सोऽकामयत मेध्यं म इदं स्यादात्मान्व्यनेन स्यामिति
[अश्वमेधनाम्नः अर्थविस्तृतिः ]
उपनिषत्
सोऽकामयत मेध्यं म इदं स्यादात्मान्व्यनेन स्यामिति । ततोऽश्वः समभवत् यदश्वत् तन्मेध्यमभूदिति तदेवाश्वमेधस्याश्वमेधत्वम् । एष ह वा अश्वमेधं वेद य एनमेवं वेद॥ ७ ॥ तमनवरुध्यैवामन्यत । तं संवत्सरस्य परस्तादात्मन आलभत । पशून् देवताभ्यः प्रत्यौहत् । तस्मात् सर्वदैवत्यं प्रोक्षितं प्राजात्पत्यमालभन्त । एष ह वा अश्वमेधो य एष तपति तस्य संवत्सर आत्माऽयमग्निरर्कस्तस्येमे लोका आत्मानस्तावेतावर्काश्वमेधौ । सो पुनरेकैव देवता भवति मृत्युरेव अप पुनर्मृत्युं जयति नैनं मृत्युराप्नोति मृत्युरस्यात्मा भवत्येतासां देवतानामेको भवति ॥ ८ ॥
भाष्यम्
पुनस्तस्मिन् प्रवेशाय शवरूपस्य मेध्यताम् ।
ऐच्छत्तेनैव देही स्यामिति तस्मिन् विवेश च ॥
तस्मिन् प्रवेश्य स ब्रह्मा द्वितीयं वपुरग्रहीत् ।
दृष्ट्वोपायं महायज्ञेऽथाश्वाकारं पितामहः ।।
श्वैतीभावात्परं यस्मात्तज्जज्ञेऽतोऽश्वनामकम् ।
यदर्थं श्वैततामाप तद्देहो मेध्यतामपि ॥
अश्वमेधः स यज्ञोऽभून्नाम्ना तेन तदा कृतः ।
श्वैतीभावं गते देहे पुनर्मेध्ये यतः स्थितः ॥
अतोऽश्वमेधनामाऽसौ ब्रह्मा शुभचतुर्मुखः ।
अश्वो भूत्वा यतो मेध्यः सोऽभवत्तेन वा स्मृतः ॥
मेध यज्ञः समुद्दिष्टो याज्ञीयं मेध्यमुच्यते ।
शुद्धं मेध्यमथापि स्यादेवंविद्योऽश्वमेधवित् ॥
भावबोधटिप्पणी
अथ भाष्यार्थः
'सोऽकामयत मेध्यं म इदं स्यादात्मन्व्यनेन स्याम्' इत्येतद् व्याचष्टे- पुनरिति ॥ तस्मिन् विवेश चेति शेषपूरणम् । ‘ततोऽश्वः समभवत्' इत्येतद् व्याचष्टे - तस्मिन्निति । अनेन तत इत्येतत्प्रवेशानन्तरमिति व्याख्यातम् । स ब्रह्मा तस्मिन् प्राणान् प्रवेश्य प्रविश्य तस्मिन् प्राणान् प्रवेश्य वा । प्रविश्येति क्वचित्पाठः । महायज्ञे उपायं दृष्ट्वा अथ दर्शनानन्तरम् अश्वाकारं द्वितीयं वपुरग्रहीत् इति योजना । ' ततोऽश्वः समभवत्' इति वाक्यं यदश्वदित्येतत्सम्बद्धत्वेनापि व्याचष्टे - श्वैतीभावादिति || ' यदश्वत् तन्मेध्यमभूत्’ इति तदेवाश्वमेधस्याश्वमेधत्वं इति वाक्यं व्याचष्टे - यदर्थमिति ॥ तद्देहः चतुर्मुखदेहः यदर्थं यज्ञाद्यर्थं श्वेततां मेध्यतामप्याप तेन शरीरेण तदा कृतः स यज्ञो नाम्नाऽश्वमेधोऽभूदित्यन्वयः । एवमश्वमेधशब्दस्य क्रतुपरत्वमभ्युपगम्य व्याख्यातम् । इदानीं यज्ञकर्तृचतुर्मुखपरत्वमभ्युपेत्यापि तदेव वाक्यं प्रकारान्तरेण व्याचष्टे– श्वैतीभावमिति । शुभानि चत्वारि मुखानि यस्यासौ शुभचतुर्मुखः अनेनास्य कर्तृरूपत्वं सूचयति । ब्रह्मेति विशेष्यस्य पृथगुक्तेः । अश्वमेधशब्दस्य यागीयाश्वरूपचतुर्मुखपरत्वमभ्युपेत्यापि तदेव वाक्यं व्याचष्टे - अश्व इति ।। स्मृतः अश्वमेधनामा इत्यन्वयः । मेध्यः सोऽभवदित्युक्तमेध्यशब्दार्थमाह- मेध इति ।। ननु 'मेध्यं म इदं स्यात्' इत्यादौ मेध्यशब्दस्य शुद्धे प्रयोगात् कथमेतदित्यत आह— शुद्धमिति ॥ अथेति पक्षान्तरे शुद्धमपीत्यन्वयः । अनेन शवरूपस्य मेध्यतामिति मेध्यतामपीति पुनर्मेध्ये इत्येतदपि व्याख्यातम् । 'एष ह वा अश्वमेधं वेद य एनमेवं वेद' इति वाक्यं व्याचष्टे - एवंविदिति ॥एवं यदर्थमित्याद्युक्तप्रकारेण य इत्यनन्तरमेष इति शेषः । अश्वमेधविद- श्वमेधशब्दार्थवित् ॥