अथो अयं वा आत्मा सर्वेषां भूतानां लोकः स यज्जुहोति..
[सर्वजीवानाम् आश्रयः श्रीहरिः ]
उपनिषत्
अथो अयं वा आत्मा सर्वेषां भूतानां लोकः स यज्जुहोति यद्यजते तेन देवानां लोकोऽथ यदनुब्रूते तेनर्षिणामथ यत्पितृभ्यो निमृणाति यत्प्रजामिच्छते तेन पितॄणामथ यन्मनुष्यान् वासयते यदेभ्योऽशनं ददाति तेन मनुष्याणामथ यत्पशुभ्यस्तृणोदकं विन्दति तेन पशूनां यदस्य गृहेषु श्वापदा वयांस्यापिपीलिकाभ्य उपजीवन्ति तेन तेषां लोको यथा ह वै स्वाय लोकायारिष्टिमिच्छेदेवं हैवं विदे सर्वाणि भूतान्यरिष्टिमिच्छन्ति तद्वा एतद्विदितं मीमांसितम् ॥ १० ॥
भाष्यम्
योऽयं सर्वेषु जीवेषु नियामकतया स्थितः ।
स विष्णुराप्तकामत्वादात्मेत्येवोच्यते बुधैः ॥
स लोकः सर्वभूतानां सर्वजीवेषु संस्थितः ।
वैश्वदेवादिकान् होमान् यज्ञांश्च कुरुते विभुः ।।
कारुण्यात्सर्वदेवेषु तेन देवाश्रयो हरिः ।
ऋषीणामाश्रयश्चापि स्वाध्यायेष्वृषिसंस्मृतेः ॥
स हि जीवेषु संविष्टः पिण्डं पुत्रजनिं तथा ।
यत्करोति पितॄणां च संश्रयस्तत एव सः ॥
तृष्णोदकादिदानेन पशूनामन्नतो नृणाम् ।
उपकाराच्च सर्वेषां प्राणिनामाश्रयो हरिः ॥
यज्ञादीन् देवतादीनामन्नत्वेन पुरैव यत् ।
ब्रह्माद्यैरर्थितः प्रादात्क्षीराब्धेस्तट उत्तरे ॥
अतश्च सर्वलोकानामाश्रयो विष्णुरेव सः ।
एवं यो वेत्ति विष्णोस्तु सर्वाधारत्वमुत्तमम् ॥
सर्वाण्यपि हि भूतानि तस्येच्छन्त्यविनाशिताम् ।
स्वाश्रयस्य यथा नित्यमनाशं प्रार्थयन्ति हि ॥
राजादेरपि तान्येवमुत्तमाश्रयवेदिनः ।
तदेतद् वासुदेवस्य सर्वाधारत्वमुत्तमम् ॥
विदितं सर्ववेदैश्व मीमांसाभिश्च निश्चितम् ॥ इति भविष्यत्पर्वणि
भावबोधटिप्पणी
'आत्मानमेव लोकम्' इत्युक्तं भगवतः सर्वाश्रयत्वं प्रपञ्चयति - अथो इति || तत्र 'अथो अयं वा आत्मा सर्वेषां भूतानां लोकः' इति वाक्यम् अयं प्रकृतो गृही कर्माधिकृतोऽविद्वानात्मा शरीरेन्द्रियविशिष्टः । सर्वेषां देवादीनां भूतानां लोको भोग्य इति व्याख्यांतम् । तदसत् । ‘आत्मानमेव लोकमुपासीत' इत्युपास्यत्वेन प्रकृतस्यैवाऽत्मनोऽयं वा आत्मेति परामर्शात् । नहि कर्माधिकृतो गृहस्थः पूर्वमात्मशब्देन प्रकृतः येन तत्परामर्शः स्यादिति भावेन खण्डं प्रमाणेन व्याचक्षाणः तावदयमात्मेत्यस्यार्थमाह- योऽयमिति ॥ ' सर्वेषां भूतानां लोकः' इत्येतद् व्याचष्टे - स इति । सर्वभूतानां देवादीनाम् । ‘स यज्जुहोति यद् यजते तेन देवानां लोकः' इति वाक्यं व्याचष्टे-- वैश्वेति ॥ ननु किमर्थमेतत्करणं देवताप्रीतिसम्पादनार्थमिति चेन्न । आप्तकामस्य तेनापि प्रयोजनाभावादित्यत उक्तम्- कारुण्यादिति ॥ ' अथ यदनुब्रूते तेनर्षीणाम्' इति वाक्यम् अध्ययनकरणमात्रेण कथम् ऋषीणामाश्रय इति शङ्कां परिहरन् व्याचष्टे - ऋषीणामिति । चशब्दः पूर्वत्र सम्बद्ध्यते- ऋषिसंस्मृतेरिति । 'यो ह वा अविदितार्षच्छन्दो दैवतब्रह्मणेन' इति श्रुतेः ऋषिपरिज्ञानाभावे अध्ययनस्य व्यर्थत्वादिति भावः । श्रुतौ पूर्ववाक्यात्स इत्येतदत्रानुवर्तत इति भावेन इत्यनुवादेन जीवेषु सन्निविष्ट इति तत्परामृष्टं दर्शितम् । ‘अथ यत्पि॒ितृभ्यो निमृणाति यत्प्रजामिच्छते तेन पितॄणाम्' इति
वाक्यं व्याचष्टे– पिण्डमिति । 'अथ यत्पशुभ्यस्तृणोदकं विन्दति तेन पशूनाम्' इति वाक्यं व्याचष्टे - तृणेति ॥ 'यदेभ्योऽशनं ददाति तेन मनुष्याणाम्' इति वाक्यं व्याचष्टे - अन्नत इति । उभयत्रापि आश्रयो हरिरिति बक्ष्यमाणेन सम्बन्धः । यदस्य गृहेष्विति वाक्यं व्याचष्टे - उपकाराच्चेति ॥ 'अधो अयं वा आत्मा' इत्यादिजीवान्तर्गतो भगवान् यज्ञादिकर्तृत्वाद्देवाद्याश्रय इत्यर्थत्वेन व्याख्याय श्वेतद्वीपगतमूलरूपेणापि यज्ञादिकर्तृत्वाद्देवाद्याश्रय इत्यर्थत्वेनापि व्याकरोति- यज्ञादीनिति ॥ सर्वलोकानां सर्वभूतानाम् । विष्णुरेव मूलरूप्येवेत्यर्थः । 'हैवंविदे सर्वाणि भूतान्यरिष्टिमिच्छन्ति' इति वाक्यं व्याचष्टे - एवमिति । 'यथा ह वै स्वाय लोकायारिष्टिमिच्छेदेवम्’इति वाक्यं व्याचष्टे – स्वाश्रयस्येति । स्वाश्रयस्य राजादेरिति सम्बन्धः । तानि राजाद्याश्रितानि । एवमुत्तमस्य हरेः आश्रयत्ववेदिनः तस्याविनाशितामिच्छन्तीति पूर्वेण सम्बन्ध: । ' तद्वा एतद् विदितं मीमांसितम्’इति वाक्यं व्याचष्टे– तदेतदिति ॥