ब्रह्म तं परादाद् योऽन्यत्रात्मनो ब्रह्म वेद ..

[ सर्वमपीदं विश्वं भगवदधीनम् ]

उपनिषत्

ब्रह्म तं परादाद् योऽन्यत्रात्मनो ब्रह्म वेद क्षत्रं तं परादाद् योऽन्यत्रात्मनो क्षत्रं वेद लोकास्तं परादुर् योऽन्यत्रात्मनो लोकान् वेद देवाः तं परादुः । योऽन्यत्रात्मनो देवान् वेद । भूतानि तं परादुः योऽन्यत्रात्मनो भूतानि वेद सर्वं तं परादाद् योऽन्यत्रात्मनो सर्वं वेद इदं ब्रह्म इदं क्षत्रमिमे लोका इमे देवा इमानि भूतानि इदं सर्वं यदयमात्मा ॥ ६ ॥

भाष्यम्

अन्यत्रात्मनो ब्रह्म वेद भगवदधीनत्वेन न वेद । तदनाश्रितत्वेन स्थानान्तरे च वेद । परादात् परतो लोकालोकस्यान्धे तमसि । इदं ब्रह्मादिकम् । यदयमात्मा । यत्रायमात्मा । अन्यत्र परिज्ञाने दोषोक्तेस्तत्र परिज्ञानं ह्युक्तं भवति । अन्यथा अन्यदात्मनो ब्रह्म वेदेति स्यात् । यदित्य- व्ययत्वाद् यत्रेत्यपि भवति । यथा यस्मादित्यर्थे । 'सप्तसु प्रथमा' इति च सूत्रम् ।

भावबोधटिप्पणी

ननु यदि ब्रह्मव्यतिरेकेणान्यस्याभावादेकविज्ञानेन सर्वविज्ञानं न तर्हि ब्रह्म तं परादाद् योऽन्यत्रात्मनो ब्रह्म वेदेत्युत्तरवाक्ये यः कोऽपि आत्मनोऽन्यत्र पार्थक्येन ब्रह्म ब्राह्मणजातिं वेद तं ब्राह्मणजातिः पराकुर्यादिति ब्रह्मव्यति- रेकेणान्यस्याभावप्रतिपादनम् असङ्गतं स्यादिति चेत् । न । स्यादेतदेवं यद्यत्र ब्रह्मव्यतिरेकेणान्यस्याभावप्रतिपादनं स्यात् । नचैवम् । किन्नाम एकविज्ञानेन सर्वविज्ञाने हेतुभूतप्राधान्यसाधकं जगतस्तदधीनत्वमेवोच्यत इति भावेन तदनूद्यान्यत्रेत्येतत्सावधारणमिति भावेन तद्व्यावर्त्यमाह- अन्यत्रेति ।। ननु ब्राह्मणजात्याद्यभिमानिचतुर्मुखादेर्भगवदधीनत्वाज्ञाने कथं तमःप्राप्तिरित्यतो नात्र भगवदधीनत्वाज्ञानमात्रे तात्पर्यम् । किन्तु तदनाश्रितत्वज्ञाने चेति भावेन तद् व्याचष्टेतदनाश्रितत्वेनेति || परादात् पराकुर्यादित्यल्पार्थत्वं निवारयंस्तदनूद्य परेत्यस्यापेक्षिताध्याहारेणार्थमाह- परादादिति || कथमनेना- प्यनर्थातिशयोक्तिरित्यत आह- अन्धे तमसीति ॥ ननु योऽन्यत्रात्मनो ब्रह्म वेदेत्यस्योक्तार्थत्वे इदं ब्रह्मेत्याद्युपसंहारवाक्येन ब्रह्मक्षत्रादेरात्मानतिरिक्तत्वो- क्तिरसङ्गता स्यात् । अस्माकं तु सुसङ्गतेत्यतस्तद्वाक्यं व्याचष्टे - इदमिति ॥ यदयमात्मेत्यनुवादः । यदित्यस्यार्थो यत्रेति । अयमिति यत्रेत्यधिकरणभूतः परमात्मा परामृश्यते । तथाच नायमभेदोपसंहारः । किन्तु ब्रह्मादीनां परमात्मा- श्रितत्त्वोक्तिरिति भावः । ननु यश्वासावयं चेति यदयं इत्यभेदोपसंहार एव किन्न स्यादित्यत आह- अन्यत्रेति । तत्रापरिज्ञाने चेत्यपि ग्राह्यम् । तत्र परमात्मनि । हिशब्दो हेतौ । उक्तं भवति अर्थात् । परस्परविरुद्धयोरन्य- तरनिषेधस्यान्यतरविधिव्याप्तत्वादित्यर्थः । हि यस्मात्तत्र परिज्ञानमुक्तं भवति तस्मान्नाभेदोपसंहारः तद्विरुद्धत्वादित्यर्थः । ननु नेयमन्यत्र परिज्ञाने दोषोक्तिः किन्तु भेदज्ञान एवेत्युक्तम् । अतो न तद्विरोध इत्यतो योऽन्यत्रात्मन इत्यस्यापव्याख्यानं दूषयति - अन्यथेति । अन्यत्र परिज्ञाने दोषोक्तित्वानङ्गीकारे भेदपरिज्ञान एव दोषोक्तित्वाङ्गीकारे च यो ब्रह्मात्मनोऽन्यद्वेदेत्येव स्यात्सप्तम्यास्त्रल्' इति विहितप्रत्ययान्तत्वेनान्यत्रेति प्रयोगो स्यादित्यर्थः । ननु भवत्पक्षेऽपि यत्रायमात्मेति स्यात् नतु यदयमित्यत आह- यदित्यव्यय- त्वादिति ॥ तत्र दृष्टान्तमाह - यथेति । यद्वा यदिति प्रथमान्तमेव सप्तम्यर्थ- मिति भावेन प्रथमायाः सप्तम्यर्थत्वे नियामकमाह- सप्तस्विति ॥