किन्तु विष्णुः पृथक् सर्वदेवदेवेश्वरः प्रभुः

[जीवब्रह्मभेदज्ञानमेव मोक्षसाधनम् ]

भाष्यम्

किन्तु विष्णुः पृथक् सर्वदेवदेवेश्वरः प्रभुः ।

पृथगेवाहमत्यल्पशक्तिज्ञानसुखादिकः ॥

इत्येव विद्धि सततमतो मोक्षमवाप्स्यसि ।

सर्वोत्तम इति ज्ञातो विष्णुर्मोक्षमिमं नयेत् ॥

जीवरूपतया ज्ञातस्तमोऽन्धं प्रापयेत् प्रभुः ।

विष्णोर्दासतया विष्णोः सामीप्यं मोक्ष उच्यते ॥

न विष्णुत्वं तु मोक्षः स्यादेषोऽहमिति वा स्मृतेः ।

संसारसागरात्तीर्णो मुक्तोऽहमिति वा स्मृतिः ॥

यदा तदा विमोक्षेण किं फलं ज्ञानिनो भवेत् ।

यथा मधुकरैर्नानाविधपुष्परसः सह ॥

मधुत्वं प्रापितः संविदभावान्न सुखी भवेत् ।

भावबोधटिप्पणी

तर्हि कथं ज्ञेयमिति पृच्छति - किन्त्विति । तदुत्तरत्वेन त्वमतत् तस्मादन्योऽसीत्यर्थमभिप्रेत्य तदभिप्रायमाह - विष्णुरिति ॥ कुतो भेदः प्रतिपत्तव्य इत्यतः सर्वेति अत्यल्पेति च भेदकधर्मोक्तिः । पृथगेवेति भेदाभेदनिरासायैवकारः । किमर्थम् एवं ज्ञातव्यमित्यत आह- अत इति ।। सर्वदेवेश्वरत्वादिना भेदज्ञानादित्यर्थः । एवं सति मोक्षसाधने ज्ञानस्यैव स्वातन्त्र्यं न मन्तव्यमित्याह - सर्वोत्तम इति ॥ इमं ज्ञातारं न त्वं तथा विद्धीत्युक्तं तथा ज्ञानेऽनिष्टमाह - जीवेति ॥ ननु विष्णुत्वप्राप्तिरूपो मोक्षः कथं भेदज्ञानात् स्यादित्यत आह- विष्णोरिति ॥ सुप्तेरपि मोक्षत्व - परिहारायोक्तम्- दासतयेति || दासत्वज्ञानेनेत्यर्थः । इत्थम्भावलक्षणे तृतीया । मुक्तियोग्यसंसारिणामपि विष्णुदासत्वज्ञानस्य मोक्षत्वप्रसङ्गपरिहाराय विष्णोः सामीप्यमित्युक्तम् । विष्णुत्वमेव कुतो न मोक्ष इत्यत आह- एषोऽहमिति ।! यदि विष्णुत्वं मोक्षः स्यात् तदैष विष्णुरहमिति मुक्तेन प्रतिसन्धीयेत । नच तत्प्रतिसन्धानमस्ति । अतो न विष्णुत्वं मोक्ष इत्यर्थः । वाशब्दः प्रमाणान्तरसमुच्चयार्थः । ननु विद्यमानमपि विष्णुत्वं न ज्ञायत इति चेत् न । तथा सति इष्टत्वाविशेषेण प्रतिबन्धकाभावाविशेषेण च संसारतीर्णत्व- मुक्तत्वयोरपि ज्ञानाभावप्रसङ्गात् । अस्तु तदपीति चेत्तत्राऽह - संसारेति ।। विमोक्षेण किं फलं तदनुभवस्यैव पुरुषार्थत्वादिति भावः । ननु विशिष्टवस्तुत्वा- पत्तेरेव पुरुषार्थत्वोपपत्तौ किं तज्ज्ञानेनेत्यत आह- यथेति । तथा विष्णुत्वं प्राप्तोऽपि न सुखी भवेदिति शेषः । अनेन 'यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति' इति खण्डतात्पर्यमुक्तम् ।।

Load More