यदेव ते कश्चिदब्रवीत् तच्छृणुवामेत्यब्रवीत् ..

[ चक्षुर्नामक भगवदुपासना ]

उपनिपत्

यदेव ते कश्चिदब्रवीत् तच्छृणुवामेत्यब्रवीत् मे बर्कुः वार्ष्णः चक्षुः वै ब्रह्मेति यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तद्वार्ष्णोऽब्रवीच्चक्षुर्वै ब्रह्मेत्यपश्यतो हि किं स्यादित्यब्रवीत् तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत् सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य चक्षुरेवायतनमाकाशः प्रतिष्ठा सत्यमित्येनदुपासीत का सत्यता याज्ञवल्क्य चक्षुरेव सम्राडिति होवाच चक्षुषा वै सम्राट् पश्यन्तमाहुरद्राक्षीरिति स आहाद्राक्षमिति तत्सत्यं भवति चक्षुर्वै सम्राट् परमं ब्रह्म नैनं चक्षुर्जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ४ ॥

भाष्यम्

यचक्षुपि स्थितं रूपं विष्णोश्चक्षुस्तदुच्यते । शब्दादेरप्यापरोक्ष्ये तद्धेतुर्विश्वनामकम् ॥ तद्गतस्य ततो विष्णोः कण्ठस्थानागमो यदा । तदा स्वप्नो भवेज्जाग्रद्दर्शनं नैव जायते । चक्षुर्निमीलनं च स्यात् सर्वेन्द्रियगुणैः सह । चक्षुरात्मा ततो विष्णुः सत्यमित्यभिधीयते ।। इति च ॥

भावबोधटिप्पणी

चक्षुर्वै ब्रह्मेत्यादी चक्षुः शब्देन नेन्द्रियमात्रमुच्यते । किन्तु विष्णुरूपमेवेत्यत्र प्रमाणान्तरमाहयदिति । ननु चक्षुषां वै सम्राट् पश्यन्तमाहुरित्यादिना चक्षुरिन्द्रियस्यैव सत्यत्वमुपपाद्यते । तत्कथमेतदित्यतस्तदपि चक्षुर्नामकभगवत एव सत्यत्वोपपादकमित्यभिप्रेत्याद्राक्षीरिति स आहाद्राक्षमित्यादिक- मुपलक्षणपरमिति भावेन चक्षुः स्थभगवद्रूपविशेषं दर्शयन्नाह शब्दादेरिति । आदिपदेन गन्धादिग्रहणम् अपिशब्देन रूपसमुच्चयः । दक्षिणाक्षिस्थविश्वनामक- विष्णुरूपस्य जाग्रद्दर्शनमात्रहेतुत्वादिति भावः | विश्वनामक विष्णो रूपादिसाक्षात्कारहेतुत्वं व्यतिरेकेणोपपादयति - तद्गतस्येति ।। चक्षुर्गतस्येत्यर्थः ततश्चक्षुषः कुतो न जायत इत्यत आह- चक्षुर्निमीलनमिति ।। स्वप्नावस्थायां श्रोत्रादिसर्वेन्द्रियगुणैर्व्यापारैस्सह चक्षुर्निमीलनं स्यात् अतः सन्निकर्षाभावान्न ज्ञानमिति भावः । किं तत इत्यत आह- चक्षुरात्मेति ।। ततो जाग्रद्दर्शनहेतुत्वात् ॥। ४ ॥