अथ वंशः पौतिमाषीपुत्रः कात्यायनीपुत्रात्..

बृहदारण्यकोपनिषद्भाष्यम्

पञ्चमब्राह्मणम्

अथ वंशः पौतिमाषीपुत्रः कात्यायनीपुत्रात्

कात्यायनीपुत्रो गौतमीपुत्रात्

गौतमीपुत्रो भारद्वाजीपुत्रात्

भारद्वाजीपुत्रः पाराशरीपुत्रात्

पाराशरीपुत्र औपस्वस्तिपुत्रात्

औपस्वस्तिपुत्रः पाराशरीपुत्रात्

पाराशरीपुत्रः कात्यायनीपुत्रात्

कात्यायनीपुत्रः काण्वीपुत्राच्च कापीपुत्राच्च कापीपुत्रः ॥ १ ॥

आत्रेयीपुत्रात् आत्रेयीपुत्रो

गौतमीपुत्रात् गौतमीपुत्रः

भारद्वाजीपुत्राद् भारद्वाजीपुत्रः

पाराशरीपुत्रात् पाराशरीपुत्रः

वात्सीपुत्रात् वात्सीपुत्रः

पाराशरीपुत्रात् पाराशरीपुत्रो बर्कारुणीपुत्रात्

बार्कारुणीपुत्रो आर्तभागीपुत्रात्

आर्तभागीपुत्रः शौंगीपुत्रात् शौंगीपुत्रः

सांकृतीपुत्रात् सांकृतीपुत्र

आलम्बायनीपुत्राद् आलम्बायनीपुत्रः

आलम्बीपुत्राद् आलम्बीपुत्रो

जायन्तीपुत्रात् जायन्तीपुत्रो

मांडूकायनीपुत्रात् माण्डूकायनीपुत्रः

माण्डूकीपुत्रान्माण्डूकीपुत्रः शांडिलीपुत्राच्छांडिलीपुत्रो राथीतरीपुत्राद्

राथीतरीपुत्रो भालुकीपुत्राद् भालुकीपुत्रः

क्रौञ्चिकीपुत्राभ्यां क्रौञ्चिकीपुत्रौ

वेदभृतीपुत्रात् वेदभृतीपुत्रः

कार्शिकेयीपुत्रात् कार्शिकेयीपुत्रः

प्राचीनयोगीपुत्रात् प्राचीनयोगीपुत्रः

सांजीवीपुत्रात् सांजीवीपुत्रः

प्राश्नीपुत्रात् आसुरिवासिनः प्राश्नीपुत्रा

आसुरायणाद् असुरायणः

आसुरेरासुरिः ॥ २ ॥

याज्ञवल्क्याद् याज्ञवल्क्यः

उद्दालकाद् उद्दालकः

अरुणात् अरुणः

उपवेशेः उपवेशिः

कुश्रेः कुश्रिः

वाजस्रवसो वाजश्रवा

जिह्वावतो बाध्योगात् जिह्वावान् बाध्योगो

असितात् वार्षगणाद् असितो वार्षगणः

हरितात् कश्यापात् हरितः कश्यपः

शिल्पात् कश्यपात् शिल्पः कश्यपः

कश्यपात् नैध्रुवेः कश्यपो नैध्रुविः

वाचो वागम्भ्रिण्या अम्भ्रिण्यादादित्यादादित्यानीमानि शुक्लानि यजूंषि वाजसनेयेन याज्ञवल्क्येनाख्यायन्ते ॥ ३ ॥

समानमा सांजीवीपुत्रात्

सांजीवीपुत्रो माण्डूकायनेः

माण्डूकायनिः मांडव्यात्

मांडव्यः कौत्सात्

कौत्सो माहिक्लेः

माहिक्लिः वामकक्षायणात्

वामकक्षायणः शाण्डिल्यात्

शाण्डिल्यो वात्स्यात्

वात्स्यः कुश्रेः

कुश्रिर्यज्ञवर्चसो

राजस्तम्बायनात् यज्ञवर्चा राजस्तम्बायनः

तुरात् कावषेयात् तुरः कावषेयः

प्रजापतेः प्रजापतिः ब्रह्मणो

ब्रह्म स्वयम्भुब्रह्मणे नमः ॥ ४ ॥

॥ इति बृहदारण्यकोपनिषदि पञ्चमं ब्राह्मणम् ॥

॥ इति बृहदारण्यकोपनिषदि अष्टमोऽध्यायः समाप्तः ॥

॥ इति बृहदारण्यकोपनिषत् समाप्ता ॥

॥ इति बृहद्भाष्ये अष्टमाध्याये वंशब्राह्मणम् ॥ ५ ॥

॥ इति श्रीमदानन्दतीर्थ भगवत्पादाचार्यप्रणीतं बृहदारण्यकोपनिषद्भाष्यं समाप्तम् ॥

पञ्चाग्निविद्यया चैव तथैव प्राणविद्यया । प्रजातिकर्मणा चैव तथा ज्ञानप्रदानतः ॥ आचार्यवंशविज्ञानाद्यः पूज्यः पुरुषोत्तमः । सर्वान्तर्यामिको नित्यो नमस्तस्मै परात्मने ॥ इति सद्भावे ।

नित्यानन्दमनौपमं परमजं सर्वत्रगं सुस्थिरं सर्वज्ञं प्रतिबोधमात्रममलं पूर्णं गुणैरच्युतैः । विश्वोत्पत्तिलयस्थितिप्रमितिसन्मोक्षे परं कारणं प्रेष्ठं मे सततं प्रियात् प्रियतमं नित्यं सदोपास्महे ॥

यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं बट् तद्दर्शनमित्थमेव निहितं देवस्य भर्गो महत् । वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुर्मध्वो यत्तु तृतीयकं कृतमिदं भाष्यं हि तेन प्रभौ ॥

हनुशब्दो ज्ञानवाची हनुमान् मतिशब्दितः । रामस्य स्वृतरूपस्य वाचस्तेनानयन्त हि ॥ भृतमो भीम इत्युक्तो वाचो मा मातरः स्मृतः । ऋगाद्या इतिहासश्च पुराणं पञ्चरात्रकम् ॥ प्रोक्ताः सप्तशिवास्तत्र शयो भीमस्ततः स्मृताः । मध्वित्यानन्द उद्दिष्टो वेति तीर्थमुदाहृतम् ॥ मध्व आनन्दतीर्थः स्यात् तृतीया मारुतीतनुः । इति सूक्तगतं रूपत्रयमेतन्महात्मनः ॥ यो वेद वेदवित् स स्यात् तत्त्ववित् तत्प्रसादतः ॥ इति च

साधको रामवाक्यानां तत्समीपगतः सदा । हनुमान् प्रथमो ज्ञेयो भीमस्तु बहुभुक् पितोः ॥ पृतनाक्षयकारी च द्वितीयस्तु तृतीयकः । पूर्णप्रज्ञस्तथाऽनन्दतीर्थनामा प्रकीर्तितः ॥ दशेति सर्वमुद्दिष्टं सर्वं पूर्णमिहोच्यते । प्रज्ञा प्रमतिरुद्दिष्टा पूर्णप्रज्ञस्ततः स्मृतः ॥ आसमन्तात् पतित्वे तु गूढं कलियुगे हरिम् । असत्यमप्रतिष्ठं तु जगदेतदनीश्वरम् ॥ वदद्भिर्गूहितं सन्तं तृतीयोऽसुर्मथायति । येन विष्णोर्हि वर्पाख्यान् गुणानज्ञासिषुः परान् ॥ ईशानाशः सूरयश्च निगूढाभिर्गुणोक्तिभिः । त्रेतायां द्वापरे चैव कलौ चैते क्रमात् त्रयः ॥ येषां हि परमो विष्णुर्नेता सर्वेश्वरेश्वरः । स्वयं तु ब्रह्मसंज्ञोऽसौ परस्मै ब्रह्मणे नमः॥ इति च ॥

पूर्णानन्दगुणोदारधाम्ने नित्याय वेधसे । अमन्दानन्दसांद्राय प्रेयसे विष्णवे नमः ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्बृहदारण्यकोपनिषद्भाष्ये अष्टमोऽध्यायः ॥