ॐ उषा वा अश्वस्य मेध्यस्य शिरः ..

उपनिषत्

अथ अश्वब्राह्मणम्

[ अङ्गाश्रितदेवतावर्णनपूर्वकं यागाश्वनिरूपणम् ]

ॐ उषा वा अश्वस्य मेध्यस्य शिरः सूर्यश्चक्षुर्वातः प्राणो व्यात्तमग्निर्वैश्वानरः । संवत्सरः आत्मा अश्वस्य मेध्यस्य । द्यौः पृष्ठमन्तरिक्षमुदरं, पृथिवी पाजस्यं, दिशः पार्श्वे । अवान्तरदिशः पर्शवः । ऋतवोऽङ्गानि मासाश्चार्धमासाश्च पर्वाण्यहोरात्राणि प्रतिष्ठा । नक्षत्राण्यस्थीनि नभो मांसान्युवध्यं सिकताः सिन्धवो गुदा यकृच्च क्लोमानश्च पर्वता ओषधयश्च वनस्पतयश्च लोमान्युद्यन् पूर्वार्धो निम्लोचन् जघनार्धो यद्विजृम्भते तद्विद्योतते यद्विधूनुते तत्स्तनयति यन्मेहति तद्वर्षति वागेवास्य वाक्॥ १ ॥ इति प्रथमम ब्राह्मणम् ॥ ३१ ॥

भाष्यम्

अश्वस्वरूपो ब्रह्माऽभूदश्वरूपाज्जनार्दनात् ।

तत्र सन्निहितो विष्णुरश्वरूपः स्वयं प्रभुः ॥

तयोश्च प्रतिमा मेध्यो यतोऽश्वोऽयं श्रुतौ श्रुतः ।

सर्वं जगत्तदङ्गेषु तस्मात्सन्निहितं स्मृतम् ॥

तयोरङ्गेष्विदं यस्माज्जगत्सर्वं प्रतिष्ठितम् ॥ इति प्रध्याने ॥

उच्चैःश्रवाः सन्निहितो मेध्येऽश्वे तत्र केशवः ।

तस्मिन्निदं जगत्सर्वं ब्रह्मा चोच्चैःश्रवः स्थितः ॥ इति सौपर्णे ॥

पर्वताः सिकताश्चैव नद्यः कूपाः सरांसि च ।

हविः कपालयूपाद्या देवता एव सर्वशः ॥

तत्तन्नामैव नामैषां भिन्नानामभिमानतः ।

नामानि तान्यपि हरेः स हि सर्वगुणाधिकः ॥ इति नारदीये ||

भावबोधटिप्पणी

अथ भाष्यार्थः

पूर्वमन्तःकरणशुद्धिद्वारा ब्रह्मविद्याधिकारार्थमश्वमेधो निरूपितः । कर्मणा शुद्धान्तःकरणस्य सुविरक्तस्य ब्रह्मस्वरूपं निरूपयति- उषा वा अश्वस्य मेध्यस्येत्यादिकया समग्रोपनिषदा ॥ ननु तदप्यध्यायद्वयं कुतो न व्याख्यात- मिति चेन्न । तस्य कर्मकाण्डत्वेनाब्रह्मविद्यात्वात् परैरव्याख्यातत्वेनान्यथा- प्रतीत्यभावाच्चेति । तत्राऽदौ प्रकृताश्वमेधयागे मेध्यभूताश्वनिष्ठब्रह्मविद्यामाह- उषा इति ।। तत्र मेध्यस्याश्वस्योषआदिसर्वजगदाश्रयत्वं प्रतीयते । तदीशलिङ्गम् । अतोऽयुक्तमित्यतस्तद्घटयति- अश्वेति । तत्र अश्वरूपे चतुर्मुखे । अस्त्वेवं, किं ततः प्रकृते । नह्यत्राश्वरूपो विष्णुर्विरिञ्च वा प्रतिपाद्यः । मेध्यस्याश्वस्य श्रवणादित्यत आह- तयोरिति ।। तयोः विष्णुब्रह्मणोः । तदङ्गेषु मेध्याश्वाङ्गेषु । ननु मेध्याश्वस्य विष्णुविरिञ्च प्रतिमात्वेऽपि तदङ्गेषु जगत्सन्निहितमित्युक्तिः कथमित्यत आह- तयोरिति । विष्णुविरिञ्श्वयोरित्यर्थः । ननूच्चैःश्रवाः मेध्याश्वे तिष्ठतीति कचिदुक्तेः कथं विष्णुब्रह्माणी तत्र तिष्ठत इत्युक्ति- रित्यतस्तद्घटयतिउच्चैःश्रवा इति । कर्माङ्गस्य पशोः संस्कर्तव्यत्वात्कालादिदृष्टयः शिरआदिषु क्षिप्यन्त इत्यन्यैः खण्डतात्पर्यमुक्तं तदप्यनेनापहस्तितं भवति । अप्रामाणिकत्वात् । मिथ्यादृष्टित्वेन तस्य पशुसंस्काररूपत्वाभावाच्च । पर्वतादिशब्दानां प्रसिद्धपर्वतादिपरत्वमन्यैरुक्तं तन्निरासार्थं तेषां देवतापरत्वं प्रमाणेनाऽह - पर्वता इति ॥ सिकताश्चैवेत्येवकारः चशब्दार्थः । अन्यथासूर्यश्चक्षुःइत्यादिदेवतोपक्रमविरोधः स्यादिति भावः । ननु तर्हि 'सूर्यचक्षुः ' इत्यादिवद् देवतावाचकपदप्रयोगः स्यादित्यत आह- तत्तन्नामैवेति ।। पर्वताद्यभेदात् किं तेषां तन्नामेत्यतस्तदभिमानादित्याह - भिन्नानामिति ।। तर्हि विष्णोः पर्वताद्यभिमानाभावात् 'नामानि सर्वाणि' इति श्रुत्यादौ कथं पर्वतादिशब्दवाच्यत्वोक्तिरित्यत आह- नामानीति ।। तान्यपि अन्यवाचकत्वेन प्रतीतान्यपि मुख्यया वृत्त्येति शेषः । तत्र हेतुमाहहीति ॥ तत्तच्छब्दनिर्वचनलभ्यगुणैरधिको हि यस्मादित्यर्थः ।