अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुः मैत्रेयी च कात्यायनी च
अथ मैत्रेयीब्राह्मणम्
[मैत्रेय्याः अध्यात्मनिष्ठा]
उपनिषत्
अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुः मैत्रेयी च कात्यायनी च । तयोर्ह मैत्रेयी ब्रह्मवादिनी बभूव स्त्रीप्रज्ञैव तर्हि कात्यायन्यथ ह याज्ञवल्क्योऽन्यद् वृत्तमुपाकरिष्यन् ॥ १ ॥
मैत्रेयीति होवाच याज्ञवल्क्यः प्रव्रजिष्यन् वा ओऽहमस्मात् स्थानादस्मि हन्त तेऽनया कात्यायन्याऽन्तं करवाणीति ॥ २ ॥
सा होवाच मैत्रेयी यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात् स्यां न्वहं तेनामृताऽहो नेति नेति होवाच याज्ञवल्क्यो यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यादमृतत्वस्य तु नाशाऽस्ति वित्तेनेति ॥ ३ ॥
सा होवाच मैत्रेयी येनाहं नामृता स्यां किमहं तेन कुर्यां यदेव भगवान् वेत्थ तदेव मे ब्रूहीति ॥ ४ ॥
स होवाच याज्ञवल्क्यः प्रिया वै खलु नो भवती सती प्रियामवृद्धं तर्हि भवत्येतद् व्याख्यास्यामि ते व्याचक्षाणस्य तु मे निदिध्यासस्वेति ॥ ५ ॥
भाष्यम्
प्रियां वाचमवर्धयद् भवती ।
भावबोधटिप्पणी
प्रिया बै खलु नो भवती सती प्रियामवृधदित्यत्र प्रियमवृधद् वृद्धमभवदिति यथाश्रुतप्रतीतिरनुपपन्ना प्रियस्य स्वत एव वर्धनायोगाद् भवती त्वं पूर्वमपि नः प्रियैव सतीदानीमतिप्रियं प्रीतिमवृधद् वर्धितवत्यसीति व्याख्यानमयुक्तम् । अवृधदित्यस्य अन्तर्णीतणिच्त्वेन यथाश्रुतेनैवोपपत्तौ त्वमित्यध्याहृत्य तदुपपत्तये वर्धितवत्यसीति प्रतिपादनायोगात् बह्वध्याहारापाताच्च । प्रियशब्दस्य प्रीतिविषय- वाचकत्वेन प्रीतिवाचकत्वायोगाच्च । प्रियं भाषस इति प्रागुक्तविरोधाच्चेति भावेन प्रियमवृधदिति वाक्यं कर्तृप्रदर्शनपूर्वकं व्याचष्टे - प्रियामिति । तथापि प्रियं वचनमिति वक्तव्यमिति चेत्सत्यं अर्थानुवादोऽयमित्यदोषः । शाखान्तरा- भिप्रायेण वा । एतदुपनिषत्पुस्तकेष्वपि क्वचित्प्रियामवृधदिति पाठोपलम्भाच्च ।