द्वे वा ब्रह्मणो रूपे मूर्तं चैवामूर्तं च ..
तदेतन्मूर्तं यदन्यद् वायोश्चान्तरिक्षाच्चैतन्मर्त्यमेतत्..
अथामूर्तं वायुश्चान्तरिक्षं चैतदमृतमेतद् यदेतत् ..
अथाध्यात्मम् इदमेव मूर्तं यदन्यत् प्राणाच्च ..
एतस्य हैतस्य पुरुषस्य रूपं यथा महारजनं वासो यथा ..
मूर्तामूर्तमेवाध्यात्मं प्राणा इत्युच्यन्ते
सर्वज्ञौ च ततौ चैव नियतौ हरिणैव तौ
द्वे वा ब्रह्मणो रूपे मूर्तं चैवामूर्तं च ..
अथ मूर्तामूर्तब्रह्मणम्
[भगवान् मूर्तामूर्तविलक्षण: ]
उपनिषत्
द्वे वा ब्रह्मणो रूपे मूर्तं चैवामूर्तं च मर्त्यं चामृतं च स्थितं च यच्च सच्च त्यश्च ॥ १ ॥
भाष्यम्
विशरणावसादनयुक्तं सत् । ततं सर्वज्ञं च त्यम् ।
भावबोधटिप्पणी
पूर्वोक्तविद्यायां सस्थूणं सदामं शिशुं वेदेत्युक्तत्या साम्यभ्रमनिरासाय स्थूणा- शब्दोक्तभगवतो मूर्तीमूर्तवैलक्षण्योक्त्याऽमूर्तसारत्वोक्त्या च अनशिशुशब्दोक्त- रमावायूत्तमत्वमाह अनेन ब्राह्मणेन । नन्वमूर्तस्यापि सत्वात्कथमेतत्सदिति मूर्तस्यैव सत्त्वमुच्यत इत्यतस्तस्यार्थमाह— विशरणेति ।। विशरणं शैथिल्यं अव्याप्तत्वमिति यावत् । अवसादनं प्रलयादौ ज्ञानविपरिलोपः । सदेः क्विबन्तस्य रूपमेतत् । वाय्वन्तरिक्षयोश्च नैतदस्तीति भावः । अप्रतीतेस्त्त्यमित्येतद् व्याचष्टे - ततमिति ।। ततत्वात् तत् । ज्ञानरूपत्वात् यम् । तनु विस्तार इत्यस्मात् डप्रत्यये निर्वचनत्वेन प्रत्ययाकारलोपे त् । गत्यर्थाद् या प्रापण इत्यस्मात् कप्रत्यये 'आतो लोप' इत्याकारलोपे यम् । त् च तत् य् च त्यमिति रूपसिद्धिरिति भावः ॥ १ ॥