जीवेश्वराभेदाङ्गीकारे 'सुषुप्त्युत्क्रान्त्योर्भेदेन' इति सूत्रविरोध:
[सर्वप्रमाणविरद्धः जीवेश्वराभेदः ]
भाष्यम्
जीवेश्वराभेदाङ्गीकारे 'सुषुप्त्युत्क्रान्त्योर्भेदेन' इति सूत्रविरोध: । 'प्राज्ञेना- त्मनाऽन्वारूढः प्राज्ञेनात्मना सम्परिष्वक्तः' इत्यादि श्रुतिविरोधश्च । नच व्यावहारिकभेदो नाम कश्चिदस्तीत्यत्र किश्चिन्मानम् । भ्रान्तिभेदत्वे श्रुतिसिद्धत्वमेव न स्यात् ।
भावबोधटिप्पणी
अस्त्वेवं स वा अयमात्मेत्यादिकमीश्वरपरं, बाधकाभावाज्जीवपरमपि किन्न स्यात् । नच ब्रह्मेति विशेषणाच्चेति बाधकमप्युक्तमिति वाच्यम् । जीवस्य ब्रह्माभिन्नत्वाभिप्रायेण तद्विशेषणसम्भवादिति चेन्न । स्यादेतदेवं यदि जीवेश्वराभेद एव भवेत् नचैतदस्ति तदङ्गीकारे प्रमाणविरोधापत्तेरिति भावेन तावत्सूत्रविरोधमाह— जीसुषुप्त्युत्क्रान्त्योः प्रकरणयोः जीवस्य परमात्मनो भेदेन व्यपदेशान्न जीवस्येश्वराभेद इत्यर्थः । सूत्रोपात्तश्रुतिविरोधं च दर्शयति- प्राज्ञेनेति ।। ननु श्रुतिसूत्रयोर्जवेश्वरभेदोक्तावपि न तयोरभेदाङ्गीकारे तद्विरोधः । श्रुतिसूत्रयोर्मिथ्याभूतभेदपरत्वेन पारमार्थिकाभेदाविरोधित्वादिति चेन्न । सुषुप्त्युत्क्रान्तिप्रकरणयोः मोक्षपरतायाः प्रागुपपादितत्वात् । मोक्षे च विद्यमानस्य भेदस्य मिथ्यात्वं नाम परिभाषामात्रम् । किञ्च जीवेश्वरभेदस्य मिथ्यात्वे स भेदः किं व्यावहारिकः प्रतिभासिको वा भवेत् । न तावदाद्यः जीवेश्वरभेदस्य व्यावहारिकत्वे प्रमाणाभावात् । न तावत्तत्र प्रत्यक्षं मानं ईश्वरस्याप्रत्यक्षत्वात् । प्रत्यक्षस्य भेदव्यावहारिकत्वागोचरत्वाच्च । अनुमानं तु स्यात् यदि कोऽपि भेदो व्यावहारिके भवेत् । तत्सत्वे तद्दृष्टान्तेनास्यापि भेदस्य व्यावहारिकत्वानुमानसम्भवात् । नच तदस्ति तत्र प्रमाणाभावादित्याह- नचेति । यद्वा प्रमाणाभावेन भेदमात्रस्यैव व्यावहारिकत्वाभावे जीवेशभेदव्यावहारिकत्वस्य सुतरामयुक्तत्वादित्याह - नचेति । द्वितीयं दूषयति- भ्रान्तिभेदत्व इति ॥ भ्रान्तिसिद्धभेदत्वे प्रातिभासिकत्वे इति यावत् । यद्वा मास्तु व्यावहारिको भेदः कश्चिदस्तीत्यत्र किञ्चित्प्रमाणम् । तथापि भ्रान्तिसिद्धश्चन्द्रभेदोऽस्त्येव । तथाच तद्दृष्टान्तेन जीवेशभेदस्यापि भ्रान्तिसिद्धत्वसिद्धेः तत्परत्वं श्रुतिसूत्रयोः स्यादित्यत आह - भ्रान्तिभेदत्व इति ॥