अशरीरा क्रिया गौणदेहादेस्ते ह्यभावतः

[ मुक्तानां शरीरं विद्यते ]

भाष्यम्

अशरीरा क्रिया गौणदेहादेस्ते ह्यभावतः ।

चिदानन्दशरीरादेः सदेहाद्या विमोक्षिणः ॥

अनिन्द्रिया अनाहारा अनिष्यन्दाः सुगन्धिनः ।। इत्यादेश्व ॥

भावबोधटिप्पणी

ननु श्यामावदाताः शतपत्रलोचना इत्यादिना मुक्तानां शरीरं प्रतीयते स तत्र पर्येतीत्यादिना क्रिया च तचाशरीरं वा वसन्तमित्यादिप्रमाणविरुद्धमित्यतः तयोर्विरोधं परिहरतिअशरीरेति । ते विमोक्षिणः सत्वादिगुणमयदेहादेरभावत अशरीरक्रिया उच्यन्ते चिदानन्दशरीरादेः सदेहाद्या उच्यन्त इत्यर्थः । किमेवं प्रमाणद्वयव्यवस्थाकल्पनया सर्वथा देहाद्यभाव एवार्थः किं न स्यात् इति चेत्र । इन्द्रियादिशून्यानामपि भोगोक्तेस्तदन्यथानुपपत्त्योक्तव्यवस्थाया अङ्गीकार्यत्वादिति भावेनाह- अनिन्द्रिया इति ॥ ४ ॥

Load More