अथ होवाच ब्राह्मणा भगवन्तो यो वः कामयते

उपनिषत्

अथ होवाच ब्राह्मणा भगवन्तो यो वः कामयते स मा पृच्छतु सर्वे वा मा पृच्छत यो व कामयते तं वः पृच्छामीति सर्वान् वा वः पृच्छामीति ते ह ब्राह्मणाः न दधृषुः ॥ २७ ॥

तान् हैतैः श्लोकैः पप्रच्छ ।

यथा वृक्षो वनस्पतिस्तथैव पुरुषोऽमृषा ।

तस्य लोमानि पर्णानि त्वगस्योत्पाटिका बहिः ॥ २८ ॥

त्वच एवास्य रुधिरं प्रस्यंदि त्वच उत्पटः ।

तस्मात् तदा तृणात् प्रैति रसो वृक्षादिवाऽहतात् ॥ २९ ॥

मांसान्यस्य शकराणि किन्नाटं स्राव तत्स्थिरम् ।

अस्थीन्यन्तरतो दारूणि मज्जा मज्जोपमा कृता ॥ ३० ॥

यद्वृक्षो वृक्णो रोहति मूलान्नवतरः पुनः ।

मर्त्यः स्विन् मृत्युना वृक्णः कस्मान्मूलात् प्ररोहति ॥ ३१ ॥

[सृष्ट्यादौ जीवानां वृक्षाणां च जनकः कः? ]

रेतस इति मा वोचत जीवतस्तत्प्रजायते ।

धानारुह इव वै वृक्षोऽञ्जसा प्रेत्य सम्भवः ॥ ३२ ॥

यत्समूलमावृहेयुर्वृक्षं न पुनराभवेत् ।

मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात् प्ररोहति ॥ ३३ ॥

[विज्ञानमानन्दं ब्रह्म]

जात एव न जायते को न्वेनं जनयेत् पुनः ।

विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम् ॥ तिष्ठमानस्य तद्विद इति ॥ ७ ॥ ३४ ॥

॥ इति शाकल्यब्राह्मणम् ।। ५-९ ।।

|| इति पञ्चमोऽध्यायः ॥

भाष्यम्

यथा वनस्पतौ वृक्ष इत्ययं शब्दोऽमृषा तथैव पुरुषे पुरुषशब्दो विद्यमान एव । स च नित्यत्वे सम्भवति । पुरुकालेऽपि सन् पुरुष इति । स्रावमध्ये यत् स्थिरं विद्यतेऽस्थि सल्लीनं तद्दारुसंश्लिष्टपाशवत् ।

वृक्षो मूलाद् रोहतीत्यङ्गीकारमात्रम्। यत्समूलमावृहेयुरिति तस्यापि दूषणात् । अन्यस्य रेतसो जननमपि जीवतः पुरुषान्तरस्य भावे । प्रलये तु सर्वप्रलयात् कस्मादुत्पत्तिः ?

भावबोधटिप्पणी

यथा वृक्षो वनस्पतिस्तथैव पुरुषो मृषेत्यत्र मृषेति पदच्छेदोऽनुपपन्नः । वृक्षमिथ्यात्वस्यासिद्धत्वेन दृष्टान्तत्वेनोपादानायोगात् । पुरुषमिथ्यात्वस्य प्रमाणबाधितत्वाच्च । अमृषेति पदच्छेदेऽपि अर्थसत्यत्वप्रतिपादनपरत्वे वनस्पतिशब्दो व्यर्थः स्यात् । नच वनस्पतिरिति वृक्षस्य विशेषणमिति वाच्यम्। पर्याययोर्विशेषणविशेष्यवाचकत्वानुपपत्तेरिति भावेन तद्वाक्यं यथावद् व्याचष्टेयथेति ॥सप्तसु प्रथमा' इति सूत्राद् वनस्पतिरिति प्रथमा सप्तम्यर्थे । श्रुतौ वृक्ष इत्यनन्तरम् इतिशब्दाध्याहारः । अर्थशास्त्रे प्रयुक्तस्य इतिशब्दस्य शब्दपदार्थकत्वमिति तलब्धार्थोक्तिः || अयंशब्द इति ।। अमृषां विद्यमानार्थक एव वृक्षशब्दप्रवृत्तिनिमित्तवृक्षत्वस्य तत्र सत्त्वात् । पुरुषे पुरुषशब्द इत्यनेन श्रुतौ पुरुषशब्द आवर्तनीय इत्युक्तं भवति । अमृषेत्यस्याविद्यमानार्थी नेत्यर्थमभिप्रेत्य लब्धमर्थमाह - विद्यमानो विद्यमानार्थ एवेति ॥ ननु मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहतीति प्रष्टव्यार्थानुपयुक्तमेतदित्यत आह- स चेति || चशब्दः प्रकृतानुसन्धानार्थः । एतस्योपयोगमुत्तरत्र वक्ष्यति । विद्यमानार्थकः पुरुषशब्दो वाच्यस्य नित्यत्वे सम्भवति । कुत इत्यतः पुरुंषशब्दस्य नित्यत्वार्थकत्वादिति भावेन पुरुषशब्दार्थमाह- पुरुकालेऽपीति | किनाटं स्नावतत्स्थिरमिति वाक्यं अप्रतीतेर्व्याचष्टे - स्नावमध्ये इति ॥ नवेति अविभक्तिको निर्देशः । विभक्तिश्च षष्ठीति भावेनोक्तं स्नावमध्य इति । श्रुतौ तच्छन्दश्रवणाद् यदिति लभ्यते । अस्थिसंलीनं संलग्नमित्यर्थः। दारुसंश्लिष्टपाशेति किनाटशब्दार्थः । ननु कस्मान्मूलात् प्ररोहतीत्यत्र वृक्षः कस्मान्मूलात् प्ररोहतीत्यस्यार्थोऽभिमतः स न युक्तः । यदवृक्षो वृक्णो रोहति मूलान्भवतरः पुनरिति वृक्षस्य मूलशब्दवाच्य- भूगतवृक्षभागकारणकत्वस्योक्तत्वेन सिद्धविषयत्वादित्यतस्तद्वाक्यतात्पर्यमाहवृक्ष इति । तत्र हेतुमाह - यत्समूलमिति ॥ रेतस इति मा वोचतेत्यत्र जीवतस्तत्प्रजायत इति कथं हेतुरुच्यत इत्यतस्तदभिप्रायमाह - अन्यस्येति ॥ अन्यस्य सृज्यस्य पुरुषान्तरस्य रेतसि चेत्यर्थः । पुरुषान्तरसद्भावोऽपि स्यादित्यत आह- प्रलये त्विति ॥ अनेन असा प्रेत्य इत्यस्य तात्पर्यमुक्तं भवति ।

Load More