open/close
सप्तान्नब्राह्मणम्
त्रयब्राह्मणम्
चतुर्थोऽध्यायः
शिशुब्राह्मणम्
मूर्तामूर्तब्राह्मणम्
मैत्रेयीब्राह्मणम्
मधुब्राह्मणम्
वंशब्राह्मणम्
पञ्चमोऽध्यायः
आर्तभागब्राह्मणम्
भुज्युब्राह्मणम्
उषस्तब्राह्मणम्
कहोळब्राह्मणम्
गार्गिब्राह्मणम्
अन्तर्यामिब्राह्मणम्
अक्षरब्राह्मणम्
शाकल्यब्राह्मणम्
षष्ठोऽध्यायः
कूर्चब्राह्मणम्
ज्योतिर्ब्राह्मणम्
शारीरब्राह्मणम्
मैत्रेयीब्राह्मणम्
वंशब्राह्मणम्
सप्तमोऽध्यायः
द्वितीयं ब्राह्मणम्
तृतीयं ब्राह्मणम्
चतुर्थं ब्राह्मणम्
पञ्चमं ब्राह्मणम्
षष्ठं ब्राह्मणम्
सप्तमं ब्राह्मणम्
अष्टमं ब्राह्मणम्
नवमं ब्राह्मणम्
दशमं ब्राह्मणम्
एकादशं ब्राह्मणम्
द्वादशं ब्राह्मणम्
त्रयोदशं ब्राह्मणम्
चतुर्दशं ब्राह्मणम्
पञ्चदशं ब्राह्मणम्
षोडशं ब्राह्मणम्
सप्तदशं ब्राह्मणम्
अष्टादशं ब्राह्मणम्
एकोनविंशं ब्राह्मणम्
विंशं ब्राह्मणम्
अष्टमोऽध्यायः
द्वितीयब्राह्मणम्
तृतीयब्राह्मणम्
चतुर्थब्राह्मणम्
पञ्चमब्राह्मणम्
टीका_टिप्पणि
अङ्गाश्रितदेवतावर्णनपूर्वकं यागाश्वनिरूपणम्
तृतीयादिपञ्चविभक्त्यर्थे प्रथमाविभक्तिप्रयोगः
पुनरुक्तिप्रयोजननिरूपणम्
यज्ञाश्वे सकलदेवतासान्निध्यवर्णनम्
अप्सृष्टिनिरूपणम्
ब्रह्माण्डसृष्टिः, तत्र श्रीहरेः शयनम्
ब्रह्मसरस्वत्योरुत्पत्तिः
मुख्यवायोः त्रेधोत्पत्तिः
भगवतः सर्वसंहारकत्ववर्णनम्
विरिञ्चिकृताश्वमेधयागः
अश्वमेधनाम्नः अर्थविस्तृतिः
रुद्रादिदेवानाम् असुरावेशः
प्राणस्य असुरावेशाभावः
मुख्यप्राणे अयास्यादिनाम्नां निर्वचनम्
प्राणानुग्रहेण देवानां जयः
सकलजीवनिकायभोग्यं मुख्यप्राणस्य अन्नम्
मुख्यप्राणे अङ्गिरसवृहस्पत्यादिनाम्नां निर्वचनम्
उद्गातृपु स्थित्वा सामगानकर्ता मुख्यप्राणः
'तमसो मा ज्योतिर्गमय' इति मन्त्रार्थः
चतुर्मुखब्रह्मणि अहम् इत्यादिनामनिर्वचनम्, सृष्टिवर्णनं च
भयजनकविरोध्यभावाद् ब्रह्मणः भयं नास्ति
ब्रह्मसरस्वतिकृता सृष्टिः
अग्न्यन्नयोः सृष्टिः
सर्वगुणानां आत्मशब्दार्थे अन्तर्भावाद्
सर्वप्रियो विष्णुरित्युपास्यः
तृतीयोऽध्यायः
'अहं ब्रह्मास्मि' इत्येतन्नाभेदबोधकम्
‘अतत्वमसि' इत्येतदभेदनिराकरणपरम्
मृत्पिण्डादिदृष्टान्ताश्च भेदानुकूलिनः भवन्ति
वाचारम्भणवाक्यं जगत्सत्यत्वबाधकं न भवति
श्रीहरिसर्वोत्तमत्वज्ञापनार्थं सृष्टिनिरूपणम्
मृत्पिण्डादिदृष्टान्तानां अभिप्रायः
जीवब्रह्मभेदज्ञानमेव मोक्षसाधनम्
भेदस्य मोक्षेsपि नियतत्वाद् सत्यत्वम्
ऐक्यं न शास्त्रप्रतिपाद्यम्
भगवतः तद्गुणानां च भेदज्ञाने अनर्थोक्तिः
जीवब्रह्मणोः ऐक्यचिन्तनं अनर्थसाधनम्
मोक्षसाधननिरूपणम्
एकमेवाद्वितीयमित्यादिश्रुतयः नाभेदपराः
मुक्ततारतम्यविषये प्रमाणानि
' स यश्वायमशरीरः' इति वाक्यमपि न जीवेश्वराभेदे प्रमाणम्
पुरुष एवेदं सर्वम् इत्यपि भेदपरम्
भक्तेरेव मोक्षसाधनत्वनिरूपणम्
कार्यतावादनिराकरणम्
तार्किकादीनाम् आगमविरोधोऽपरिहार्यः
सदागमदुरागमविवेकः
बौद्धमतनिराकरणम्
बौद्धादीनां प्रत्यक्षागमविरोधः
प्रमाणेषु वेदस्य श्रेष्ठत्वम्
प्रत्यक्षम्, अनुमानम्, शब्दश्रेति त्रीण्येव प्रमाणानि
मन आदीन्द्रियाणां द्वैविध्यम्
विशेषसमर्थनम्
तृतीयोऽध्यायः
मुक्तानां क्रिया अपि नित्याः
'अहं ब्रह्मास्मि' इत्यस्य ऐक्यपरत्वाभावे प्रमाणानि
'अहं ब्रह्मास्मि' इति श्रुत्यर्थः
मोहार्थानि ऐक्यवाक्यानि
चतुर्मुखकृता क्षत्रजातिसृष्टिः
चतुर्मुखकृता वैश्यशूद्रजातिसृष्टिः
धर्माभिमानिनः मुख्यप्राणस्य सृष्टि:
ज्ञानरहितकर्मणः वैयर्थ्यम्
सर्वजीवानाम् आश्रयः श्रीहरिः
भगवता ब्रह्मरुद्रादिदेवतापूजाकरणे निमित्तम्
भगवता नानावतारेषु आचरिताः गृहस्थधर्माः
चतुर्मुखाचरिता: गृहस्थधर्माः
भगवता सृष्टं सप्तविधान्नम्
सरस्वतीचतुर्मुखाभ्यां प्राणोत्पत्तिः
वाणीपतिवाय्वोरुपासनं मोक्षसाधनम्
चन्द्रान्तर्गतप्राणोपासनम्
सप्तान्नोपासकस्य पुत्रात् प्रयोजनम्
वाणीब्रह्मणोः मुक्तनियामकत्वमस्ति
इन्द्रियमानिदेवानां स्पर्धा, मुख्यप्राणस्य विजयः
अधिदैवे (बाह्ये) देवानां स्पर्धा, प्राणस्य विजय:
भारतीप्राणरुद्रैः कृता प्रपञ्चसृष्टिः
चतुर्थोऽध्यायः
अवस्थात्रयनियामकभगवदुपासना
सुषुप्तौ हरिसान्निध्यादेव जीवः सुखी
श्रीप्राणनाथोपासनया इन्द्रियजयः
दक्षिणाक्षिस्थः प्राणः
भगवान् मूर्तामूर्तविलक्षणः
मैत्रेय्याः अध्यात्मनिष्ठा
सर्वमपीदं विश्वं भगवदधीनम्
उदाहरणत्रयनिरूपणपूर्वकं भगवतः सृष्टिकर्तृत्वनिरूपम्
भगवतः हयग्रीवस्य सकाशात् सकलशास्त्राणाम् आविर्भावः
सोदाहरणं भगवतः सर्वाश्रयत्ववर्णनम्
मोक्षेsपि भगवान् सर्वाश्रयः
अमुक्तानां मुक्तदर्शनं न
पृथिव्याद्यभिमानिदेवतान्तर्यामी
दधीचिकर्तृकः मधुविद्योपदेशः नारायणवर्मोपदेशश्व
सर्वजीवाः भगवतः प्रतिबिम्बा:
पञ्चमोऽध्यायः
कालकृतविकारपरिहारोपायः
देवपदवीप्राप्त्युपायः
सामगानेन अभीष्टलोकप्राप्तिः
इन्द्रियाणि कति ? इन्द्रियगोचरविषयाः कति ?
ब्रह्माण्डस्य विस्तृतिः
भगवतः लक्षणानि
कहोळब्राह्मणम्
मुक्ततारतम्यप्रतिपादनम्
सर्वान्तर्यामी सर्वाश्रयश्च कः
मुख्यवायुः जगदाधारः
बाद- जल्प-वितण्डालक्षणम्
पञ्चमोऽध्यायः
इच्छामात्रेण सर्वलोकधारकः नारायणः
त्रयस्त्रिंशद्देवता:
स्वायम्भुबनियामकः वायुः
दिग्देवताः, तेषाम् आश्रयदातारश्च
याज्ञवल्क्येन शाकल्यपराजयः
विश्वासयोग्योपदेशकस्य लक्षणम्
स्वातन्त्र्येण सृष्टिकर्ता कः
षष्ठोऽध्यायः
वाङ्नामकभगवदुपासना
प्राणनामकभगवदुपासना
चक्षुर्नामकभगवदुपासना
श्रोत्रनामकभगवदुपासना
मनोनामकभगवदुपासना
हृदयनामकभगवदुपासना
याज्ञवल्क्यं प्रति जनकस्य उपसत्तिः
इन्द्रनामकभगवदुपासना
सर्वे सुरा इन्द्रस्य सेवका एव
अवस्थात्रयेषु स्वर्गमुक्त्योश्च भगवानेव ज्ञानसाधनम्
स्वर्ग-सुप्ति - परलोकशब्दा: समानार्थकाः, मुक्तिवाचकाः
स्वाप्नपदार्थसृष्टिकर्ता न जीवः
स्वप्नसुषुप्तिषु जीवस्य न ब्रह्मभाव:
सुषुप्तिमुक्त्योः न दुःखम्
'अहमेवेदं सर्वोऽस्मि' इति श्रुत्यर्थः
भगवानेव एक एव सर्वज्ञः
मुक्तेषु आनन्दतारतम्यं विद्यते
अवस्थात्रयनियामक: भगवानेव
अर्चिरादिमार्गेषु मुक्तः पूज्यते
मरणकाले मोहः
उत्क्रमणद्वाराणि
मरणं भगवदधीनम्
योग्यानामेव मुक्तिः
जीवेषु तारतम्यमप्रतिहतम्
निर्गुणमुक्ति प्रमाणशून्या
षष्ठोऽध्यायः
पुण्यपापकारयिता भगवान्
सर्वप्रमाणविरुद्धः जीवेश्वराभेदः
जीवेश्वरभेदः न असत्यः
ब्रह्मैव सन् ब्रह्माप्येति इति श्रुत्यर्थः
मुक्तौ मरणं न भवति
मुक्तिप्रदः भगवान् विष्णुः
मिथ्याज्ञाननिन्दा कर्तव्या
गुरुषु सत्सु नचेदिहाबेदीन्महती विनष्टिः
जीवस्य ब्रह्माभेदे दु:खं कुतः ?
परमात्मविदः न भयं किञ्चन
भगवान् नित्यमुक्तः सर्वाधारः
भगवान् स्वगतभेदविर्जितः
ब्रह्म अवाच्यं न
ब्रह्म न निर्गुणम्
यज्ञाध्ययनादीनां उद्देशः सन्यासः
भगवान् कर्मलेपरहितः
तत्त्वज्ञानेन सम्पत्, विपत्परिहारश्च
मैत्रेय्याः अध्यात्मनिष्ठा
देवास्सर्वे भगवदधीनाः
सप्तमोऽध्यायः
दमं दानं दयां चेति त्रयं शिक्षेत्
विष्णुचतुर्मुखयो हृदयमिति नाम
वासुदेवः सत्यः कुतः?
भगवतः प्रथमावतारः वासुदेवः
दक्षिणाक्षणि सूर्यमण्डले च सत्यनामकः वासुदेवः
भगवतो वासुदेवस्य अवयवाः
जीवगतभगवद्रूपम्
भगवतः विद्युदिति नाम
वाग्देव्याः गोरूपम्
जाठराग्निगतभगवद्रूपस्य वैश्वानर इति नाम
अर्चिरादिमार्गः
रोगजन्यदु:खम्, शवदाहादिकं च परमं तपः
वायुब्रह्मणोः अन्योन्यता
उक्थादिनामकः प्राणः
गायत्र्युपासनम्
गायत्र्येव सावित्री
अष्टमोऽध्यायः
क्षत्रियेण ब्राह्मणं प्रत्युपदेशः
साधनमार्गे विघ्ननिवारणोपायः होम:
स्त्रीसङ्गे यज्ञत्वानुसन्धानम्
ऋषिपरम्परा
तुलनात्मक विश्लेषण
प्रश्न-उत्तर
open/close
एषां वै भूतानां पृथिवी रसः पृथिव्या आपोऽपामोषधयः ..
- एषां वै भूतानां पृथिवी रसः पृथिव्या आपोऽपामोषधयः ओषधीनां पुष्पाणि पुष्पाणां फलानि फलानां पुरुषः पुरुषस्य रेतः ॥ १ ॥
- स ह प्रजापतिरीक्षाञ्चक्रे हन्तास्मै प्रतिष्ठां कल्पयानीति स स्रियं ससृजे तां सृष्ट्वाऽध उपास्त तस्मात् स्त्रियमध उपासीत स एतं प्राञ्चं ग्रावाणमात्मन एव समुदपारयत्तेनैनामभ्यसृजन् ॥ २ ॥
- तस्या वेदिरुपस्थो लोमानि बर्हिश्चर्माधिषवणो समिद्धो मध्यतस्तौ मुष्कौ स यावान् ह वै वाजपेयेन यजमानस्य लोको भवति तावानस्य लोको भवति य एवं विद्वानधोपहासं चरत्यासां स्त्रीणां सुकृतं वृंक्तेऽथ यदिदमविद्वानधोपहासं चरत्यस्य स्त्रियः सुकृतं वृंजते ॥ ३ ॥
- एतद्ध स्म वै तद्विद्वानुद्दालक यामिच्छेद्दधीतेति तस्यामर्थं निष्ठाय मुखेन मुखं सन्धायापान्यभिप्राण्यादिंद्रियेण ते आरुणिराहैतद्ध स्म वै तद्विद्वान्नाको मौद्गल्य आहैतद्ध स्म वै तद्विद्वान् कुमार हारीत आह बहवो मर्या ब्राह्मणायना निरिंद्रिया विसुकृतोऽस्माल्लोकात् प्रयन्ति य इदमविद्वांसोऽधोपहासं चरन्तीति बहु वा इदं सुप्तस्य वा जाग्रतो वा रेतः स्कन्दति ॥ ४ ॥
- तदभिमृशेदनु वा मंत्रयेत यन्मेऽद्य रेतः पृथिवीमस्कात्सीद्यदोषधीरप्यसरद्यदप इदमहं तद्रेत आददे पुनर्मा मैत्विंद्रियं पुनस्तेजः पुनर्भगः पुनरग्निर्धिष्ण्या यथास्थानं कल्पन्तामित्यनामिकांगुष्ठाभ्यामादायान्तरेण स्तनौ वा भ्रुवौ वा निमृज्यात् ॥ ५ ॥
- अथ यद्युदक आत्मानं परिपश्येत् तदभिमंत्रयेत मयि तेज इंद्रियं यशो द्रविणं सुकृतमिति ॥ ६ ॥
- श्रीर्ह वा एषा स्त्रीणां यन्मलोद्वासास्तस्मात् मलोद्वाससं यशस्विनीमभिक्रम्योपमंत्रयेत ॥ ७ ॥
- सा चेदस्मै न दद्यात् काममेनामवक्रीणीयात् सा चेदस्मै नैव दद्यात् काममेनां यष्ट्या वा पाणिना वोपहत्यातिक्रामेदिंद्रियेण ते यशसा यश आदद इत्ययशा एव भवति ॥ ८ ॥
- सा चेदस्मै दद्यादिंद्रियेण ते यशसा यश आदधामीति यशस्विनावेव भवतः ॥
- स यामिच्छेत् कामयेत मेति तस्यामर्थं निष्ठाय मुखेन मुखं सन्धायोपस्थमस्या अभिमृश्य जपेत् ।
- अङ्गादङ्गात् सम्भवसि हृदयादधिजायसे ॥
- स त्वमंगकषायोऽसि दिग्धविद्धामिव मादयेमाममूं मयीति ॥ ९ ॥
- अथ यामिच्छेन्न गर्भं दधीतेति तस्यामर्थं निष्ठाय मुखेन मुखं सन्धायाभिप्राण्यापान्यादिंद्रियेण ते रेतसा रेत आदद इत्यरेता एव भवति ॥ १० ॥
- अथ यामिच्छेद् गर्भं दधीतेति तस्यामर्थं निष्ठाय मुखेन मुखं सन्धायापान्याभिप्राण्यादिंद्रियेण ते रेतसा रेत आदधामीति गर्भिण्येव भवति ॥ ११ ॥
- अथ यस्य जायायै जारः स्यात् तं चेत् द्विष्यादामपात्रेऽग्निमुपसमाधाय प्रतिलोमं शरबर्हिस्तीर्त्वा तस्मिन्नेताः शरभृष्टीः प्रतिलोमाः सर्पिषाक्ता जुहुयान्मम समिद्धेऽहौषीः प्राणापानौ त आददेऽसाविति मम समिद्धेऽहौषीः पुत्रं पशूंस्त आददेऽसाविति मम समिद्धेऽहौषीरिष्टासुकृते त आददेऽसाविति मम समिद्धेऽहौषीराशा पराकाशौ त आददेऽसाविति स वा एष निरिंद्रियो विसुकृतोऽस्माल्लोकात् प्रैति यमेवं विद्वान् ब्राह्मणः शपति तस्मादेवं विच्छ्रोत्रियस्य दारेण नोपहासमिच्छेदुत ह्येवंवित् परो भवति ॥१२॥
- अथ यस्य जायामार्तवं विन्देत् त्र्यहं कंसेन पिबेदहतवासा नैनां वृषलो न वृषल्युपहन्यात् त्रिरात्रान्त आप्लुत्य व्रीहीनवघातयेत् ॥१३॥
- स य इच्छेत् पुत्रो मे शुक्लो गौरो जायेत वेदमनुब्रवीत सर्वमायुरियादिति क्षीरौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातां ईश्वरौ जनयितवै ॥ १४ ॥
- अथ य इच्छेत् पुत्रो मे कपिलः पिंगलो जायेत द्वौ वेदावनुब्रवीत सर्वमायुरियादिति दध्योदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै ॥ १५ ॥
- अथ य इच्छेत् पुत्रो मे श्यामो लोहिताक्षो जायेत त्रीन् वेदाननुब्रवीत सर्वमायुरियादित्युदौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै ॥ १६ ॥
- अथ य इच्छेद्दुहिता मे पंडिता जायेत सर्वमायुरियादिति तिलौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै ॥ १७ ॥
- अथ य इच्छेत् पुत्रो मे पंडितो विजिगीथः समितिंगमः शुश्रूषितां वाचं भाषिता जायेत सर्वान् वेदाननुब्रवीत सर्वमायुरियादिति मांसौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयित्वा औक्षेण वार्षभेण वा ॥ १८ ॥
- अथाभिप्रातरेव स्थालीपाकावृताज्यं वेष्टित्वा स्थालीपाकस्योपघातं जुहोत्यग्नये स्वाहाऽनुमतये स्वाहा देवाय सवित्रे सत्यप्रसवाय स्वाहेति हुत्वोद्धृत्य प्राश्नाति प्राश्येतरस्याः प्रयच्छति प्रक्षाल्य पाणी उदपात्रं पूरयित्वा तेनैनां त्रिरभ्युक्षत्युत्तिष्ठातो विश्वावसोऽन्यामिच्छ प्रपूर्व्यां सं जायां पत्या सहेति ॥ १९ ॥
- अथैनामभिपद्यते - अमोऽहमस्मि सा त्वं, सा त्वमस्यमोहं, सामाहमस्मि ऋक् त्वं , द्यौरहं पृथिवी त्वं, तावेहि संरभावहै, सह रेतो दधावहै, पुंसे पुत्राय वित्तय इति ॥ २० ॥
- अथास्या ऊरू विहापयति विजिहीथां द्यावापृथिवी इति तस्यामर्थं निष्ठाय मुखेन मुखं सन्धाय त्रिरेनामनुलोमामनुमार्ष्टि ।
- विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु ।
- आ सिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥
- गर्भं धेहि सिनीवालि गर्भं धेहि पृथुष्टुके ।
- गर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजौ ॥ २१ ॥
- हिरण्मयी अरणी याभ्यां निर्मन्थतामश्विनौ ।
- तं ते गर्भं हवामहे दशमे मासि सूतये ॥
- यथाग्निगर्भा पृथिवी यथा द्यौरिंद्रेण गर्भिणी ।
- वायुर्दिशां यथा गर्भ एवं गर्भं दधामि तेऽसाविति ॥ २२ ॥
- सोष्यन्तीमद्भिरभ्युक्षति । यथा वायुः पुष्करिणीं समिंगयति । सर्वत एवा ते गर्भं एजतु सहावैतु जरायुणा इंद्रस्यायं व्रजः कृतः सार्गलः सपरिश्रयस्तमिंद्र निर्जहि गर्भेण सावरं सहेति ॥ २३ ॥
- जातोऽग्निमुपसमाधायांक आधाय कंसे पृषदाज्यं सन्नीय पृषदाज्यस्योपघातं जुहोति अस्मिन् सहस्रं पुष्यासमेधमानः स्वे गृहे । अस्योपसन्द्यां मा च्छैत्सीः प्रजया च पशुभिश्च स्वाहा मयि प्राणांस्त्वयि मनसा जुहोमि स्वाहा ।
- यत्कर्मणात्यरीरिचं यद्वा न्यूनमिहाकरम् ।
- अग्निष्टस्त्विष्टकृद्विद्वान् स्विष्टं सुहुतं करोतु नः स्वाहेति ॥ २४ ॥
- अथास्य दक्षिणं कर्ममभिनिधाय वाग्वागिति त्रिरथ दधि मधु घृतं संनीयानन्तर्हितेन जातरूपेण प्राशयति भूस्ते दधामि भुवस्ते दधामि स्वस्ते दधामि भूर्भुवः स्वः त्वयि सर्वं दधामीति ॥ २५ ॥
- अथास्य नाम करोति वेदोऽसीति तदस्य तद्गुह्यमेव नाम भवति ॥ २६ ॥
- अथैनं मात्रे प्रदाय स्तनं प्रयच्छति , यस्ते स्तनः शशयो यो मयोभूर्यो रत्नधा वसुविद्यः सुदत्रः येन विश्वा पुष्यसि वार्याणि सरस्वति तमिह धातवे करिति ॥ २७ ॥
- अथास्य मातरमभिमंत्रयत इलासि मैत्रावरुणी वीरे वीरमजीजनत् ।
- सा त्वं वीरवती भव याऽस्मान् वीरवतोऽकरदिति
- तं वा एतमाहुरतिपिता बताभूरतिपितामहो बताभूः परमां बत काष्ठां प्रायच्छ्रिया यशसा ब्रह्मवर्चसेन य एवंविदो ब्राह्मणस्य पुत्रो जायत इति ॥ २८ ॥
एषां वै भूतानां पृथिवी रसः पृथिव्या आपोऽपामोषधयः ..
बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थब्राह्मणम्
एषां वै भूतानां पृथिवी रसः पृथिव्या आपोऽपामोषधयः ओषधीनां पुष्पाणि पुष्पाणां फलानि फलानां पुरुषः पुरुषस्य रेतः ॥ १ ॥
स ह प्रजापतिरीक्षाञ्चक्रे हन्तास्मै प्रतिष्ठां कल्पयानीति स स्रियं ससृजे तां सृष्ट्वाऽध उपास्त तस्मात् स्त्रियमध उपासीत स एतं प्राञ्चं ग्रावाणमात्मन एव समुदपारयत्तेनैनामभ्यसृजन् ॥ २ ॥
तस्या वेदिरुपस्थो लोमानि बर्हिश्चर्माधिषवणो समिद्धो मध्यतस्तौ मुष्कौ स यावान् ह वै वाजपेयेन यजमानस्य लोको भवति तावानस्य लोको भवति य एवं विद्वानधोपहासं चरत्यासां स्त्रीणां सुकृतं वृंक्तेऽथ यदिदमविद्वानधोपहासं चरत्यस्य स्त्रियः सुकृतं वृंजते ॥ ३ ॥
एतद्ध स्म वै तद्विद्वानुद्दालक यामिच्छेद्दधीतेति तस्यामर्थं निष्ठाय मुखेन मुखं सन्धायापान्यभिप्राण्यादिंद्रियेण ते आरुणिराहैतद्ध स्म वै तद्विद्वान्नाको मौद्गल्य आहैतद्ध स्म वै तद्विद्वान् कुमार हारीत आह बहवो मर्या ब्राह्मणायना निरिंद्रिया विसुकृतोऽस्माल्लोकात् प्रयन्ति य इदमविद्वांसोऽधोपहासं चरन्तीति बहु वा इदं सुप्तस्य वा जाग्रतो वा रेतः स्कन्दति ॥ ४ ॥
तदभिमृशेदनु वा मंत्रयेत यन्मेऽद्य रेतः पृथिवीमस्कात्सीद्यदोषधीरप्यसरद्यदप इदमहं तद्रेत आददे पुनर्मा मैत्विंद्रियं पुनस्तेजः पुनर्भगः पुनरग्निर्धिष्ण्या यथास्थानं कल्पन्तामित्यनामिकांगुष्ठाभ्यामादायान्तरेण स्तनौ वा भ्रुवौ वा निमृज्यात् ॥ ५ ॥
अथ यद्युदक आत्मानं परिपश्येत् तदभिमंत्रयेत मयि तेज इंद्रियं यशो द्रविणं सुकृतमिति ॥ ६ ॥
श्रीर्ह वा एषा स्त्रीणां यन्मलोद्वासास्तस्मात् मलोद्वाससं यशस्विनीमभिक्रम्योपमंत्रयेत ॥ ७ ॥
सा चेदस्मै न दद्यात् काममेनामवक्रीणीयात् सा चेदस्मै नैव दद्यात् काममेनां यष्ट्या वा पाणिना वोपहत्यातिक्रामेदिंद्रियेण ते यशसा यश आदद इत्ययशा एव भवति ॥ ८ ॥
सा चेदस्मै दद्यादिंद्रियेण ते यशसा यश आदधामीति यशस्विनावेव भवतः ॥
स यामिच्छेत् कामयेत मेति तस्यामर्थं निष्ठाय मुखेन मुखं सन्धायोपस्थमस्या अभिमृश्य जपेत् ।
अङ्गादङ्गात् सम्भवसि हृदयादधिजायसे ॥
स त्वमंगकषायोऽसि दिग्धविद्धामिव मादयेमाममूं मयीति ॥ ९ ॥
अथ यामिच्छेन्न गर्भं दधीतेति तस्यामर्थं निष्ठाय मुखेन मुखं सन्धायाभिप्राण्यापान्यादिंद्रियेण ते रेतसा रेत आदद इत्यरेता एव भवति ॥ १० ॥
अथ यामिच्छेद् गर्भं दधीतेति तस्यामर्थं निष्ठाय मुखेन मुखं सन्धायापान्याभिप्राण्यादिंद्रियेण ते रेतसा रेत आदधामीति गर्भिण्येव भवति ॥ ११ ॥
अथ यस्य जायायै जारः स्यात् तं चेत् द्विष्यादामपात्रेऽग्निमुपसमाधाय प्रतिलोमं शरबर्हिस्तीर्त्वा तस्मिन्नेताः शरभृष्टीः प्रतिलोमाः सर्पिषाक्ता जुहुयान्मम समिद्धेऽहौषीः प्राणापानौ त आददेऽसाविति मम समिद्धेऽहौषीः पुत्रं पशूंस्त आददेऽसाविति मम समिद्धेऽहौषीरिष्टासुकृते त आददेऽसाविति मम समिद्धेऽहौषीराशा पराकाशौ त आददेऽसाविति स वा एष निरिंद्रियो विसुकृतोऽस्माल्लोकात् प्रैति यमेवं विद्वान् ब्राह्मणः शपति तस्मादेवं विच्छ्रोत्रियस्य दारेण नोपहासमिच्छेदुत ह्येवंवित् परो भवति ॥१२॥
अथ यस्य जायामार्तवं विन्देत् त्र्यहं कंसेन पिबेदहतवासा नैनां वृषलो न वृषल्युपहन्यात् त्रिरात्रान्त आप्लुत्य व्रीहीनवघातयेत् ॥१३॥
स य इच्छेत् पुत्रो मे शुक्लो गौरो जायेत वेदमनुब्रवीत सर्वमायुरियादिति क्षीरौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातां ईश्वरौ जनयितवै ॥ १४ ॥
अथ य इच्छेत् पुत्रो मे कपिलः पिंगलो जायेत द्वौ वेदावनुब्रवीत सर्वमायुरियादिति दध्योदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै ॥ १५ ॥
अथ य इच्छेत् पुत्रो मे श्यामो लोहिताक्षो जायेत त्रीन् वेदाननुब्रवीत सर्वमायुरियादित्युदौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै ॥ १६ ॥
अथ य इच्छेद्दुहिता मे पंडिता जायेत सर्वमायुरियादिति तिलौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै ॥ १७ ॥
अथ य इच्छेत् पुत्रो मे पंडितो विजिगीथः समितिंगमः शुश्रूषितां वाचं भाषिता जायेत सर्वान् वेदाननुब्रवीत सर्वमायुरियादिति मांसौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयित्वा औक्षेण वार्षभेण वा ॥ १८ ॥
अथाभिप्रातरेव स्थालीपाकावृताज्यं वेष्टित्वा स्थालीपाकस्योपघातं जुहोत्यग्नये स्वाहाऽनुमतये स्वाहा देवाय सवित्रे सत्यप्रसवाय स्वाहेति हुत्वोद्धृत्य प्राश्नाति प्राश्येतरस्याः प्रयच्छति प्रक्षाल्य पाणी उदपात्रं पूरयित्वा तेनैनां त्रिरभ्युक्षत्युत्तिष्ठातो विश्वावसोऽन्यामिच्छ प्रपूर्व्यां सं जायां पत्या सहेति ॥ १९ ॥
अथैनामभिपद्यते - अमोऽहमस्मि सा त्वं, सा त्वमस्यमोहं, सामाहमस्मि ऋक् त्वं , द्यौरहं पृथिवी त्वं, तावेहि संरभावहै, सह रेतो दधावहै, पुंसे पुत्राय वित्तय इति ॥ २० ॥
अथास्या ऊरू विहापयति विजिहीथां द्यावापृथिवी इति तस्यामर्थं निष्ठाय मुखेन मुखं सन्धाय त्रिरेनामनुलोमामनुमार्ष्टि ।
विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु ।
आ सिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥
गर्भं धेहि सिनीवालि गर्भं धेहि पृथुष्टुके ।
गर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजौ ॥ २१ ॥
हिरण्मयी अरणी याभ्यां निर्मन्थतामश्विनौ ।
तं ते गर्भं हवामहे दशमे मासि सूतये ॥
यथाग्निगर्भा पृथिवी यथा द्यौरिंद्रेण गर्भिणी ।
वायुर्दिशां यथा गर्भ एवं गर्भं दधामि तेऽसाविति ॥ २२ ॥
सोष्यन्तीमद्भिरभ्युक्षति । यथा वायुः पुष्करिणीं समिंगयति । सर्वत एवा ते गर्भं एजतु सहावैतु जरायुणा इंद्रस्यायं व्रजः कृतः सार्गलः सपरिश्रयस्तमिंद्र निर्जहि गर्भेण सावरं सहेति ॥ २३ ॥
जातोऽग्निमुपसमाधायांक आधाय कंसे पृषदाज्यं सन्नीय पृषदाज्यस्योपघातं जुहोति अस्मिन् सहस्रं पुष्यासमेधमानः स्वे गृहे । अस्योपसन्द्यां मा च्छैत्सीः प्रजया च पशुभिश्च स्वाहा मयि प्राणांस्त्वयि मनसा जुहोमि स्वाहा ।
यत्कर्मणात्यरीरिचं यद्वा न्यूनमिहाकरम् ।
अग्निष्टस्त्विष्टकृद्विद्वान् स्विष्टं सुहुतं करोतु नः स्वाहेति ॥ २४ ॥
अथास्य दक्षिणं कर्ममभिनिधाय वाग्वागिति त्रिरथ दधि मधु घृतं संनीयानन्तर्हितेन जातरूपेण प्राशयति भूस्ते दधामि भुवस्ते दधामि स्वस्ते दधामि भूर्भुवः स्वः त्वयि सर्वं दधामीति ॥ २५ ॥
अथास्य नाम करोति वेदोऽसीति तदस्य तद्गुह्यमेव नाम भवति ॥ २६ ॥
अथैनं मात्रे प्रदाय स्तनं प्रयच्छति , यस्ते स्तनः शशयो यो मयोभूर्यो रत्नधा वसुविद्यः सुदत्रः येन विश्वा पुष्यसि वार्याणि सरस्वति तमिह धातवे करिति ॥ २७ ॥
अथास्य मातरमभिमंत्रयत इलासि मैत्रावरुणी वीरे वीरमजीजनत् ।
सा त्वं वीरवती भव याऽस्मान् वीरवतोऽकरदिति
तं वा एतमाहुरतिपिता बताभूरतिपितामहो बताभूः परमां बत काष्ठां प्रायच्छ्रिया यशसा ब्रह्मवर्चसेन य एवंविदो ब्राह्मणस्य पुत्रो जायत इति ॥ २८ ॥
॥ इति बृहदारण्यकोपनिषदि अष्टमाध्याये चतुर्थब्राह्मणम् ॥ ४ ॥