इन्धो ह वै नामैष योऽयं दक्षिणेऽक्षन् ..

[इन्द्रनामकभगवदुपासना ]

उपनिषत्

इन्धो ह वै नामैष योऽयं दक्षिणेऽक्षन् पुरुषस्तं वा एतमिन्धं सन्तमिंद्र इत्याचक्षते परोक्षेणैव परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः ॥ २ ॥

[सारभोक्ता स्थूलभोक्ता च हरिः ]

अथैतद्वामेऽक्षिणि पुरुषरूपमेषाऽस्य पत्नी विराट् तयोरेष संस्तावो य एषोऽन्तर्हृदय आकाशोऽथैनयोरेतदन्नं य एषोऽन्तर्हृदये लोहितपिंडोऽथैनयोरेतत् प्रावरणं यदेतदन्तर्हृदये जालकमिवाथैनयोरेषा सृतिः सञ्चरणीयैषा हृदयदूर्ध्वा नाड्युच्चरति यथा केशः सहस्रधा भिन्न एवमस्यैता हिता नाम नाड्योऽन्तर्हृदये प्रतिष्ठिता भवन्त्येताभिर्वा एतददास्रवति तस्मादेष प्रविविक्ताहारतर इवैव भवत्यस्माच्छारीरादात्मनः ॥ ३ ॥

भाष्यम्

राज्ञां हृदयसंस्थो य इन्द्रो नाम जनार्दनः ।

स इन्द्रे च यमे चैव स प्राप्यो मुक्तराजभिः ||

तस्मात्तेषामुपास्यः स विराण् नाम तदाश्रया ।

श्रीस्तयोः स्तुतिरेषा हि प्राणेन क्रियते सदा ॥

कर्णौ पिधाय या ज्ञेया सर्ववेदात्मिका हि सा ।

काशनात् सर्वजीवानामाकाश इति सा स्तुतिः ॥

जाग्रतां सर्वजीवानां स विष्णुर्दक्षिणाक्षिगः ।

भावबोधटिप्पणी

ननु जनकस्य मुक्तौ प्राप्यं वक्ष्यामीति प्रतिज्ञाय ' इन्धो ह वै नामैष योऽयं दक्षिणेऽक्षन् पुरुषः' इति दक्षिणाक्षिस्थ इन्द्रनामा कथं प्राप्यत्वेनोच्यते । अन्तरुपास्तियोग्यानां राज्ञां स्वहृदिस्थस्यैवोपास्यस्य मुक्तौ प्राप्यत्वादित्यतः सत्यमित्याहराज्ञामिति ।। इन्द्र इत्याचक्षत इत्युत्त्यनुरोधादिन्द्रो नामेत्युक्तम् । प्रमाणान्तरे इन्द्रस्थस्य यमस्थस्य वा भगवद्रूपस्य मुक्तौ राजप्राप्यत्वोक्ते- स्तदनुरोधादाह-- स इन्द्रे चेति ॥ तिष्ठतीति शेषः । तस्मान्मुक्तौ प्राप्यत्वात्प्राप्यस्यैवोपास्यत्वात् । एषाऽस्य पत्नी विराडिति वाक्यं व्याचष्टेविराणामेति । अस्य पत्नीत्यस्यार्थः तदाश्रयेति । तयोरेष संस्ताव इति वाक्यं व्याचष्टेतयोरिति ॥ श्रुतौ प्राणेन क्रियत इति शेषोक्तिः। य एषोऽन्तर्हृदय आकाश इत्याकाशशब्दस्य काशनात् सर्वजीवानामित्यर्थं वक्तुं तस्यासम्भावनाशङ्कामादौ परिहरति- कर्णाविति || ज्ञेया सर्वजीवैः संस्ताव इति समित्युपसर्गतात्पर्यमाह - सर्ववेदात्मिकेति ।। एवमसम्भावनाशङ्कां परिहृत्याकाशशब्दार्थमाह- काशनादिति ॥ इत्युच्यत इति शेषः । यदि राज्ञां हृदयसंस्थइन्द्रनामा मुक्तौ राजभिः प्राप्य उपास्यश्च तर्हि श्रुतौ दक्षिणेऽक्षन्पुरुष इति दक्षिणाक्षिस्थस्येन्द्रनाम्नः कथं प्राप्यत्वमुच्यत इत्यत आह- जाग्रतामिति ।। स राजहृदयसंस्थ इन्द्रः ।। ३ ।।