षाचरणमित्यत आह- आनन्दभिक्षामिति । एतमु हैवैतेन तरतः पापमकरवं कल्याणमकरवं इत्यंशं व्याचष्टे - स एषमिति || यदि विष्णुरेतन करोति तर्हि कः करोति जीव इति चेत् सोऽपि किं स्वातन्त्र्येण तथा करोतीति जिज्ञासायां प्राप्तमतः पापमकरवमित्यतः कल्याणमकरवमिति वाक्यं व्याचष्टे - कृते मयेति । श्रुतावु हैवेत्यस्यात्रान्वयः। उशब्दोऽवधारणार्थः I उशब्दैक्शब्दयोरतःशब्दद्वयेनान्वय इति भावेनोक्तम् ॥ अ Car || प्रसिद्ध्यर्थकस्य हेत्यस्यार्थ उक्तमिति । उभे उ हैवैष एते तरतीति वाक्यं ब्रह्मज्ञानिपरमिति निरासाय व्याचष्टे - तीर्ण इति ।। नैनं कृताकृते तपत इति वाक्यं व्याचष्टेनैनमिति ॥ २२ ॥