अथ हैनं जारत्कारव आर्तभागः पप्रच्छ याज्ञवल्क्येति होवाच

अथ आर्तभागब्राह्मणम्

[ इन्द्रियाणि कति ? इन्द्रियगोचरविषयाः कति ? ]

उपनिषत्

अथ हैनं जारत्कारव आर्तभागः पप्रच्छ याज्ञवल्क्येति होवाच । कति ग्रहाः कत्यतिग्रहाः इत्यष्टौ ग्रहा अष्टावतिग्रहा इति ये तेऽष्टौ ग्रहा अष्टावतिग्रहाः कतमे त इति ॥ १ ॥

प्राणो वै ग्रहः सोऽपानेनातिग्रहेण गृहीतोऽपानेन हि गन्धान् जिघ्रति ॥ २ ॥

वाग्वै ग्रहः स नाम्नाऽतिग्रहेण गृहीतो वाचा हि नामान्यभिवदति ॥३॥

जिह्वा वै ग्रहः स रसेनातिग्रहेण गृहीतो जिह्वया हि रसान् विजानाति ॥ ४ ॥

चक्षुर्वै ग्रहः स रूपेणातिग्रहेण गृहीतश्चक्षुषा हि रूपाणि पश्यति ॥ ५ ॥

श्रोत्रं वै ग्रहः स शब्देनातिग्रहेण गृहीतः श्रोत्रेण हि शब्दान् शृणोति ॥ ६ ॥

मनो वै ग्रहः स कामेनातिग्रहेण गृहीतो मनसा हि कामान् कामयते ॥ ७ ॥

हस्तो वै ग्रहः स कर्मणाऽतिग्रहेण गृहीतो हस्ताभ्यां हि कर्म करोति ॥ ८ ॥

त्वग्वै ग्रहः स स्पर्शेनातिग्रहेण गृहीतस्त्वचा हि स्पर्शान् वेदयत इत्येतेऽष्टौ ग्रहा अष्टावतिग्रहाः ॥ ९ ॥

[मृत्यदेवता का ? मृत्युमृत्युः कः ]

याज्ञवल्क्येति होवाच यदिदं सर्वं मृत्योरन्नं का स्वित्सा देवता यस्या मृत्युरन्नमित्यग्निर्वै मृत्युः सोऽपामन्नमप पुनर्मृत्युंजयति य एवं वेद ॥ १० ॥

[ ब्रह्मज्ञानी प्रारब्धमनुभूय मुक्तिमेति]

याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियत उदस्मात्प्राणाः क्रामन्त्याहो३ नेति नेति होवाच याज्ञवल्क्योऽत्रैव समवनीयन्ते स उच्छ्वयत्याध्मायत्याध्मातो मृतः शेते ॥ ११ ॥

[ अविनाशि वै नाम ]

याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियते किमेनं न जहातीति नामेत्यनन्तं वै नामानन्ता विश्वे देवा अनन्तमेव स तेन लोकं जयति ॥ १२ ॥

[उत्क्रमणकाले इन्द्रियमानिनां स्थितिः ]

याज्ञवल्क्येति होवाच । यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणश्चक्षुरादित्यं मनश्चंद्रं दिशः श्रोत्रं पृथिवीं शरीरमाकाशमात्मौषधीर्लोमानि वनस्पतीन् केशा अप्सु लोहितं च रेतश्च निधीयते क्वायं तदा पुरुषो भवतीत्याहर सोम्य हस्तमार्तभागाऽऽवामेवैतस्य वेदिष्यावो न नावेत् तत्सजन इति तौ होत्क्रम्य मंत्रयाञ्चक्राते तौ ह यदूचतुः कर्म हैव तदूचतुरथ यत्प्रशशंसतुः कर्म हैव तत्प्रशशंसतुः पुण्यो वै पुण्येन कर्मणा भवति पापः पापेनेति ततो ह जारत्कारव आर्तभाग उपरराम ॥ १३ ॥

इत्यार्तभागब्राह्मणम् ॥ २ ॥

भाष्यम्

आकाशं परमात्मानमेव ।

केचित्तु मानुषा मुक्तिमनुत्क्रम्यैव देहतः ।

देहपाते तु देहस्य दोषान् भुक्त्वैव सर्वशः ॥

मरणोच्छूनतांदींस्तु स्वकीयारब्धकर्मजान् ।

देहे क्षीणे तु गच्छन्ति दृष्ट्वा विष्णुमनुज्ञया ॥

पुनस्त्रैव तिष्ठन्ति नित्यानन्दैकभोगिनः ।

देहादुत्क्रम्य देवास्तु यान्ति विष्णुं सनातनम् ॥

भावबोधटिप्पणी

आकाशमात्मेत्यस्याऽऽत्मा आत्माभिव्यक्त्यधिष्ठानं हृदयाकाशं महाकाश- मप्येतीति व्याख्यानमसत् । आत्त्मशब्दस्य लाक्षणिकत्वापत्तेः । शरीरनियामक- परमात्मनः क्वचिद्गत्यनुक्तिप्रसङ्गाच्चेति भावेनाकाशशब्दं व्याचष्टे - आकाश- मिति ।। तथाचात्मा हृद्गत: परमात्माऽऽकाशं व्याप्तं स्वमूलरूपपरमात्मानमेवाप्येति गच्छतीत्यर्थ इति भावः । एतेनात्मा जीव आकाशमेतीति जीवगन्तव्यस्य स्वयमेवोक्तत्वात् क्वायं तदा पुरुषो भवतीति प्रश्नोऽयुक्त इत्येतदपि परास्तम् । ननु नेति होवाच याज्ञवल्क्य इति प्राणानामुत्क्रमणाभावोक्तिः कथम् ।तमुत्क्रामन्तं प्राणोऽनूत्क्रामति' (बृ. ६.४.२ ) इत्यादिविरोधादिति चेत्, न । प्राणा उत्क्रामन्ति नवेति प्रश्नवाक्यस्येन्द्रियाभिमानिदेवताविशिष्टो जीवोऽपरोक्षज्ञानी ब्रह्मनाड्योत्क्रामति नवेत्यर्थमभिप्रेत्य ज्ञानी उत्क्रामति नवेति प्रश्नस्य नेति परिहारात् । तथापि अपरोक्षज्ञानिन उत्क्रमणाभावोक्तिः कथम् ? ‘तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतनेनैष आत्मा निष्क्रामति' (बृ. ६.४.२ ) इत्युत्तरवाक्यविरोधादित्यतोऽधिकारविशेषपरतयेदं व्याचष्टेकेचित्त्विति || आत्मत्वमात्रोपासका अत्यल्पा मानुषा इत्यर्थः । यथोक्तम्– 'आत्मेत्येवं परं देवमुपास्य हरिमव्ययम् । केचिदत्रैव मुच्यन्ते नोत्क्रामन्ति कदाचन। अत्रैव च स्थितिस्तेषाम्' (ब्र.सू.भा. ४.४.१९) इति । स उच्छ्रयति आध्मायति आध्मातो मृतः शेत इत्यस्यार्थः- मरणोच्छूनतादीनिति ॥ नन्वपरोक्षज्ञानिन उत्तरपूर्वाघयोरश्लेषविनाशोक्तेर्दोषान्भुक्त्वैव सर्वश इति कथमुक्तं इत्यत उक्तम्स्वकीयारब्धकर्मजानिति ।। प्रारब्धकर्मणस्तु भोगेनैव क्षय इति भावः । अत एव सर्वशो भुक्त्वैवेत्युक्तम् । 'बहुनाऽत्र किमुक्तेन यावच्छ्रुतं न गच्छति । योगी तावन्न मुक्तः स्यात् ' ( ब्र.सू.भा. १.३.२) इत्युक्तेरत्रैव तिष्ठन्तीति कथमुक्तमित्यत आह- दृष्ट्वा विष्णुमिति ।। कृच्छ्रेद्वीपं गत्वा तत्र विष्णुं दृष्ट्वेत्यर्थः । अत्रैव समवनीयन्त इत्येतद् व्याचष्टे - अत्रैव तिष्ठन्तीति || पूर्वमप्यत्रैव स्थितत्वात्को विशेष इत्यतः संशब्दार्थमाहनित्यानन्दैकभोगिन इति । तथाच यत्रायं पुरुष इत्येतत् जात्येकवचनमित्युक्तं भवति । केचिदत्यल्पा मानुषा अपरोक्षज्ञानिनो देहपाते प्रत्यासन्ने स्वकीयारब्धकर्मजान् मरणोच्छूनतादस्तु देहस्य दोषान् सर्वशो भुक्त्वैव स्थितानां देहे क्षीणे देहतोऽनुत्क्रम्यैव ब्रह्मनाड्याऽनूत्क्रम्यैव चक्षुरादिद्वारान्तरेण निर्गत्य मुक्तिं लिङ्गभङ्गरूपां गच्छन्ति प्राप्नुवन्ति । तदनन्तरं सकृत् श्वेतद्वीपं गत्वा तत्र विष्णुं दृष्ट्वा तदनुज्ञया पुनरत्रैव भूलोक एव नित्यानन्दैकभोगिनः सन्तस्तिष्ठन्तीति योजना |

Load More