यत्ते कश्चिदब्रवीत् तच्छृणवामेत्यब्रवीत्

[वाङ्नामकभगवदुपासना ]

उपनिषत्

यत्ते कश्चिदब्रवीत् तच्छृणवामेत्यब्रवीत् । मे जित्वा शैलिनिर्वाग्वै ब्रह्मेति यथा मातृमान् पितृमानाचार्यवान् ब्रूयात् तथा तच्छैलिनोऽब्रवीद् वाग्वै ब्रह्मेत्यवदतो हि किं स्यादित्यब्रवीत् तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य वागेवायतनमाकाशः प्रतिष्ठा प्रज्ञेत्येनदुपासीत का प्रज्ञता याज्ञवल्क्य वागेव सम्राति होवाच वाचा वै सम्राड् बन्धुः प्रज्ञायत ऋग्वेदो यजुर्वेदो सामवेदोऽथर्वांगिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानीष्टं हुतमशितं पायितमयं च लोकः परश्च लोकः सर्वाणि च भूतानि वाचैव सम्राट् प्रज्ञायन्ते वाग्वै सम्राट् परमं ब्रह्म नैनं वाग्जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥२॥

भाष्यम्

प्रतिष्ठा प्रतिमा प्रोक्ता प्रतिरूपेण संस्थिते: ।

प्रतिमाऽधिकसादृश्यान्मुख्या विष्णोः सदा रमा ||

दीप्तत्वादासमन्तात् सा चाऽकाश इति गीयते ।

प्रत्येकं विष्णुरूपाणामन्यदायतनं पृथक् । इत्यध्यात्मे ॥

प्रतिमानामवस्थानं रहस्यं नाम सार्थकम् ।

चतुष्टयं यदा ज्ञातं सम्यग् विद्याफलं तदा ।। इति च ॥

का प्रज्ञता वागेवेत्यादेर्धर्मधर्म्यभेदः ।

भावबोधटिप्पणी

अब्रवीत्तु ते तस्यायतनं प्रतिष्ठामित्यादिवाक्यषट्कगतप्रतिष्ठाशब्द आश्रयपर इति व्याख्यानमसत् आयतनशब्देन पुनरुक्तिप्रसङ्गादिति भावेन प्रतिष्ठाशब्दार्थं निर्वचनपूर्वकमाह - प्रतिष्ठेति । प्रतिरूपेण प्रतिबिम्बरूपेण प्रतिष्ठाशब्दोक्ता प्रतिमा केत्यत आह- प्रतिमेति । रमा विष्णोर्मुख्या प्रतिमा ब्रह्मादीनामपि प्रतिमात्वान्मुख्येत्युक्तं तत्र हेतुर्विष्णोरधिकसादृश्यादिति । तदधीनत्वे सति तत्सदृशत्वस्यैव प्रतिबिम्बत्वादिति भावः । नित्यमुक्तत्व देशव्याप्त्याद्यधिक- सादृश्यादित्यर्थः । सदेति स्वरूपकीर्तनम् । यद्वा मुक्तानामपि स्वानन्दानुभवितृ- त्वादिनाऽधिकसादृश्यात्सदेत्युक्तम् । ननु श्रुतावाकाशः प्रतिष्ठेत्याकाशस्य प्रतिमात्वोक्तेः कथमेतदित्यत आकाशशब्देन रमैवोच्यत इत्याह- दीप्तत्वादिति ॥ आ इत्यनुवादेन समन्तादिति व्याख्यानम् । ननु एकस्य विष्णोर्यथैकैव प्रतिमा एवमेकमेवाऽयतनं वक्तव्यं कथं वागादीनि षडायतनान्युक्तानीत्यत आहप्रत्येकमिति ।। वाक् प्राणचक्षुः श्रोत्रमनोहृदयनामकानां प्रत्येकं विष्णुरूपाणां अन्यत् रमाभिन्नं वागिन्द्रियादिकं पृथगायतनमित्यर्थः । ननु वाग् वै ब्रह्मेत्याद्युपदिष्टस्य वागादिनामकब्रह्मणः पूर्णत्वात् एकपाद् वा एतत्सम्राळिति कथमुच्यत इत्यतः तदभिप्रायमाह - प्रतिमानमिति । प्रतिमेत्यर्थः । सार्थकं प्रतिपाद्यार्थसहितं रहस्यं नामेति सम्बन्धः । रहस्यं नाम तदर्थश्चेति चतुष्टयमित्यर्थः । विद्या फलं सम्यगिति सम्बन्धः । तथाच विद्यासम्पूर्णफलाय ज्ञातव्यचतुष्टये जित्वादिभिः षड्भिराचार्यैर्वाग्वै ब्रह्मेत्यादिना रहस्यं नामैवोक्तं न प्रतिष्ठादित्रयं अत एकपाद् वा एतदित्युक्तमिति भावः । ननु का प्रज्ञता का प्रियतेत्यादि धर्मप्रश्ने वाक् प्राणादिनिष्ठो धर्म एवोत्तरत्वेन वक्तव्यः वागेव सम्राळिति प्राण एवं सम्राळिति वाक् प्राणादिरूपो धर्मी कथमुत्तरत्वेनोच्यत इत्यत आह- केति । इत्यादेः प्रश्नपरिहारात्मकस्य वाक्यस्य धर्मधर्म्यभेदोऽभिप्रेत इत्यर्थः ।

Load More