अथ यदा सुषुप्तो भवति तदा न कस्यचन वेद ..
[सुषुप्तौ हरिसान्निध्यादेव जीवः सुखी]
उपनिषत्
अथ यदा सुषुप्तो भवति तदा न कस्यचन वेद हिता नाम नाड्यो द्वासप्ततिसहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते ताभिः प्रत्यवसृष्य पुरीतति शेते स यथा कुमारो वा महाराजो वा महाब्राह्मणो वाऽतिघ्रीमानन्दस्य गत्वा शयीतैवमेवैष एतच्छेते ॥ १९ ॥
भाष्यम्
आनन्दस्य परमात्मनोऽतिघ्नीं समीपम् । कुमारो रुद्रः । महाराजो वायुः । महाब्राह्मणो ब्रह्मा । नहि जीवो विज्ञानपूर्वकं प्राणानां विज्ञानमादत्ते । नच सर्वप्राणलोकदेव भूतानां स्रष्टा ।
भावबोधटिप्पणी
कुमारोऽत्यन्तबालो महाराजो महाब्राह्मणो वातिघ्नीमतिशयेन दुःखं हन्ती - त्यतिघ्नी । आनन्दस्य सुखस्यावस्था तां गत्वा शयीतेति व्याख्यानमसत् । बालादीनां दुःखस्यापि सत्वेन दुःखासम्भिन्नसुखाभावादिति भावेनाऽ- नन्दातिघ्न्यादिपदार्थानाह— आनन्दस्येति || ' कुमारश्चित्पितरं बन्दमानं प्रति नानाम रुद्रोपयन्तम्' इति श्रुतेः कुमारो रुद्रः । ' क्षत्रजात्यभिमानी तु पवनो' इत्युक्तेर्महाराजो वायुः । ‘विष्णोर्ब्राह्मणजातिः सन् ब्रह्मा जज्ञे चतुर्मुखः’ इत्युक्तेर्महाब्राह्मणो ब्रह्मा । एवं यत्रैष एतत्सुप्तोऽभूदित्यादि प्रकरणं परमात्मपरत्वेन व्याख्याय जीवपरतया परकीयव्याख्याने उपक्रमविरोधं तावदाह- नहीति ॥ श्रौतविज्ञानेनेत्यस्याभिप्रायः विज्ञानपूर्वकमिति । प्राणानां विज्ञानं इन्द्रियाणां ज्ञानजननशक्तिमित्यर्थः । अस्मादात्मनः सर्वे प्राणाः इत्युपसंहारविरोधमप्याह- नचेति ।। ६ ।।