सोऽकामयत भूयसा यज्ञेन भूमो यजेयेति
[विरिश्चिकृताश्वमेधयागः]
उपनिषत्
सोऽकामयत भूयसा यज्ञेन भूमो यजेयेति । सोऽश्राम्यत् स तपोऽतप्यत तस्य श्रान्तस्य तप्तस्य यशो वीर्यमुदक्रामत् । प्राणा वै यशो वीर्यं तत्प्राणेषूत्क्रान्तेषु शरीरं श्वयितुमध्रियत तस्य शरीर एव मन आसीत्॥ ६॥ इति अश्वमेधब्राह्मणम्
भाष्यम्
इच्छतो विष्णुयजनं ब्रह्मणः साधनास्मृतेः ।
श्रमात्तापाच्च देहं तं त्यक्तुमिच्छा बभूव ह ॥
इच्छया चाप्युदक्रामत्प्राणैः सह पितामहः ।
यशोवीर्यनिमित्तत्वात्प्राणास्तन्नामकाः स्मृताः॥
अत्यल्पे चापि सञ्जाते श्रमेऽपि न तदिच्छया ।
तापे प्राणा निःसरन्ति सा च क्रीडा विभोः स्मृता ॥
बृंहमाणं शरीरं तु पुनर्दृष्ट्वा पितामहः ।
प्रवेष्टुं तच्छरीरं च कामयामास स प्रभुः ॥
भावबोधटिप्पणी
अथ भाष्यार्थः
यजनेच्छायाः श्रमादिहेतुत्वायोगेन कथं तदनन्तरं श्रमाद्युक्तिरित्यतः साक्षा- “च्छ्रमादिहेतुं प्रदर्शयन् ‘सोऽकामयत' इति वाक्यं प्रमाणेन व्याचष्टे – इच्छत इति । साधनास्मृतेः यः श्रमः तस्मात् । स तपोऽतप्यत' इत्यनन्तरम् अध्याहारं सूचयति – देहं तमिति ॥ ' तस्य श्रान्तस्य तप्तस्य यशो वीर्यमुदक्रामत्' इत्येतद् व्याचष्टे - इच्छयेति ॥ चशब्दः श्रमतापयोरनुकर्षणार्थः । अपिशब्दः समुच्चये । अनेन तप्तस्येत्यनन्तरं शरीरत्यागेच्छावत इत्यपि ग्राह्यमिति सूचितम् । स्वावस्थाने प्राणनिर्गमनायोग इत्यत उक्तम्– प्राणैः सह पितामह इति || केन निमित्तेन प्राणानां यशोवीर्यशब्दार्थत्वमित्यत आह- यश इति ॥ ननु साधनास्मृतिनिमित्तकाल्पश्रमतापाभ्यां कथं ब्रह्मणो देहत्यागेच्छा ? तदिच्छया वा कथं प्राणैः सह निःसरणं लोके अदर्शनादित्यत आह- अत्यल्प इति ॥ यद्यपि श्रमे तापे चात्यल्पे सञ्जातेऽपि न लोके देहत्यागस्येच्छा तदिच्छयाऽपि न प्राणा निःसरन्ति । तथाऽपि सा साधनास्मृतिनिमित्तकश्रमतापजन्येच्छा चशब्दात्तदिच्छ्या प्राणैः सह निःसरणं विभोः समर्थस्य चतुर्मुखस्य क्रीडा स्मृतेत्यर्थः । ' शरीरं श्वयितुमध्रियत ' इत्येतदनन्तरमध्याहार्यमाह्– बृंहमाणमिति || बृंहमाणमित्यनुवादेनैव शरीरं श्वयितुमध्रियत इत्येतदुक्ततात्पर्यम् । श्वयितुमिति वृद्ध्यर्थकस्य टु ओश्वि गतिवृद्ध्योरिति धातो रूपम् । ' तस्य शरीर एवं मन आसीत्' इत्येतद् व्याचष्टे - प्रवेष्टुमिति ॥