तद्वैतदेतदेव तदास सत्यमेव स..
[वासुदेवः सत्यः कुतः?]
उपनिषत्
तद्वैतदेतदेव तदास सत्यमेव स यो हैतं महद्यक्षं प्रथमजं
वेद सत्यं ब्रह्मेति जयतीमान् लोकान् जित इन्वसावसत्
य एवमेतं महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति सत्यं ह्येव ब्रह्म ॥
इति चतुर्थं ब्राह्मणम्
भाष्यम्
ततत्वादेकरूपत्वात्तत्परं ब्रह्म कीर्तितम् ।
तदेव तादृशं प्रोक्तं नैवान्यत्तादृशं क्वचित् ॥
तदेतत्सत्यमेवासीद्वासुदेवाख्यमव्ययम्॥ इति ब्रह्मतर्के ॥
तदेव हि तत् । तन्नारायणाख्यं परं ब्रह्मैतदेव सत्यं वासुदेवाख्यमासीदित्यर्थः ।
स्वस्मात्स्वयं समुत्पन्नो वासुदेवात्मना प्रभुः ।
सत्यं ब्रह्मेति यो वेद महायाज्यं तु तं परम् ॥
प्राप्नोत्येव हि तल्लोकाञ्जीवन्नप्युत्तमो भवेत् ॥ इति प्रध्याने ॥
स्वभागहरणाद्दानात्फलानां यापनान्नृणाम्।
हृदयं भगवान् विष्णुः सत्यं तद्गुणरूपतः ॥ इति सत्तत्त्वे ॥
इति चतुर्थं ब्राह्मणम्
भावबोधटिप्पणी
प्रकृतभगवतो वासुदेवाख्यावतारनिरूपणेन एतत्सत्यमित्युक्तं विवृणोति- तद्वैतदिति ब्राह्मणेन ॥ तद्वयाचष्टे - ततत्वादिति ॥ अनेन प्रथमतच्छब्दस्य अर्थद्वयमुक्तम् ।। ततत्वाद्वयाप्तत्वात्। एकरूपत्वादतीतवर्तमानकालयोरिति शेषः । यथोक्तं पुरस्तात्- ‘यथापूर्वं तथेदानीमिति विष्णुस्तदुच्यते' इति । यद्वा ततत्वादिति तच्छब्दार्थः वर्तमानानागतकालयोरेकरूपत्वादिति एतच्छब्दार्थः । यथोक्तं पुरस्तात्- 'यथेदानीं तथा नित्यं यस्मादेष भविष्यति । अत एतदिति प्रोक्त:' इति । परं ब्रह्म तदिति कीर्तितमित्युपलक्षणं एतदिति कीर्तितमित्यपि ग्राह्यम् । ननु व्याप्तमेकरूपं च वस्तु परमात्मसदृशमन्यदप्यस्ति किन्नेत्याह- तदेवेति ।। परं ब्रह्मैवेत्यर्थः । एतत्तदा स सत्यमेवेति वाक्यं अन्वयक्रमेण व्याचष्टे - तदेतदिति ॥ ननु तदेव तादृशं प्रोक्तमित्येतत्कस्य व्याख्यानमिति न प्रतीयते इत्यतस्तद्वयाख्येयप्रदर्शनाय श्रुतावन्वयमाह - तदेव हि तदिति । अनेन द्वितीयैतच्छब्दोपरिगतस्य एवशब्दस्य प्रथमतच्छब्देनान्वयः । तदा सेति तच्छब्दस्यात्रापि सम्बन्ध इत्युक्तं भवति । त्यस्यानुवादीत । तथाच स्मृतौ तदित्यस्यार्थस्तादृशमिति हशब्दार्थः प्रोक्तमितीति भावः । ननु ‘तदेतत्सत्यमेवासीत्' इति स्मृतौ तदेतदित्यनुवादांशः सत्यमेवेत्येवशब्दश्चान्ययोगव्यवच्छेदक इति प्रतीयते तदनुपपन्नम् । अनुवादे व्यर्थत्वात् सङ्कर्षणादिरूपान्तरस्यापि सद्भावादित्यतः स्मृत्यर्थमाह- तदिति । तथाचैवशब्दः प्रसिद्ध्यर्थक इति भावः । स यो हैतं महद्यज्ञं प्रथमजं वेद सत्यं ब्रह्मेति जयतीमाँल्लोकानिति फलवाक्यं व्याचष्टे - स्वस्मादिति । तत्र प्रथमज- मित्यस्यार्थकथनमेतत् महद्यज्ञमित्यस्यार्थो महायाज्यमिति ।। जित इन्वसावसदिति वाक्यं व्याचष्टे – प्राप्नोत्येवेति ॥ जयतीमाँल्लोकानित्युक्तः एतल्लोकजयो नाम क इत्यत आह- जीवन्निति । ननु परमात्मा च प्रजापतिरित्यनेन एष प्रजा - पतिर्यद्धृदयमिति ब्राह्मणं परमात्मपरमित्युक्तम् । तत्र परमात्मनो हृदयशब्दवाच्यत्वे किं निमित्तम् ? नच ‘हरणाद्यज्ञभागादेः' इत्युक्तमेवेति वाच्यम् । यानादव्यवधानेन परस्य ब्रह्मण इत्यस्य विष्णावनुपपत्तेरित्यतः प्रकारान्तरेण हृदयशब्दनिर्वचन- पूर्वकमेतत्सत्यमित्येतद्व्याचष्टे – स्वभागेति ।