उक्थं प्राणो वा उक्थं प्राणो हीदं ..
[उक्थादिनामकः प्राणः]
उपनिषत्
उक्थं प्राणो वा उक्थं प्राणो हीदं सर्वमुत्थापयत्युद्धास्मा उक्थविद् वीरस्तिष्ठत्युक्थस्य सायुज्यं सलोकतां जयति य एवं वेद ।
इति पञ्चदशं ब्राह्मणम् ॥ १५ ॥
यजुः प्राणो वै यजुः प्राणे हीमानि सर्वाणि भूतानि युज्यन्ते ह्यास्मै सर्वाणि भूतानि श्रैष्ट्याय यजुषः सायुज्यं सलोकतां जयति य एवं वेद ||
इति षोडशं ब्राह्मणम् ॥ १६ ॥
साम प्राणो वै साम प्राणे हीमानि सर्वाणि भूतानि सम्यश्चि सम्यञ्चि हास्मै सर्वाणि भूतानि श्रेष्ठयाय कल्पन्ते साम्नः सायुज्यं सलोकतां जयति य एवं वेद ।।
इति सप्तदशं ब्राह्मणम् ॥ १७ ॥
क्षत्रं प्राणो वै क्षत्रं प्राणे हि वै क्षत्रं त्रायते हैनं प्राणः क्षणितो: प्रक्षत्रमत्र प्राप्नोति क्षत्रस्य सायुज्यं सलोकतां जयति य एवं वेद ||
इति अष्टादशं ब्राह्मणम् ॥ १८ ॥
भाष्यम्
उत्थापनादुक्थनामा मोक्षे प्राप्यो यतोऽखिलैः ।
यजुश्चाथ क्षतत्राणात्क्षत्रं सम्यक्त्वकारणात् ॥
सर्वेषां साम च प्रोक्तो वायुरेव जगत्पतिः ॥ इति च ॥
भावबोधटिप्पणी
प्रकृतमुख्यप्राणस्यैवोक्थत्वादिमाहात्म्यं तदुपासनार्थमाह- उक्थमिति ब्राह्मणेन ॥ तद्वाचष्टे - उत्थापनादिति । सर्वस्योत्थापनादित्यर्थः । अनेन प्राणो वा उक्थं प्राणो हीदं सर्वं उत्थापयतीत्येतद्व्याख्यातम् । प्राणो वा यजुः प्राणे हीमानि भूतानि सर्वाणि युज्यन्त इत्येतद्वाक्यं व्याचष्टे - मोक्ष इति || वायोर्ब्रह्मत्वानन्तरं यदा मोक्षस्तदा यद्वा मोक्षे अखिलैर्गम्ये सति अखिलैर्मुच्यमानैः प्राप्यः बायोर्ब्रह्मप्रापकत्वादित्यर्थः । प्राणो वै क्षत्रं त्रायते हैनं प्राणः क्षणितोरिति वाक्यं व्याचष्टे- अथेति । अथशब्दः प्रकारान्तरत्वद्योतकः । प्राणो वै साम प्राणे हीमानि सर्वाणि भूतानि सम्यञ्चीति वाक्यं व्याचष्टे – सम्यक्त्वेति || कारणत्वादित्यर्थः । अत्र सर्वत्रापि हेतुर्जगत्पतिरिति ।।
खण्डार्थः
उक्थमित्युपासीत किमुक्थमित्यत आह- प्राणो वा उक्थमिति । कु इत्यत आह- प्राणो हीति । उत्थापयति उत्पादयति । तथोपासकस्य फलमाह- उदिति ।। य एवं वेदास्मै ज्ञानिने उक्थवित् उक्थत्वेन प्राणज्ञानी वीरः पुत्रः उत्तिष्ठति ह न केवलमेतावत् य एवं वेद स उक्थस्योक्थनामकस्य प्राणस्य सायुज्यं सलोकतां च स्वयोग्यतानुसारेण जयति प्राप्नोति ||
यजुरित्युपासीत किं यजुरित्यत आह- प्राण इति ॥ कुत इत्यत आह- प्राणे हीति || मोक्ष इति शेषः । तथोपासकस्य फलमाह - युज्यन्त इति ॥ य एवं वेदास्मै अस्य श्रैष्ठ्याय सर्वाणि भूतानि युज्यन्ते ह अयं नः श्रेष्ठो भवत्विति प्रयतन्त इत्यर्थः । य एवं वेद स यजुषः यजुर्नामकप्राणस्य सायुज्यं सलोकतां च स्वयोग्यतानुसारेण जयति ॥
सामेत्युपासीत किं साम प्राणो वै साम कुतः हि यस्मादिमानि सर्वाणि भूतानि प्राणो निमित्तसप्तमीयं सम्यञ्चि सर्वभूतसम्यक्त्वकारणमित्यर्थः । य एवं वेदास्मै अस्य सर्वाणि भूतानि सम्यञ्चि कोऽपि न विरोधं करोतीत्यर्थः । न केवलमेतावत् अस्य श्रैष्ठ्याय च कल्प्यन्ते समर्था भवन्ति । साम्न इत्यादि पूर्ववत् ।।
क्षत्रमित्युपासीत किं क्षत्रं प्राणो वै क्षत्रं कुतः प्राण एव क्षत्रमित्य- तस्तत्प्रसिद्धमित्याह-- प्राणो हि क्षत्रमिति ॥ प्राणे क्षत्रशब्दं निर्वक्ति- त्रायत इति । प्राणः क्षणितोः क्षतादेनं जीवं त्रायते ह यस्मात्तस्मात्प्राणः क्षत्रं तथोपासकस्य फलमाह– प्रक्षत्रमिति ॥ य एवं वेद स प्रक्षत्रं प्राणादेव प्रकृष्टरक्षणं अक्षत्रं प्राणादन्येनारक्षणं च प्राप्नोति क्षत्रस्य क्षत्राख्यस्य प्राणस्य सायुज्यं सलोकतां च जयति ॥ ४ ॥
।। १५-१८ ब्राह्मणानि ||