अन्धन्तमः प्रविशन्ति येऽविद्यामुपासते

[मिथ्याज्ञाननिन्दा कर्तव्या]

उपनिषत्

अन्धन्तमः प्रविशन्ति येऽविद्यामुपासते ।

ततो भूय इव ते तमो य उ विद्यायां रताः ॥ १० ॥

भाष्यम्

अन्यथोपासका येSस्य ते यान्ति ह्यधरं तमः ।

ततः किञ्चिद् विशेषेण दुर्ज्ञानस्याविनिन्दकाः ।

सम्यगाचार्यवचनमविज्ञाय विरोधिनि ।

सत्वबुद्धिं यतः कुर्युरतस्तेऽधिकपापिनः ।

अप्राप्तत्यागिनः प्राप्तनिष्ठाहीनो हि दोवान् ।

भावबोधटिप्पणी

अन्धन्तमः प्रविशन्तीति मन्त्रमप्रतीत्यन्यथाप्रतीतिनिरासाय प्रमाणेन व्याचष्टे- अन्यथेति ॥ श्रुतावविद्यापदं विषयिवाचकं विषयस्यान्यथाकारस्य लक्षकमित्यभिप्रेत्याविद्यामुपासत इत्येतत् अन्यथोपासका इति व्याख्यातम् | ततः अन्यथोपासकप्राप्यतमसः । भूय एवेत्यस्यार्थमाह्किञ्चिद्विशेषेणेति ॥ श्रुतावुशब्दोऽवधारणार्थो विद्यायामित्यनेन सम्बद्ध्यते । तेन विद्यायां यथार्थज्ञान एव रताः नत्वन्यथाज्ञाननिन्दां कुर्वन्तीत्येषोऽर्थो लभ्यते । अत उक्तम्-दुर्ज्ञानस्याविनिन्दका इति । अन्यथोपासकापेक्षा दुर्ज्ञाना विनिन्दकाः किञ्चिद् विशेषेण तमो यान्तीति कुत इति चेन्न । तदपेक्षया तेषामधिकपापित्वात् । तदपि कुतः । उभयोरपि दुर्ज्ञानाविनिन्दकत्वाविशेषादित्यत आह- सम्यगिति || विद्यायां रता इत्युक्तत्वेन तेषां समीचीनाचार्योपदेश- स्तावत्प्राप्तः । सम्यगाचार्यवचनं ब्रह्मनिर्गुणत्वादिनिन्दापरं सम्यगबाधितार्थं अविज्ञायाचार्योक्तार्थविरोधिनि ब्रह्मनिर्गुणत्वादौ सत्वबुद्धिं यतः कुर्युस्ततस्ते अन्यथोपासकापेक्षयाऽधिकपापिन इत्यर्थः । नत्वन्यथोपासका अपि ब्रह्मनिर्गुणत्वादौ सत्वबुद्धिकारिण एव ततः कथं ते अधिकपापिन इत्यत आह-- अप्राप्तत्यागिन इति । अन्यथोपासको ह्यप्राप्तत्यागी तस्य विद्यारतत्वाभावेन समीचीनाचार्योपदेशाभावे दुर्ज्ञाननिन्दनस्याप्राप्तत्वात् । अयं तु प्राप्तनिष्ठाहीनः सम्यगाचार्योपदेशप्राप्ते दुर्ज्ञाननिन्दने निष्ठाशून्यत्वात् । अप्राप्तत्यागिनः प्राप्तनिष्ठाहीनो ह्यधिकदोषवानिति । आचार्योपदेशाभावेन अप्राप्तनित्यकर्मादि- त्यागिनः आचार्योपदेशादिना प्राप्तनित्यकर्मादौ निष्ठाहीनो दोषवानिति लोकप्रसिद्धमिति हिशब्देन दर्शयति ॥ १० ||